मकरसंक्रान्तेः फलम् (जनवरी 2026)
मकरसंक्रान्तिः भारते अत्यन्तं प्रसिद्धं महत्त्वपूर्णं च पर्व अस्ति। एतत् पर्व जनाः उत्साहेन आचरन्ति। अस्मिन् दिने भगवान् सूर्यः पूज्यते। सूर्यदेवाय गुडखिचरी, रेवडी इत्यादीनि अर्प्यन्ते।
पञ्चाङ्गानुसारं माघकृष्णैकादशी तिथौ बुधवासरे दिनाङ्के 14 जनवरी, अपराह्णे 3:07 वादने सूर्यदेवः मकरराशौ प्रवेशं करिष्यति। अस्यां संक्रान्तौ पुण्यकालः प्रातः 8:40 वादनात् सायं 5:50 वादनपर्यन्तं भविष्यति।
एषा मकरसंक्रान्तिः बैगवाहनेन आगच्छति। मन्दाकिनीयोगात् आगामिमासः राजकीय अधिकारीणां राजनीतिज्ञानां च कृते शुभफलप्रदः उन्नतिकारकश्च भविष्यति।
संक्रान्तिप्रवेशकाले बालवकरणयोगः अस्ति। संक्रान्तिः अश्ववाहनेन आगच्छति, कुङ्कुमलेपनयुक्ता, पीतवस्त्रधारिणी, चमेलीपुष्पमालां धारयन्ती, हस्ते गदां धारयन्ती, रजतपात्रे क्षीरान्नं भुञ्जाना, उपविष्टावस्थायां कुमारीरूपेण दिनस्य तृतीयभागे प्रवेशं करिष्यति।
अतः आगामिमासः व्यापारीणां उद्योगपतिनां च कृते सावधानतासूचकः भविष्यति। विशेषतः अस्त्र-शस्त्र-व्यवसायिनां वस्त्रव्यवसायिनां च कृते कालः कष्टपूर्णः भविष्यति। अशुभफलनिवारणाय संक्रान्तिकाले स्थित्वा सूर्यदेवाय जलं दत्त्वा सप्तवारं नमस्कारः करणीयः।
मकरसंक्रान्तेः त्रिंशन्मूर्तियोगात् धान्यादीनां मूल्यानि किञ्चित् घटिष्यन्ति, अनन्तरं स्थिरता भविष्यति।
मकरसंक्रान्तौ शुभफलप्राप्ताराशयः अधः प्रदीयन्ते
१. वृषभराशिः
वृषभराशिजातकानां कृते अयं कालः शुभः भविष्यति। ये जनाः परिश्रमेण मनसा च कार्यं करिष्यन्ति, ते अवश्यं सफलतां प्राप्स्यन्ति। पारिवारिकसंबन्धेषु मधुरता भविष्यति। स्वास्थ्ये अपि समीचीनं भविष्यति।
२. तुलाराशिः
तुलाराशिजातकानां मनोकामनाः पूर्णाः भविष्यन्ति। गृहपरिवारस्य सह सम्बन्धाः उत्तमाः भविष्यन्ति। उद्योगकामीे उद्योगं प्राप्स्यति। नवकार्यप्रारम्भे सफलता भविष्यति। नवमित्राणि प्राप्स्यन्ति। सरकारतः सम्मानयोगोऽपि सम्भवति।
३. मीनराशिः
मीनराशिजातकानां कृते मकरसंक्रान्तिः शुभफलप्रदा भविष्यति। धनलाभस्य योगः अस्ति। नवकार्यप्राप्तिः सम्भवति। गृहसमस्याः रोगाश्च शनैः नश्यन्ति। मित्रैः सह समयव्यतीतस्य अवसराः भविष्यन्ति। भविष्ययोजनानिर्माणे सक्रियता भविष्यति। व्यापारक्षेत्रे अंशबाजारे च लाभसंकेताः सन्ति। स्वास्थ्यं अपि उत्तमं भविष्यति।
डाॅ. खुशेन्द्रदेवचतुर्वेदी
सहायकप्राध्यापकः
ज्योतिषविभागः
महर्षिमहेशयोगीवैदिकविश्वविद्यालयः
करौंदी, कटनी, मध्यप्रदेशः
