बिहारराज्ये मुख्यमन्त्री-महिला-वृत्ति-योजनायाः शुभारम्भं अकरोत् प्रधानमन्त्री नरेन्द्रमोदी । तेनोक्तं यत् महिला-केन्द्रित-योजनाभ्यः सर्वेऽपि वर्गाः लाभान्विताः सञ्जाताः।
हिमसंस्कृतवार्ता: – प्रधानमन्त्री नरेन्द्रमोदी प्रोक्तवान् यत् प्रशासनेन महिला-केन्द्रिताः बहव्यः योजनाः कार्यक्रमाश्च च प्रचालिताः। एतैः कार्यक्रमैः समाजस्य सर्वेऽपि वर्गाः लाभान्विताः सञ्जाताः। बिहारराज्ये मुख्यमन्त्री-महिला-रोज़गार योजनायाः शुभारम्भावसरे नवदिल्लीतः दृश्याङ्कन-माध्यमेन भाषमाणः श्रीमोदी अवदत् यत् केन्द्रसर्वकारः तथैव बिहारस्य मुख्यमन्त्रिणः नीतीश-कुमारस्य सर्वकारश्च एकीभूय महिला कल्याणार्थं कार्यरतौ स्तः। प्रधानमन्त्रिणा समुद्धोषितं यत् अस्याः योजनायाः अन्तर्गतं पञ्चसप्तति-लक्षाधिकाः महिलाः स्ववित्तकोषेषु साक्षात् दशसहस्र-रूप्यकाणां लाभं अवाप्नुवन्। तेनोदीरितं यत् अस्याः योजनायाः आधारः एकादश-वर्षेभ्यः पूर्व प्रधानमन्त्री जनधन-योजना-माध्यमेन प्रतिष्ठापितः। सः सबलं प्रोक्तवान् यत् भ्रष्टाचारं विना साहाय्यराशिः साक्षात् महिलानां वित्तकोषेषु प्रेष्यते। मुख्यमन्त्री-महिला-रोज़गार-योजनां नवरात्रस्य उपहारत्वेन प्रतिपादयता प्रधानमन्त्रिणा विश्वासः प्रकटितः यत् द्विशक्ति-शासनस्य प्रयासेन बिहारे लखपति-स्वसृणां अधिकतमा संख्या भविष्यति। प्रधानमन्त्रिणा प्रोक्तं यत् केन्द्र-सर्वकारः त्रिकोटि-महिला उद्यमिनां निर्माणार्थं कृतसंकल्पो वर्तते। अत्रावधेयं यत् एतासु द्विकोट्यधिकाः महिलाः अस्मिन् क्षेत्रे निर्मिताः येन समाजे परिवारे च बृहद्-परिवर्तनं समुत्पन्नम्। श्रीमोदिना विज्ञापितं यत् मुद्रा ड्रोन दीदी बीमा सखी बैंक सखी इत्येताः योजनाः उद्यमावसराणां विस्तारं कुर्वन्ति। जनधन योजनान्तर्गतं त्रिंशत् कोट्यधिकानां महिलानां वित्तकोषाः उद्घाटिताः, सहैव एते कोषाः आधार-सङ्ख्यया दूरवाणी-सङ्ख्यया च संलग्नाः सन्ति।
बिहारराज्ये मुख्यमन्त्री-महिला-वृत्ति-योजनायाः शुभारम्भं अकरोत् प्रधानमन्त्री नरेन्द्रमोदी
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Leave a comment
Leave a comment
