HP CONGRESS- हिमाचलप्रदेशकाङ्ग्रेससमितेः अध्यक्षपदस्य कृते प्रचलति द्वन्द्वस्य मध्ये मुख्यमंत्री सुक्खुः देहलीं प्रस्थित:। शीर्षनेतृत्वेन साकं कुलदीपराठौरस्य मेलनम्
हिमसंस्कृतवार्ता: – शिमला।
हिमाचलप्रदेशकाङ्ग्रेससमितेः अध्यक्षपदस्य स्पर्धा तीव्रा अभवत्। इदानीं गुरुवासरे अपराह्ने मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः दिल्लीं प्रति प्रस्थितवान्। दलस्य शीर्षनेतृत्वं कदापि नूतनाध्यक्षं घोषयिष्यति इति सूचना प्राप्यते।
काङ्ग्रेसस्य राष्ट्रियप्रवक्ता तथा ठियोगतः विधायकः कुलदीपसिंहराठौरः अध्यक्षपदे अग्रणीः इति मन्यते। राठौरः गुरुवासरे दिल्लीतः शिमलानगरं प्रत्यागतवान्।
सः दिल्लीनगरे दलस्य राष्ट्रियमहासचिवस्य केसीवेनुगोपालस्य, राज्यकार्याणां प्रभारी रजनीपाटिल इत्यनया च सह मिलितवान्।
दलस्य शीर्षनेतृत्वेन सः सङ्घटननिर्माणकार्यक्रमाय उत्तराखण्डस्य पर्यवेक्षकरूपेण नियुक्तः अस्ति। एतासां समागमानाम् अनन्तरं सः अध्यक्षपदस्य प्रबलतमः अधिकारी इति गण्यते, यद्यपि सः स्वयमेव पूर्वं अध्यक्षपदं स्वीकर्तुं नाङ्गीकृतवान् आसीत्।
सङ्घटनस्य सूत्रानुसारं तस्य नाम प्रायः अन्तिमरूपेण निर्धारितम् अस्ति। रजनी पाटिल शीर्षनेतृत्वाय स्वस्य प्रतिवेदनं प्रदत्तवती अस्ति। अस्य विषयस्य राहुलगान्धिना सह चर्चा भविष्यति, तदनन्तरं राष्ट्रियाध्यक्षेण मल्लिकार्जुनखड़गे इत्यनेन घोषणा भविष्यति।
रोहितठाकुरम् अध्यक्षं कर्तुं समर्थनम्
परन्तु दलस्य एकः वर्गः शिक्षामन्त्री रोहित ठाकुरस्य अध्यक्षाय दृढतया समर्थनं कुर्वन् अस्ति। केचन मन्त्रिणः अपि तस्य नाम्न: कृते अनुग्रहं कुर्वन्ति। रोहितठाकुरः सम्प्रति शिक्षामन्त्री अस्ति, वीरभद्रसर्वकारे च सीपीएसरूपेण कार्यं कृतवान्। शीर्षनेतृत्वेन विधानसभा-लोकसभा-निर्वाचनकाले अपि महत्त्वपूर्णं दायित्वं न्यस्तम् आसीत्। फलतः तस्य पदस्य अर्हताया: अत्यन्तं सम्भावना वर्तते।
दीपावलीत: पूर्वं घोषणा सम्भाव्यते
दिनद्वयं पूर्वं राठौर-रोहितठाकुरौ दिल्लीं गत्वा शीर्षनेतृभिः सह मिलितवन्तौ। दलस्रोतसाम् अनुसारं अध्यक्षपदस्य घोषणा दीपावलीत: पूर्वं भविष्यति।
राठौरः पूर्वमपि अध्यक्ष: अभवत्
यदि राठौरः अध्यक्षत्वेन नियुक्तः भवति तर्हि सः द्वितीयवारं राज्यस्य काङ्ग्रेसस्य कार्यभारं स्वीकुर्यात्। राठौरः २०१९ तः २०२२ पर्यन्तं राज्यकाङ्ग्रेसस्य अध्यक्षत्वेन अपि कार्यं कृतवान्।
सम्प्रति प्रतिभासिंह अध्यक्षा एकाकी पदाधिकारिणी चास्ति
सम्प्रति प्रतिभासिंह काङ्ग्रेस- अध्यक्षा, राज्ये काङ्ग्रेसपक्षस्य एकाकी पदाधिकारिणी चास्ति। तस्याः त्रिवर्षीयः कार्यकालः २०२५ तमस्य वर्षस्य एप्रिलमासे समाप्तः।
अग्रिमं विधानसभानिर्वाचनं नूतनाध्यक्षस्य नेतृत्वे भविष्यति
अग्रिमं विधानसभानिर्वाचनं काङ्ग्रेसपक्षस्य नूतनस्य अध्यक्षस्य नेतृत्वे भविष्यति इति निश्चितम्। अध्यक्षस्य कार्यकालः वर्षत्रयं भवति। परन्तु नूतनाध्यक्षस्य समक्षं सर्वाधिकं आह्वानं दिसम्बरमासे सम्भाव्यं पंचायतनिर्वाचनं भवति।
कुलदीपराठौरस्य नेतृत्वे विजितानि चत्वारि उपनिर्वाचनानि
कुलदीपराठौरस्य नेतृत्वे जातेषु चतुर्षु उपनिर्वाचनेषु काङ्ग्रेसपक्षः सत्ताधारी भाजपां पराजितवान् अस्ति। मण्डीलोकसभासनस्य अतिरिक्तं अर्की, फतेहपुरं, जुब्बल-कोटखाई विधानसभाक्षेत्रेषु उपनिर्वाचनानि अभवन्। जयरामस्य नेतृत्वे भाजपा-सर्वकारस्य अभावेऽपि काङ्ग्रेसपक्षः चतुर्षु आसनेषु विजयं प्राप्तवान्। ४-० विजयेन राठौरस्य राजनैतिकपदं अधिकं वर्धितम्।
रजनी पाटिल सङ्केतम् अददत्
राज्यकाङ्ग्रेसप्रभारी रजनीपाटिल अक्तूबर १० दिनाङ्के शिमलानगरम् आगता आसीत्। अक्तूबरमासस्य ११ दिनाङ्के रजनीपाटिल इत्यनया ठियोगे दलकार्यकर्तृभिः सह मिलित्वा तस्य निष्ठाया: प्रशंसा कृत्वा राठौर-महोदयस्य अध्यक्षत्वस्य संकेतः अपि दत्तः आसीत्।

