नवरात्रिपर्वोपलक्ष्ये गुर्जरप्रान्तस्य गीरसोमनाथजनपदस्य सर्वकारीय श्रीसोनारी विद्यालये पूजा स्थालिका प्रतियोगिता इत्यस्या: आयोजनम् अभवत्
वार्ताहर: – जगदीश डाभी

वेरावलम् । नवरात्रि-पर्वोपलक्ष्ये गुर्जरप्रान्तस्य गीरसोमनाथजनपदस्य सर्वकारीय श्रीसोनारी विद्यालये पूजा स्थालिका प्रतियोगिता (आरती डीश स्पर्धा) इत्यस्या: आयोजनम् अभवत् । एषां प्रतियोगितायां विद्यालयस्य ३०० बालका: उत्साहपूर्वकम् अंशग्रहणं कृतवन्त: । बालका: अतीव-शोभना-पूजा-स्थालिका-सञ्जां कृत्वा हस्तकलाया: उत्कृष्टं उदाहरणं दतवन्त: । खलु एषा प्रतियोगिता अनुपमा आसीत् । इति एषा प्रतियोगिता सोत्साहेन समायोजिता ।








