मुख्यमंत्री सुक्खुः धर्मशालायां समृद्धिभवनस्य उद्घाटनं कृतवान्, जनेभ्य: आधुनिकसेवाः उपलब्धा: भविष्यन्ति

हिमसंस्कृतवार्ता:- धर्मशाला ।
मुख्यमन्त्री सुखविन्द्रसिंहसुक्खुः धर्मशालायां २४.४७ कोटिरुप्यकाणां व्ययेन निर्मितस्य समृद्धिभवनस्य उद्घाटनं कृतवान्। एतत् भवनं क्षेत्रस्य जनानां कृते आधुनिकं सुलभं च सेवां प्रदास्यति। भूकम्पक्षेत्रं ५ मनसि कृत्वा, तस्य सुरक्षां सुनिश्चित्य भवनस्य परिकल्पना अत्याधुनिकमूलसंरचनाभिः कृता। २५११ वर्गमीटरक्षेत्रे निर्मितं भवनं भूतलं, चतुर्तलीयं, आधारतलद्वयं च अस्ति। आधारतले ८० वाहनानां कृते पार्किङ्गस्थानं भविष्यति, यत्र कर्मचारिणां सार्वजनिकवाहनानां च कृते निर्दिष्टानि स्थानानि सन्ति। अत्याधुनिकसुविधाभिः सुसज्जिते अस्मिन् भवने धूमविज्ञापकैः सह सुदृढाः अग्निशामकप्रणाल्याः, ५० किलोवाट सौरविद्युत्संस्थानम्, ३०,००० लीटरपरिमितं जलसञ्चयक्षमताया: वर्षाजलसङ्ग्रहणभण्डार:, डीजीसेट, अन्त:संचारसुविधाः च सन्ति प्रशासनिकदक्षतायाः, नागरिकसेवानां, स्थायिशासनस्य च अत्याधुनिककेन्द्रत्वेन समृद्धिभवनस्य महत्त्वे बलं दत्त्वा मुख्यमन्त्री उक्तवान् यत् भवनं सामरिकस्थाने स्थितम् अस्ति, धर्मशालायां विविधकार्यं सुगमं करिष्यति।
राज्ये नगरीयमूलसंरचनापरियोजनानां कृते अपि एतत् भवनं आदर्शरूपेण कार्यं करिष्यति। अस्मिन्नवसरे विधायक: सुरेशकुमार:, पूर्वसांसद विप्लवठाकुर, धर्मशालाया: महापौर नीनुशर्मा, कांग्रेसनेता देवेन्द्र जग्गी, हिमाचलप्रदेश- ऊर्णमहासंघस्य अध्यक्ष: मनोजठाकुर:, एपीएमसी कांगड़ा इत्यस्य अध्यक्ष: निशुमोंगरा आदय: गणमान्या: जना: उपस्थिता अभवन्।
