HPU Shimla – हिमाचलविश्वविद्यालयेन उपाधिं पूर्णां कर्तुं श्रेणीं परिष्कर्तुं चातिरिक्त: अवसर: प्रदत्त:
हिमसंस्कृतवार्ता:- शिमला।
हिमाचलप्रदेशविश्वविद्यालयेन (एचपीयू) कार्यकारीपरिषद: अनुमोदनस्य अनन्तरं, छात्राणां उपाधिं पूर्णं कर्तुम् अतिरिक्तवर्षं (5 वर्षाणां निर्धारितकालात् परम्) अवसररूपेण दातुम् अधिसूचना प्रकाशिता। ये छात्राः 2020-21, 2021-22, 2022-23, 2023-24, 2024-25, 2025-26 च शैक्षणिकसत्रेषु प्रथमवर्षे स्नातकपाठ्यक्रमेषु (BA/BSc/BCom) नामाङ्कनं कृतवन्तः परन्तु JBT/D.El.Ed इत्यस्मिन् प्रवेशस्य कारणेन स्नातकपदवीं पूर्णं कर्तुम् असमर्थाः आसन् अथवा ये अन्यै: अपरिहार्यकारणै: कृते उपाधिं पूर्णं न कर्तुं शक्तवन्त: तेषां कृते अन्तरवर्षस्य क्षमारूपेण ₹ 7,000 शुल्कं प्रदाय उपाधिं पूर्णां कर्तुमवसर: दत्त: ।
तदतिरिक्तं हिमाचलप्रदेशविश्वविद्यालयेन आवश्यकशुल्कं दत्त्वा २००५-०६ तः आरभ्य विभिन्नेषु स्नातक-स्नातकोत्तर-पाठ्यक्रमेषु, तथैव व्यावसायिकपाठ्यक्रमेषु च श्रेणी-परिष्कारस्य अवसरः अपि प्रदत्तः अस्ति अस्य कृते विश्वविद्यालयेन सूचना प्रकाशिता अस्ति।

