By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: वणीनगरे रामायणप्रश्नावलीद्वारा संस्कृतसप्ताहस्य समापनम्
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > संस्कृतगतिविधयः > वणीनगरे रामायणप्रश्नावलीद्वारा संस्कृतसप्ताहस्य समापनम्
संस्कृतगतिविधयः

वणीनगरे रामायणप्रश्नावलीद्वारा संस्कृतसप्ताहस्य समापनम्

जगदीश डाभी
Last updated: 2025/08/13 at 6:06 PM
जगदीश डाभी
Share
1 Min Read
SHARE

वणीनगरे रामायणप्रश्नावलीद्वारा संस्कृतसप्ताहस्य समापनम्

वार्ताहर: – जगदीश डाभी

शिक्षणप्रसारकमण्डल, वणीद्वारा चालितस्य लोकमान्यतिलकमहाविद्यालयस्य संस्कृतविभागस्य, संस्कृतभारत्याः वणीशाखायाः च सहयोगेन संस्कृतसप्ताहस्य अवसरे रामायणप्रश्नावली इति अपूर्व: उपक्रमः कार्यान्वितः।
अस्मिन् उपक्रमे, यत् अन्तर्जालद्वारा, सर्वथा निःशुल्कं च गृहीतम्, प्रतिदिनं रामायणसम्बद्धानां दशबहुविकल्पीयविषयप्रश्नानां माध्यमेन सम्पूर्णस्य रामायणस्य अध्ययनं जातम् । महर्षिवाल्मीकि-कथातः श्रीरामस्य शरयुप्रवेशपर्यन्तं कालखण्डे ये अद्वितीयाः विषयाः घटिताः, तेषां विषये सप्तदिनेषु सप्ततिः प्रश्नाः पृष्टाः। लोकमान्यतिलकमहाविद्यालयस्य छात्राणां, वणीक्षेत्रस्य संस्कृतप्रेमिणां च सीमा अस्ति चेदपि विशेषतया उल्लेखनीयं यत् अस्मिन् उपक्रमे १२१ सदस्याः सहभागं गृहीतवन्तः।
रामायणे एतानि सूक्ष्मविषयाणि पूर्वं कदापि न अधीतवन्तः अथवा एतानि विषये अवगताः न आसन्, तेषां प्रतिभागिनां प्रतिक्रियाः उपक्रमस्य विशिष्टतां विशेषतां च प्रकाशितवन्तः ।
२०२५ तमस्य वर्षस्य अगस्तमासस्य ६ दिनाङ्कात् २०२५ तमस्य वर्षस्य अगस्तमासस्य १२ दिनाङ्कपर्यन्तं आयोजिते अस्मिन् उपक्रमे भागं गृह्णन्तः संस्कृतप्रेमिणः अन्तिमे दिने प्रतिक्रियाप्रपत्रं पूरितवन्तः, महाविद्यालयस्य प्राचार्यस्य प्रसाद-खानझोडे इत्यस्य, संस्कृतविभागस्य प्रमुखस्य च संस्कृतभारतीशाखायाः अध्यक्षस्य विद्यावाचस्पति: स्वानंद गजानन पुंड महोदयस्य हस्ताक्षरेण आकर्षकं ई-प्रमाणपत्रं वितरितम् । प्रतिक्रियारूपेण आगामिवर्षे भवन्तः कस्य पुस्तकस्य अध्ययनं कर्तुम् इच्छन्ति? अस्मिन् प्रश्ने प्रतिभागिभिः दत्तानि अनेकानि उत्तराणि अस्य उपक्रमस्य लोकप्रियतायाः सफलतायाः च प्रतीकम् अस्ति ।
उपक्रमस्य तंत्रज्ञानपक्षस्य समन्वयः महाविद्यालयस्य कर्मचारी नितेश चामाटे: कृतवान् तथा प्रमाणपत्रं विजय उपाध्ये निर्मितवान् |

You Might Also Like

संस्कृतभारत्या अखिलभारतीयशलाकपरीक्षा देहल्यां सम्पन्ना

केन्द्रीय-संस्कृत-विश्वविद्यालयस्य कुलपतिः प्रो. श्रीनिवासवरखेड़ी ‘संस्कृतात्मा-पुरस्कारेण’ सम्मानितः

रामटेके भरतमुनि-ललितकला-केन्द्रेण गायन-प्रतियोगितायाः सफलं आयोजनम्

LBS विश्वविद्यालये “AI-युगे शोधस्य अन्तर्राष्ट्रियं भविष्यम्” इति विषये सार्थक-विमर्शः

पञ्जाबविश्वविद्यालयस्य संस्कृतविभागे द्विदिवसीयसंस्कृतशिक्षणकार्यशालायाः सफलसमापनम्

TAGGED: आज के संस्कृत समाचार
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By जगदीश डाभी
Follow:
संस्कृतप्रेमिणां कृते सुलभं माध्यमम् अर्थात् हिमसंस्कृतवार्ता:, भवद्भिः हिमाचलप्रदेशात् नित्यं प्रकाशितं हिमांस्कृतवार्ता: पठित्वा स्वमित्रान् अपि पठितुं प्रेरयन्तु ।
Previous Article
Next Article काश्यां श्रीमुमुक्षुभवनवेदवेदाङ्गमहाविद्यालयः एवञ्च संस्कृतभारती इत्यनयोः संयुक्ततत्वावधाने आयोजितः संस्कृतसप्ताहस्य समारोपकार्यक्रमः
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?