By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: *गीताजयन्त्युत्सवपरिपालनेन सर्वदर्शनमन्थनपरिषदः १०८ व्याख्यानमालासु षोडशतमं व्याख्यानं सुसम्पन्नम्।* 
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > असमवार्ता: > *गीताजयन्त्युत्सवपरिपालनेन सर्वदर्शनमन्थनपरिषदः १०८ व्याख्यानमालासु षोडशतमं व्याख्यानं सुसम्पन्नम्।* 
असमवार्ता:अन्ताराष्ट्रीयवार्ताःदिवसविशेषः

*गीताजयन्त्युत्सवपरिपालनेन सर्वदर्शनमन्थनपरिषदः १०८ व्याख्यानमालासु षोडशतमं व्याख्यानं सुसम्पन्नम्।* 

डॉ.निशिकान्तः पाण्डेयः
Last updated: 2025/12/01 at 10:23 PM
डॉ.निशिकान्तः पाण्डेयः
Share
2 Min Read
SHARE

*गीताजयन्त्युत्सवपरिपालनेन सर्वदर्शनमन्थनपरिषदः १०८ व्याख्यानमालासु षोडशतमं व्याख्यानं सुसम्पन्नम्।* 

 

नलवारी, असमप्रदेशः

अद्य ०१/१२/२०२६ तमे दिनाङ्के कुमारभास्करवर्मसंस्कृत–पुरातनाध्ययनविश्वविद्यालयस्य मुख्यसभागारे सर्वदर्शनविभागेन सर्वदर्शनमन्थनपरिषदा च भव्यया शोभया “गीताजयन्तीसमारोहः” सम्यक् आयोजितः। गीताजयन्तीदिनेऽस्मिन् विश्वविद्यालये सर्वत्र आध्यात्मिक–सांस्कृतिक–शैक्षणिक–भावनानां सुमधुरसङ्गमः दृष्टः।

 

समारोहस्य मुख्यवक्तारूपेण विश्वविद्यालयस्य आदारणीयाः कुलगुरवः वरिष्ठाचार्याः प्रो. रॉ. जोशी महोदयाः आमन्त्रिताः। ते “आधुनिकयुगे भगवद्गीता” इति अतिगभीरं विषयं समालम्ब्य गीतायाः सारभूतं मन्तव्यं बुद्धिलाघवेन सुबोधतया च प्रस्तुतवन्तः। भगवद्गीतायाः तत्त्वज्ञानम्, कर्मयोगस्य आधुनिकीकरणम्, भक्तेः वैश्विकमहत्त्वम्, तथा च नित्यजीवने आध्यात्मिकदृष्टेः अनिवार्यता—इत्यादीन् विषयान् ते समासाद्य अस्याः प्रासङ्गिकतां विस्तरेण प्रतिपादितवन्तः। तेषां वक्तव्यं श्रोतॄणां चेतसि दीर्घकालं निनादयति स्म।

 

समारोहे उपस्थिता आसन् विश्वविद्यालयस्य कुलसचिवः प्रो. विकाशभार्गव महोदयः, शैक्षणिककुलसचिवः प्रो. ज्योतिराजपाठक महोदयः च। उभाभ्यां महोदयाभ्यां गीतायाः विश्वमानवसमुदाये उपदिष्टस्य सदाचार–नैतिकता–कर्तव्यपरायणता–समत्वभावस्य वैशिष्ट्यं संक्षेपेण विवृण्वता सभा विशेषरूपेण प्रेरिताभवत्।

 

तत्पूर्वं सर्वदर्शनविभागाध्यक्षः प्रो. रणजीतकुमारतिवारीमहोदयः समग्रान् अतिथीन् स्वागतं विधाय कार्यक्रमस्य उद्देश्यं च प्रकाशयामास। सर्वदर्शनविभागस्य शैक्षणिक–दार्शनिक–अनुसन्धानपरम्परायाः गौरवम्, गीता–शास्त्रस्य विश्वपरम्परायां स्थानम्, तथा च आधुनिकत्वेनापि अध्यात्मस्य अपरीक्षितप्रभावः—इत्यादीनि ते वक्तारः सूचयामासुः।

 

विभागीयछात्रेण सोहन सुनारी इत्यनेन भगवद्गीतायाः भक्तियोगाध्यायात् चयनितं श्लोकपाठं सुन्दरस्वरेण कृत्वा समारोहस्य आध्यात्मिकभावनां बर्धितवान्। ततः विभागीयछात्रया सुमिदासेन भक्तिरसपूरितं श्रीकृष्णस्तुतिगीतं मधुरतः प्रगीय सर्वेषां मनांसि हर्षेण पूर्णानि कृतानि।

 

कार्यक्रमस्य समचालनं विभागीयशोधच्छात्रेण लिराजकाफ्लेमहोदयेन। तेन च ततः धन्यवादवक्तव्यं निर्वह्य उपस्थितानां प्रति कृतज्ञतां प्रकाशयामास।

 

सम्पूर्णकार्यक्रमे विश्वविद्यालयस्य नानाविभागाध्यक्षाः, प्राध्यापकवर्गः, सहायकाचार्याः, शोधार्थिनः, स्नातक–स्नातकोत्तरविद्यार्थिनश्च उल्लेखनीयं सहभागं कृतवन्तः। सर्वत्र सौहार्दस्य आध्यात्मिकतायाः, तथा च अध्ययनचर्चायाः उत्साहं द्रष्टुं लभ्यते स्म।

 

एवं गीताजयन्तीसमारोहः ज्ञान–भक्ति–कर्म–योगानां समन्वयमिव सञ्जनयन् अत्यन्तं सफलतया समापितः।

You Might Also Like

संस्कृतभारत्याः संस्कृत-भाषा-बोधनवर्गस्य समापनसमारोहः 

पण्डितअटलबिहारीवाजपेयी महोदयस्य व्यक्तित्वं कृतित्वं च(जन्मदिवसविशेष:)

*सामसीमहाविद्यालये- गीताजयन्तीमहोत्सवः पालितः* 

प्रधानमन्त्री मोदी जी-२० शिखरसम्मेलने भागं ग्रहीतुं जोहान्सबर्ग्नगरम् प्राप्तवान्, जातं भव्यं स्वागतम्

बहिष्कृतायाः बाङ्ग्लादेशस्य प्रधानमन्त्री शेख हसीना इत्यस्याः मृत्युदण्डस्य संयुक्तराष्ट्रसङ्घः विरोधम् अकरोत्

Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
Previous Article GITA JAYANTI 2025 – कलियाचकविक्रमकिशोर-आदर्शसंस्कृतमहाविद्यालये साडम्बरं गीताजयन्त्युत्सवः परिपालितः
Next Article *सामसीमहाविद्यालये- गीताजयन्तीमहोत्सवः पालितः* 
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?