By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: राजकीय-उच्च-विद्यालय-धारस्य छात्रः अभिनवराणा देशे विद्यालयस्य नाम उज्ज्वलीकृतवान्
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > हिमाचलवार्ता > राजकीय-उच्च-विद्यालय-धारस्य छात्रः अभिनवराणा देशे विद्यालयस्य नाम उज्ज्वलीकृतवान्
हिमाचलवार्ता

राजकीय-उच्च-विद्यालय-धारस्य छात्रः अभिनवराणा देशे विद्यालयस्य नाम उज्ज्वलीकृतवान्

डॉ.अमनदीप शर्मा
Last updated: 2026/09/25 at 8:43 PM
डॉ.अमनदीप शर्मा - Founder Of Himsanskritam.com
Share
2 Min Read
SHARE

राजकीय-उच्च-विद्यालय-धारस्य छात्रः अभिनवराणा देशे विद्यालयस्य नाम उज्ज्वलीकृतवान्
हिमसंस्कृतवार्ता: – सिरमौर: ।
राजकीय-उच्च-विद्यालय-धारस्य दशमकक्षायाः मेधावी छात्रः अभिनवराणा ‘हिमसंस्कृतम् (न्यासः)’ संस्थायाः ‘हिमसंस्कृतवार्ता’ इति दैनिक-ई-संस्कृत-समाचारपत्र-प्रकल्पेन आयोजितायाम् अखिलभारतीय-संस्कृतगीत-प्रतियोगितायाम् (२७ अगस्त २०२६ तः ०७ सितम्बर २०२६ पर्यन्तम्) द्वितीयं स्थानं प्राप्य विद्यालयस्य समग्रक्षेत्रस्य च गौरवम् अवर्धयत्। इयं प्रतियोगिता संस्कृतसप्ताहस्य शुभावसरे ऑनलाइनमाध्यमेन आयोजिता आसीत्। छात्रस्य अस्याम् अभूतपूर्वायाम् सफलतायाम् विद्यालयस्य प्रभारी ईश्वरचन्द्रराणा, संस्कृताध्यापकः राजेन्द्रसिंहठाकुरः, हिन्दी-अध्यापकः सुभाषशर्मा, टीजीटी (नॉन-मेडिकल) अध्यापकः सुनीलकुमारः, टीजीटी (आर्ट्स) अध्यापकः कँवरराणा, टीजीटी (आर्ट्स) अध्यापिका रामरत्तीदेवी, कला-अध्यापिका सीमाशर्मा, आईटीसी-अध्यापिका रीनादेवी तथा च प्राथमिकविद्यालयस्य सर्वे अध्यापकाः अभिनवराणा इत्यस्य पितरौ वर्धापनं समर्पितवन्तः, छात्रस्य उज्ज्वल-भविष्याय शुभाशयाः च प्रकटितवन्तः। विद्यालयस्य प्रभारी ईश्वरचन्द्रः उक्तवान् यत् इयं राष्ट्रियस्तरीया प्रतियोगिता आसीत्, यस्याम् अभिनवराणा द्वितीयं स्थानं प्राप्तवान्। एतत् विद्यालयस्य कृते अतीव गौरवस्य विषयः अस्ति। संस्कृताध्यापकः राजेन्द्रसिंहः अवदत् यत् अनेन छात्रेण समग्रे भारते द्वितीयं स्थानं प्राप्य एतत् सिद्धं कृतं यत् परिश्रमेण निष्ठया च वयं स्वलक्ष्यं प्रति अग्रसराः भूत्वा सफलतां प्राप्तुं शक्नुमः। अभिनवराणा अस्यां प्रतियोगितायां भागं गृहीत्वा समग्रस्य क्षेत्रस्य नाम उज्ज्वलीकृतवान्। अनेन सह एव अस्य विद्यालयस्य अन्ये प्रतिभागी-छात्रे वंशिकाराणा अवनीराणा च अपि विद्यालयप्रशासनेन सम्मानिते। अभिनवराणा इत्यस्य पिता बलदेवराणा उक्तवान् यत् अस्याः सफलतायाः श्रेयः छात्रस्य कठोरपरिश्रमाय तथा च संस्कृताध्यापकस्य कुशलमार्गदर्शनाय गच्छति। विद्यालयप्रभारी ईश्वरचन्द्रः छात्राणां प्रतिभायै प्रोत्साहनार्थम् अस्याः प्रतियोगितायाः आयोजनकृते ‘हिमसंस्कृतम् न्यास’-प्रकल्पस्य संयोजकसमित्याः कृते अपि कार्तज्ञ्यं (धन्यवादम्) व्यक्तम् अकरोत्। छात्रप्रोत्साहनस्य अस्मिन् मङ्गलावसरे प्राथमिकविद्यालयस्य प्रभारी टीकारामशर्मा, जेबीटी-अध्यापकः श्यामसिंहठाकुरः, चतुर्थश्रेणीकर्मचारिणौ भावसिंहराणा, सुमित्राराणा च उपस्थिताः आसन्।

You Might Also Like

रेणुकाक्षेत्रे दशवर्षान्तरं भूयः व्याघ्रस्य गर्जनं श्रुतम्, अक्तूबरमासस्य द्वितीयादिनादारभ्य पयर्टकाः द्रष्टुं शक्ष्यन्ति

सितम्बर-मासे रोहताङ्ग-प्रभृति-शिखरेषु हिमपातस्य शुभ्राच्छादनम्; त्रि-होराः यावत् स्थगिता मणिमहेश-यात्रा

शिवागम-साधकाः १८ सितम्बर-दिनाङ्के करिष्यन्ति डल-सरोवरावरण-भेदम्; तदनन्तरं प्रारप्स्यते पवित्रं ‘शाही-स्नानम्’

उद्यानपालकेभ्यः सर्वकारस्य महदोपहार:,एमआईएस-अन्तर्गतं प्रति-किलोग्रामं त्रीणि रूप्यकाणि वर्धिष्यन्ते सेव-मूल्यानि

सङ्कटे हिमाचलस्य सुरम्यः विहग:, गिरेः दुर्लभं न्यासं रक्षिष्यति वन्य-प्राणि-विभागः

Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ.अमनदीप शर्मा Founder Of Himsanskritam.com
Follow:
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Previous Article खण्डस्तरीयसंस्कृतप्रतियोगितायां भुवनेश्वरीविद्यालयस्य वर्चस्वम्
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Register Lost your password?