एशियाई-क्रीडायाः स्वर्ण-विजेतृभ्यः कन्याभ्यः राजकीय-सेवा प्रत्येकं च एक-कोटि-रूप्यकाणां पुरस्कारः
हिमसंस्कृतवार्ता — शिमला।
एशियाई-क्रीडासु (Asian Games) उत्कृष्ट-प्रदर्शनेन राष्ट्रस्य विजय-पताकां समुच्छ्रितां कृतवतीभ्यः हिमाचलस्य तिसृभ्यः महिला-कबड्डी-क्रीडिकाभ्यः सुक्खू-सर्वकारेण प्रत्येकायै एक-कोटि-रूप्यकाणां पुरस्कार-राशिः, सहैव राजकीय-सेवा च प्रदास्यते। भारतीय-महिला-क्रिकेट-विश्व-विजेतृ-दलस्य सदस्यायै रेणुका-ठाकुरायै अपि एक-कोटि-रूप्यकाणां पुरस्कारः लप्स्यते। मुख्यमन्त्री सुखविन्दरसिंहसुक्खू-महोदयः सोमवासरे इमां महतीं घोषणां कृतवान्।
सोमवासरे एशियाई-क्रीडासु स्वर्ण-पदकं जित्वा भारतस्य यशः वर्धितवतीभिः हिमाचलस्य महिला-क्रीडिकाभिः—पुष्पा-राणा, ज्योति-ठाकुर, भावना-ठाकुर—इत्येताभिः मुख्यमन्त्रिणा सह शिष्टाचार-मेलनं विहितम्। अस्मिन् अवसरे मुख्यमन्त्रिणा पारम्परिकया हिमाचली-टोपिकया शाल-वस्त्रेण च तिस्रः अपि क्रीडिकाः सम्मानिताः, तासां महनीय-उपलब्धये च अभिनन्दनं कृतम्।
क्रीडिकाभ्यः सम्मान-समारोहः, क्रीडा-विभागे सेवा-नियोजनम्
मुख्यमन्त्रिणा प्रतिपादितं यत् हिमाचली-कन्यानां परिश्रमेण साफल्येन च समग्र-प्रदेशस्य मस्तकं गर्वेण समुन्नतम् अस्ति। सः अवदत् यत् प्रदेश-सर्वकारः शीघ्रमेव तासां सम्मानाय एकं भव्यं समारोहम् आयोजयिष्यति, यत्र ताभ्यः एक-कोटि-रूप्यकाणां सम्मान-धनं समर्पयिष्यते। याः क्रीडिकाः आरक्षी-विभागे (Police Department) सेवां कर्तुं नेच्छन्ति, ताभ्यः क्रीडा-विभागे (Sports Department) नियुक्तिः दीयते।
उल्लेखनीयं यत् पूर्वं सर्वकारेण कबड्डी-दलस्य चतसृभ्यः क्रीडिकाभ्यः त्रयस्त्रिंशत्-लक्ष-रूप्यकाणां (३३-३३ लक्ष) राशि-दानस्य घोषणा कृता आसीत्, यस्मिन् विषये पुष्पा-राणा-महोदयया प्रश्नः उत्थापितः आसीत्। सहैव विश्व-विजेतृ-क्रिकेट-क्रीडिकायाः रेणुका-ठाकुर-महोदयायाः पुरस्कार-प्रकरणम् अपि चर्चायाम् आसीत्। साम्प्रतं तासां याचनाः मनसि निधाय मुख्यमन्त्रिणा साक्षात् एक-कोटि-रूप्यकाणां पुरस्कारः उद्घोषितः।
लक्षाभिमुखी भूत्वा परिश्रमं कुर्वन्तु कन्याः — पुष्पा-राणा
मुख्यमन्त्रिणा सह मेलनानन्तरं वार्ताहरान् सम्बोधयन्ती पुष्पा-राणा अवदत् यत् मुख्यमन्त्रिणा योग्यतायाः उपलब्धीनां च आधारेण राजकीय-सेवा-प्रदानस्य आश्वासनं दत्तम्। सा बालिकाभ्यः सन्देशं दत्त्वा अवदत् यत् कन्याभिः लक्षाभिमुखी भूत्वा कठोरः परिश्रमः करणीयः, कस्यापि भयं न मन्तव्यम्।
सा प्रोक्तवती यत् बालिकाः स्वयमेव समर्थाः सन्ति, यस्मिन्नपि क्षेत्रे गमिष्यन्ति तत्र साफल्यं प्राप्स्यन्ति। कबड्डी-क्रीडा तावती व्यय-साध्या नास्ति; शाला-स्तरे शारीरिक-शिक्षकाणां मार्गदर्शनानन्तरं क्रीडा-छात्रावासेषु क्रीडा-अकादमीषु च प्रशिक्षणस्य विपुल-अवसराः समुपलब्धाः वर्तन्ते।
