सत्यस्य अहिंसायाः च प्रकाशः प्रसृतः भविष्यति, चीन-तिब्बती-सङ्घर्षस्य च शीघ्रमेव समाधानं भविष्यति- तेनजिन लेक्षय
हिमसंस्कृतवार्ता:- धर्मशाला।
निर्वासितस्य तिब्बतीसर्वकारस्य प्रवक्ता तेनजिन लेक्षय इत्यनेन उक्तं यत्, “दीपावल्याः अस्मिन् शुभावसरे केन्द्रीयतिब्बतीप्रशासनस्य, विश्वस्य सर्वेषां तिब्बतीनां च कृते अहं मम सर्वेभ्यः भारतीयभ्रातृभगिनीभ्यः दीपावल्याः हृदयेन अभिवादनं करोमि। “अहं प्रार्थयामि यत् एषः प्रकाशोत्सवः अस्मान् सर्वान् प्रकाशेन पूरयेत्, सत्येन, अहिंसया, स्वतन्त्रतया च अस्मान् प्रकाशयेत्। यतः अस्माकं मिशनं सत्य- अहिंसा- आधारितम् अस्ति, अतः अहं आशासे यत् सत्य- अहिंसायाः एषः प्रकाशः तिब्बतदेशं प्रति प्रसृत्य चीन-तिब्बती-सङ्घर्षस्य शीघ्रं समाधानं करिष्यति।
तत्रैव तिब्बती-निर्वासितसंसदस्य सदस्यः दोरजी त्सेतेन अवदत् यत्, “तिब्बती-निर्वासित-संसदस्य तिब्बती-समुदायस्य च सदस्यत्वेन अहं मम सर्वेभ्यः भारतीयभ्रातृभगिनीभ्यः दीपावली- उत्सवस्य हृदयेन अभिवादनं करोमि। दीपावली प्रकाशानां उत्सवः अस्ति, अतः अस्मान् स्मारयति यत् प्रकाशः अन्धकारं जित्वा गच्छति। वयं मन्यामहे यत् सत्यम् अन्ते विजयं प्राप्नोति, अतः एषः एव सन्देशः वयं दिवालीतः तिब्बतीभ्यः अन्तः बहिश्च गृह्णामः, परमपूज्यस्य दलाई लामा इत्यस्य सन्देशः अपि अहिंसा-शान्तिसन्दर्भे अस्ति, येन तिब्बतप्रकरणस्य समाधानं भविष्यति। वयं ६० वर्षाणाम् अधिकं कालात् भारते निवसन्तः तिब्बतीः स्मः, भारतम् अस्माकं द्वितीयं गृहम् अस्ति तथा च भारतीयस्वतन्त्रतासङ्घर्षः सर्वदा प्रेरणादायक: एव अस्ति, अतः दीपावली इत्यादिः उत्सवः तिब्बतीनां कृते अन्तः बहिश्च आशां जनयति, वयं च एतत् अवसरं स्वीकृत्य भारतीयजनानाम्, सर्वकारस्य च कृते तेषां समर्थनं तिब्बतेन सह स्थातुं धन्यवादं दद्मः।
