या विद्या संस्कृतात् प्रारभते, सा कदापि निष्फला न भवति – सौम्या साम्बशिवन
संस्कृतसप्ताहस्य समारोप-समारेहे मुख्यातिथिः आसीत् डी.आई.जी. सौम्या साम्बशिवन
हिमसंस्कृतवार्ता: – लघ्वीकाशी मण्डी।
हिमाचल-राजकीय-संस्कृत-शिक्षक-परिषद् इत्यनेन आयोजिते संस्कृत-सप्ताह-समारोप-समारेहे भारतीय-पुलिस-सेवायाः अधिकारी, हिमाचल-प्रदेशे डी.आई.जी. पदे सेवारता च सुश्री सौम्या साम्बशिवन मुख्यातिथिरूपेण उपस्थिताभवत्।
कार्यक्रमारम्भे एव तया संस्कृत-भाषया सर्वेभ्यः संस्कृत-सप्ताहस्य शुभाशंसाः दत्ताः, तथा च उक्तम् —
“ईश्वरं न मया दृष्टम्, परञ्च यया भाषया ईश्वरस्य तत्वबोधः अभवत् सैव संस्कृतभाषा पूजनीया।”
स्वीय-जीवनानुभवान् प्रकाशयन्ती सा अवदत् यत् केरल-राज्ये विद्यारम्भ-संस्कारस्य समये प्रथमतः अक्षतै: अक्षर-लेखनं क्रियते, यस्मिन् “ॐ हरि श्री गणपतये नमः अविघ्नमस्तु” इति लिख्यते।
सा अवदत् — “या विद्या संस्कृतात् प्रारभते, सा कदापि निष्फला न भवति।”
मुख्यातिथिना संस्कृतभाषायाः महत्त्वम् अपि प्रतिपादितम्। तया उक्तम् — संस्कृतभाषा असत्यतः सत्यं प्रति, अन्धकारात् प्रकाशं प्रति, मृत्युत: च अमृतत्वं प्रति नयति। एषः सप्ताहः केवलं भाषायाः उत्सवः न, अपितु संस्कारस्य, संस्कृति-विवेकस्य च समर्पणोत्सवः अस्ति।
*”संस्कृतेन विना समाजः संस्कारहीनः भवति।”*
संस्कृतं न केवलं भाषा, अपि तु भारतीयजीवनदर्शनस्य मूलम् वर्तते। अस्या: भाषायाः आधारशिलायामेव धर्मः, चिकित्सा, योगः,न्यायः, शिक्षा, तथा सामाजिक-मूल्यानि स्थापितानि सन्ति।
यत्र संस्कृतवाङ्मयं सजीवम् अस्ति, तत्र समाजोऽपि सुसंस्कृतः, समुन्नतः च भवति।
यथा धर्मो रक्षति रक्षित: इति कथनं प्रसिद्धम् तथैव “संस्कृतं रक्षति रक्षितम्” — इत्यस्मात् स्पष्टं सिध्यति यत्, यदि संस्कृतं रक्ष्यते तर्हि संस्कृतिः रक्ष्यते, संस्कारः रक्ष्यते, समाजोऽपि स्वस्थः, सुदृढः च भवति।
स्वस्थसमाजस्य आधारभूतानि यानि तत्त्वानि — शुचिता, समत्वं, सहिष्णुता, कर्तव्यनिष्ठा, आत्मानुशासनम् च — सर्वाणि अपि संस्कृतवाङ्मये प्रतिपादितानि सन्ति। अतः संस्कृताधारितः समाजः एव दीर्घकालीन-स्वास्थ्यं, समत्वं च जनयितुं समर्थः अस्ति।
सापि अवदत् — यथास्मिन् विश्वे याः भाषाः वर्तन्ते, सर्वासु अपि अपशब्दाः दृश्यन्ते; किन्तु संस्कृतभाषा एव एकैका या अपशब्दरहिताभूत्।
विश्वासेन तया उक्तम् — “य: अस्या: भाषाया: अध्ययनं करोति, सः जनः कदापि दुर्व्यसनग्रस्तः न भवितुमर्हति।”
समारेहे परिषदः पदाधिकारीणां, अध्यापकानां, विद्यार्थिनां, जनसामान्यस्य च उत्साहपूर्णं सहभागित्वम् आसीत्। एतेन संस्कृत-सप्ताहस्य गौरवम् अधिकतरं जातम्।
Exllent