संस्कृतभाषा एव आयुर्वेदस्य आत्मा वर्तते- आयुर्वेदशिरोमणिः आचार्यः डाॅ. बृजेश शास्त्री
हिमसंस्कृतवार्ता:- प्रवेशकुमारशुक्ल:, लखनऊ)
उत्तरप्रदेशसंस्कृतसंस्थानेन संचालकस्य विनयश्रीवास्तवस्य मार्गदर्शनेन चालितायाः ऑनलाइनप्रशिक्षणपाठ्यक्रमनिर्माणयोजनायाः अन्तर्गतं सरलसंस्कृतवार्तालापवर्गे प्रेरणासत्रस्य आरम्भः सरस्वतीवन्दनाद्वारा कृतः। सरस्वतीवन्दनं जूही अकरोत्। संस्थानगीतिका ज्योतिः द्वारा प्रस्तुतमभवत्।
समन्वयकः दिव्यारंजनमहोदय: परिचयः स्वागतसम्बोधनञ्च अकरोत्। सत्रस्य संचालनं प्रशिक्षकः रजनीकुमारमहोदयः अकरोत्। स्वागतगीतं वैभवपाण्डेयद्वारा प्रस्तुतं संस्कृतगीतं गौरव द्वारा प्रस्तुत। रुचिता पद्मिनी च कक्षायाः अनुभवं प्रकटितवत्यौ। प्रेरणासत्रस्य मुख्यवक्ता आयुर्वेदशिरोमणिः आचार्यः डाॅ. बृजेशशास्त्री स्वभाषणे संस्कृतभाषायाः महत्त्वं प्रकाशयित्वा उपस्थितजनेभ्यः अवदत् यत् संस्कृतभाषा। महाकविः दण्डी इत्यनेन अपि संस्कृतं देवानां भाषा इति प्रस्तावः कृतः संस्कृतस्य ज्ञानपरम्परा अतीव उत्तमः, तस्य उच्चारणं रोगाणां चिकित्सां करोति। मनसि अन्तःकरणे च संस्कृतभाषायाः आदरः भवेत्, अनेके रोजगारस्य अवसराः अपि संस्कृते एव निहिताः सन्ति। संस्कृतम् अस्माकं भारतीयसंस्कृतेः धरोहरम् अस्ति अतः अस्माभिः तस्य गर्वः भवितव्यः। एतादृशैः प्रेरणादायकैः वचनैः सर्वे अभिभूताः आसन्। अन्ते प्रशिक्षकः लल्लनबाबूमौर्य अतिथिभ्यः कृतज्ञतां प्रकटितवान्। कार्यक्रमे उत्तरप्रदेश- संस्कृतसंस्थानस्य निदेशकः विनयश्रीवास्तवः, प्रशासनिकपदाधिकारी जगदानन्द झा, दिनेशमिश्रः, योजना प्रमुखः भगवानसिंहः, प्रशिक्षणप्रमुखः सुधिष्ठा मिश्रः, समन्वयकः धीरज मैथानी, दिव्या रंजनः, राधाशर्मा रजनीशकुमारः, दीपिकामिश्रा इत्यादयः उपस्थिताः आसन्। अन्ते शान्तिमन्त्रेण सूचनायाश्च सह कार्यक्रमस्य सफलतापूर्वकं समाप्तिः अभवत्। कार्यक्रमस्य संयोजनं प्रशिक्षिका दीपिकामिश्रा कृतवती।
संस्कृतभाषा एव आयुर्वेदस्य आत्मा वर्तते- आयुर्वेदशिरोमणिः आचार्यः डाॅ. बृजेश शास्त्री
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Leave a comment
Leave a comment
