रामराज्यस्य स्वप्नम् – दशहरा गांधी-जयंती च

अद्य दिनः विशेषः अस्ति। दशहरा च गांधी-जयंती च समागतानि। दशहरा, यत्र रावणस्य पापस्य नाशः धर्मस्य च जयः दृश्यते। गांधी-जयंती, महात्मा गान्धिः सत्याग्रहः, अहिंसा, करुणा, न्याय च प्रतिपादयति, राष्ट्रे शान्ति-संस्कारस्य मार्गं दर्शयति। एवं अद्य दिनः केवलं उत्सवस्य न, अपि तु नैतिक-मूल्यानां शिक्षायाः अवसरः अपि अस्ति। अस्माभिः पर्वयोः संदेशः समानः – अधर्मस्य नाशः, धर्मस्य जयः; असत्यस्य विनाशः, सत्यस्य विजयः।
सत्यं शिवं सुन्दरमिति प्राह महात्मा गान्धिः सदा।
रामराज्ये तु राष्ट्रस्य मूल्यं भवेत् धर्म एव हि॥
गान्धेः दृष्ट्या रामराज्यम् केवलं राजकीय-शासन-व्यवस्था न, अपि तु सर्वाङ्गिणी सामाजिक व्यवस्था, यत्र समानता, करुणा, न्याय च प्रतिष्ठिता। दशहरा, रावणवधस्य प्रतीकः, असत्यं अहंकारं च नाशयन् धर्मस्य जयम् उपदर्शयति। गांधी-जयंती, सत्याग्रहस्य अहिंसाया च पालनं कृत्वा सामाजिक अन्यायस्य नाशम् उपदर्शयति।
यत्र सर्वे जनाः सुखिनो भवन्ति, न दरिद्रता न अन्यायः।
गान्धिनः सा रामराज्य-कल्पना, लोकहिताय नित्यं ध्येया॥
अहिंसा परमो धर्मः इति तस्यैव वाक्यं स्मृतम्।
तस्य पन्था रामराज्यं, यत्र करुणा प्रतिष्ठिता॥
अद्य दिनः स्मरति यत् रावणवधः (अधर्मस्य विनाशः) च गान्धेः सत्याग्रहः (सत्यस्य विजयः) च जीवनं नैतिकता, करुणा, न्याय च प्रतिष्ठापयितुं प्रेरकौ।
सत्ये स्थित्वा अहिंसां च धारयन् विश्वे गान्धिः।
रामराज्यस्य मार्गं दर्शयामास मानवजातये॥
तर्हि न केवलं भारतम्, अपि तु समस्तं मानवजनसमाजं शान्त्या, न्यायेन, समृद्ध्या च आलम्ब्य यशस्वी भविष्यति।
— डॉ. महिमा शुक्ला, उत्तर प्रदेश:


