“तिरङ्गा यात्रा” तथा “नशामुक्तभारतम्” इत्यनयो: शपथग्रहणसमारोहः
वार्ताहर: – जगदीश डाभी
मां देवमोगरा-सरकारी-विनयन- महाविद्यालय, उच्छलस्थले तिरङ्गा यात्रा एवं च नशामुक्तभारतम् शपथग्रहण समारोहः आयोजित:। देशभक्त्या: सामाजिकजागरणस्य च सन्देश: इति द्विविधा भावना हृदि निधाय अत्यन्तोत्साहेन कार्यक्रमिदं साफल्यम् अगात्।उच्छलम्, दिनाङ्कः १३ अगस्त २०२४ – मां देवमोगरा सरकारी विनयनमहाविद्यालये, उच्छल, तापी जिल्लान्तर्गते, उच्चशिक्षणआयुक्तकार्यालय:, गान्धीनगरं एवं, वीरनर्मददक्षिण गुजरातविश्वविद्यालयस्य च परिपत्रानुसारेण एन. एस.एस.अन्तर्गतं “हर घर तिरङ्गा” कार्यक्रमस्य भागरूपेण तिरङ्गा यात्रायाः आयोजनं सम्पन्नम्। महाविद्यालयस्य माननीय आचार्यवर्या डा. के आर भट्टमहाभागानां मार्गदर्शनेन आयोजितायाः अस्याः यात्रायाः उद्देश्यः वीरगतिम् प्राप्तान् वीरान् प्रति श्रद्धाञ्जलिः, राष्ट्रीयध्वजम् प्रति आदरभावः, राष्ट्रीय गौरवस्य च संवर्धनम्, देशभक्तेः च संवर्धनं च आसीत्।

तिरङ्गा यात्राया: प्रस्थानं प्रातः ९.३० वादने उच्छलआरक्षकस्थानकात् प्रारब्धम्। यात्रा एषा मुख्यमार्गान् स्थलांश्च गत्वा तालुकसेवासदनपर्यन्तं सम्पन्ना। यात्रायां माननीयविधानसभासदस्यः डा. जयरामगामितमहाभागः, जिलापंचायतप्रधानः श्रीजालमसिंहवसावामहाभागः, तालुकापंचायतप्रधानः सदस्याश्च, ग्रामसरपञ्चः, अन्ये अधिकारीणः, ग्रामजनाः, महाविद्यालयशालाशिक्षका: कर्मचारिण: विद्यार्थिनः च उत्साहेन भागग्रहणम् अकुर्वन्। सर्वे त्रिरङ्गात्मकं ध्वजं धारयित्वा राष्ट्रीयएकता,समर्पणस्य च सन्देशं दत्तवन्तः। स्वयंसेवकाः “जय जवान् जय किसान”, “वन्दे मातरम्”, “भारत माता की जय” इत्यादि घोषैः देशभक्तिमयं वातावरणं निर्मितवन्तः। कार्यक्रमस्य अन्ते सूरजवसावामहाभागेन प्रसङ्गानुरूपं उद्बोधनं दत्तम्।

एतस्मिन् दिने एव महाविद्यालये सामाजिकन्यायअधिकारितामन्त्रालयेन (भारतसरकार:), गुजरातराज्यसामाजिकन्याय: अनयो: विभागयो: मार्गदर्शनेन “नशामुक्तभारत-अभियानम्” अन्तर्गतं शपथग्रहणसमारोहः अपि सम्पन्नः। कार्यक्रमे नशामुक्तजीवनस्य महत्त्वं संक्षिप्तं सारगर्भितं चिन्तनं मार्गदर्शनञ्च प्रदत्तम्। उपस्थिताः सर्वे NMBA वेबसाइट् माध्यमेन आभासीय पटले (ऑनलाइन)प्रतिज्ञां कृत्वा, मादकपदार्थेभ्य: तथा तमाकुव्यसनतः दूरे भविष्याम: इति प्रतिज्ञां कृतवन्त:।
उभयोः अपि कार्यक्रमयोः आयोजनं IQAC समन्वयक प्रा. उर्विकपटेलमहाभागस्य मार्गदर्शनेन, सांस्कृतिकसमितेः अध्यक्षः प्रा. प्रदीपवसावा, एन एस एस प्रो अधिकारी प्रा. तृप्ति आर पाडवी महाभागाया: नेतृत्वे च सफलताम् अभजत्।
