KKSU Ramtek – कविकुलगुरु- कालिदास- संस्कृतविश्वविद्यालयेन भारतसर्वकारस्य शिक्षामन्त्रालयात् ७ प्रमुखाः शोधप्रकल्पाः प्राप्ताः
हिमसंस्कृतवार्ता:- नागपुरम्।
कविकुलगुरुकालिदास- संस्कृतविश्वविद्यालयेन भारतसर्वकारस्य शिक्षामन्त्रालयस्य केन्द्रीययोजनायाः अन्तर्गतं केन्द्रीय- संस्कृत- विश्वविद्यालयात् नवीदिल्लीतः ७ प्रमुखाः शोधप्रकल्पाः प्राप्ताः। एतासां सर्वासां परियोजनानां कृते सर्वेषां शोधकर्तॄणाम् अनुमोदनपत्राणि प्राप्तानि सन्ति।
संस्कृतभाषायाः अध्ययनाय, अनुसन्धानाय, प्रशिक्षणाय च भारतसर्वकारः अष्टदशी परियोजनायाः अन्तर्गतं विविधाः योजनाः संचालयति। एतासु विविधयोजनासु अतीव कठोरमापदण्डाः सन्ति। विश्वविद्यालयेन परियोजनानुमोदनपत्राणि सर्वैः परियोजनाप्रस्तोतृभिः प्रभावीप्रस्तुतिं कृत्वा परियोजनानां गुणवत्तां शोधकार्यं च सुनिश्चित्य एव प्राप्तानि। भारतसर्वकारस्य शिक्षामन्त्रालयस्य अन्तर्गतं केन्द्रीय- संस्कृत- विश्वविद्यालय- नवदेहलीद्वारा अनुमोदिता: शोधपरियोजना: शोधकर्तारश्च निम्नलिखितरूपेण सन्ति-
१. डॉ. श्रीवरदा मालगे, डॉ. रेणुका बोकारे- (दशलक्षरूप्यकाणां संस्कृतबालसाहित्यस्य एनिमेटेड विडियो),
२. प्रो. कविता होले तथा डॉ. पल्लवी कावले (संस्कृतसाहित्ये महिलाचरित्रम्- एक नारीवादी परिप्रेक्ष्ये, ८ लक्षरुप्यकाणि),
३. प्रो हरेकृष्ण अगस्ती, डॉ. जयवन्त: चौधरी (महाभाष्यपठनकार्यशाला, ८ लक्षरुप्यकाणि)
४. डॉ. रेणुका करंदीकर, डॉ. नीता शर्मा (स्नातकोत्तर- हिन्दू- अध्ययनाय अध्ययन- सामग्री- विकास:, ६ लक्षरुप्यकाणि)
५. प्रो. मधुसूदन पेन्ना, प्रो. अविनाश चव्हाण: (धर्मशास्त्रे आंतरशाखीयसंशोधनम् ६ लक्षरूप्यकाणि)
६. डॉ. निशांतमिश्रः, डॉ. सचिनद्विवेदी (वेदभाष्यभूमिकासंग्रहस्य अनुवादः, ४.६८ लक्षरूप्यकाणि),
७. प्रो. परागजोशी, डॉ. पल्लवीकावले (संस्कृतवीरकथाः, ३ लक्षरूप्यकरूप्यकाणि) इत्यादयः एषां ४५.६८ लक्षरूप्यकाणां राशि अनुमोदिता। एतद् परियोजनानुमोदनं विश्वविद्यालयस्य संकायस्य उच्चसंशोधनगुणवत्तां प्रतिबिम्बयति। विश्वविद्यालयस्य इतिहासे प्रथमवारं एतावता बहूनां शोधपरियोजनानां प्राप्तिः अभवत्। विश्वविद्यालयस्य कुलपति: एवं प्रख्यात: वैज्ञानिक: डॉ. अतुलवैद्य: शोधपरियोजनाया: सर्वेभ्य: प्रतिभागिभ्य: शुभकामना: अगच्छत्। विश्वविद्यालयस्य कृते एषा ऐतिहासिकसंशोधनसिद्धिः अस्ति। कुलपतिः अवदत् यत्, “विश्वविद्यालयस्य ‘परम्परायां नवीनता’ इति शोधस्य आदर्शवाक्यस्य एतत् उत्तमं उदाहरणम् अस्ति।” संस्कृतक्षेत्रस्य प्राध्यापकाः एतादृशेषु विविधेषु, आधुनिकेषु, प्रौद्योगिकी- आधारितेषु विषयेषु संशोधनं कुर्वन्ति इति यथार्थतया प्रशंसनीयं, गौरवस्य च विषयः अस्ति।
