*सामसीमहाविद्यालये- गीताजयन्तीमहोत्सवः पालितः*
सामसी, मालदा,
प्रतिवर्षमिव वर्षेऽस्मिन् अपि महाविद्यालये गीताजयन्तीमहोत्सवः आयोजितः।
अस्मिन् जयन्तीमहोत्सवे श्लोकपाठः, प्रश्नोत्तरी स्पर्धा च कारिताः।
छात्राणां प्रस्तुतिम् अवलोक्य सर्वे भृशम् आनन्दं प्राप्तवन्तः।
अत्र त्रिंशतछात्राः भागग्रहणं कृत्वा पुरस्कारं लब्धवन्तः। प्राचार्यः डॉ.सलीलकुमारमुखार्जी छात्रान् गीता-अध्ययनाय जीवने आचरणाय च प्रेरितवान्।
अवसरेऽस्मिन् अस्य महाविद्यालयस्य अध्यापकः डॉ.शिवप्रसादः वेहेरा गीतायाः परिचयम्, उपोयोगिता, महत्त्वं आध्यात्मिकदृष्ट्या , राजनैतिकदृष्ट्या , सामाजिकदृष्ट्या, मनोवैज्ञानिकदृष्ट्या,साहित्यदृष्ट्या च व्याख्यानं कृतवान् । डॉ. रामेश्वरमुखार्जी,डॉ. सुजितमजुमदारः, वावलुमुर्मु च वक्तव्यं दत्तवन्तः। इतोऽपि श्रीमती निलीमा सरकारः, श्रीमान् देवादिदेवः चक्रवर्ती, डॉ मेधाकुमारी, डॉ.देवमित्रा दासः, वरुणः तिरुआ, मौसुमी दत्तः , सुदेवसरकारः , सञ्जयकर्मकारः च उपस्थिताः आसन्।
डॉ मेधाकुमारी कार्यक्रमस्य परिचालिका आसीत् । धन्यवादज्ञापनं कृतवती संस्कृतविभागाध्यक्षा श्रीमती निलीमा सरकारः । अन्ते शान्तिमन्त्रेण कार्यक्रमः सम्पन्नः कृतः।
