GITA JAYANTI 2025 – कलियाचकविक्रमकिशोर-आदर्शसंस्कृतमहाविद्यालये साडम्बरं गीताजयन्त्युत्सवः परिपालितः

हिमसंस्कृतवार्ता:- जगदीश डाभी
प्रतिवर्षं मार्गशीर्षे मासे शुक्लैकादश्यां तिथौ आभारतं गीताजयन्त्युत्सवः परिपाल्यते इति सर्वविदितमेव। तामेव रीतिम् अनुसृत्य केन्द्रीयसंस्कृतविश्वविद्यालयस्य कुलपतिवर्याणाम् आदेशानुसारेण अस्मिन्नपि वर्षे (२०२५ तमक्रीस्ताब्दे) दिसम्बरमासस्य प्रथमे दिनाङ्के मार्गशीर्ष-शुक्लैकादशीतिथौ सोल्लासं कलियाचकविक्रमकिशोर-आदर्शसंस्कृतमहाविद्यालये गीताजयन्त्युत्सवः परिपालितः। अनुष्ठानस्य अस्य अध्यक्षाः आसन् महाविद्यालयस्य भारप्राप्तप्राचार्याः डॉ ० अमरेन्द्रकुमारमिश्रमहाभागाः। तेषाम् अध्यक्षतायाम् अनुष्ठानमिदं सुष्ठु सम्पन्नम्। अनुष्ठानस्य अस्य आरम्भे अध्यक्षसमेताः सर्वेऽपि शिक्षकाः छात्राः शिक्षाकर्मिणश्च गीतारूपिण्याः भगवत्याः वन्दनं पुष्पाञ्जलिप्रदानं च कृतवन्तः। ततः अनुष्ठानेऽस्मिन् सम्मिलिताः सर्वेऽपि एककण्ठेन गीतायाः पुरुषोत्तमयोगाख्यस्य पञ्चदशाध्यायस्य पारायणम् अकुर्वन्। अग्रे महाविद्यालयस्य व्याकरणविभागस्य विभागाध्यक्षाः मान्याः डॉ. सङ्कर्षणपण्डामहाभागाः गीताजयन्त्याः माहात्म्यम् अवर्णयन्। तदनु अनुष्ठानस्य अस्य अध्यक्षाः डॉ. अमरेन्द्रकुमारमिश्रवर्याः स्ववचोभिः छात्रान् उद्बोधितवन्तः। अनुष्ठाने अस्मिन् साहित्यविभागस्य विभागाध्यक्षाः डॉ. नृसिंहनाथगुरुवर्याः, वेदान्तविभागस्य विभागाध्यक्षाः डॉ. दयानन्दपाणिग्राहिमहाभासामान्यरूपेणगाः, धर्मशास्त्रविभागस्य विभागप्रधानाः डॉ ₹₹० सुरञ्जनपाहाडीमहोदयाः, अन्ये धन्यवादम् अतिथ्यध्यापकाः च उपस्थिताः आसन्। अनुष्ठानस्य अस्य सञ्चालकानां डॉ दयानन्दप्राणिग्राहिमहाभागानां सञ्चालनकौशलबलाद् “ऊर्ध्वमूलमधः शाखम्” इति श्लोकमादाय सभासत्सु शास्त्रार्थ. अपि जातः। अन्ते धर्मशास्त्रविभागीयाः डॉ ० सुरञ्जनपाहाडीमहोदयाः विनिवेद्य इमां सभां समापितवन्तः।
