हिमाचलप्रदेशे सर्वेषां शिक्षकाणां कृते अध्यापकपात्रतापरीक्षायाः अनिवार्यताया: कारणेन आवेदनसंख्या वर्धिता।
हिमसंस्कृतवार्ता- डॉ पद्मनाभ:।
धर्मशाला। सर्वेभ्यः अध्यापकेभ्यः अध्यापकपात्रता-परीक्षां उत्तीर्णां कर्तुं सर्वोच्चन्यायालयेन अनिवार्यतां निर्दिष्टां कृत्वा, अस्मिन् वर्षे हिमाचलप्रदेश-विद्यालय-शिक्षाबोर्ड् मध्ये आवेदनसंख्यायां वृद्धिर्भविता अस्ति। अनेन कारणेन शिक्षाबोर्डस्य समीपे षण्मासपूर्वं जून् २०२५ मासे जातायाः अध्यापकपात्रतापरीक्षायाः तुलनायां, नवम्बरमासे आयोज्य परीक्षायाः कृते १९७२ आवेदनानि अधिकानि प्राप्तानि सन्ति।एतस्मिन् समये कतिचन विषयेषु आवेदनसंख्या न्यूनाभूता, किन्तु जेबीटी, संस्कृत तथा विज्ञान-विषये आवेदनसंख्या वर्धिता। प्राप्तसूचनानुसारं हिमाचलप्रदेश-विद्यालय-शिक्षाबोर्डेन नवम्बरमासे आयोज्य अध्यापकपात्रतापरीक्षायाः (टेट्) कृते १० सितम्बरात् ८ अक्तूबरपर्यन्तं ऑनलाइन-आवेदनानि स्वीकृतानि। अस्मिन् अवधौ शिक्षाबोर्डस्य समीपे कुलम् ३८,८८३ आवेदनानि प्राप्तानि।
तत्र ३६,५७१ आवेदनानि सम्यग् प्राप्तानि सन्ति। अस्य वर्षस्य आवेदनसंख्या, षण्मासपूर्वं जातायाः परीक्षायाः अपेक्षया १९७२ अधिका अस्ति। बोर्डस्य समीपे जूनमासस्य तुलनायां, नवम्बरमासे जेबीटी-विषये २६१५, विज्ञान-विषये २३७ तथा संस्कृतविषये ६१६ आवेदनानि अधिकानि प्राप्तानि।
एतस्मिन्नन्तरे कतिचन विषयेषु, यथा कला, गणित तथा विशेष-शिक्षक-विषयेषु आवेदनसंख्या न्यूनाभूता। अनुमान्यते यत् आवेदनवृद्धेः प्रमुखं कारणं सर्वोच्चन्यायालयेन सर्वेषां अध्यापकानां कृते अध्यापकपात्रतापरीक्षायाः अनिवार्यता निर्दिष्टा भवेत्।
जूनमासे जातायाः अध्यापकपात्रतापरीक्षायाः तुलनायां अस्मिन् नवम्बरमासे शिक्षाबोर्डस्य समीपे १९७२ आवेदनानि अधिकानि प्राप्तानि। शिक्षाबोर्डप्रशासनम् अपि कतिचन अपूर्णानि आवेदनानि निरस्तानि कृतवान्। परीक्षा द्वितीयात् नवम्बरात् षोडशतमे नवम्बरपर्यन्तं भविष्यति।
— डॉ॰ (मेजर) विशालः शर्मा, सचिवः, विद्यालय-शिक्षाबोर्ड।

