By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: गुरुपूर्णिमोत्सवः-गीतानिकेतन-आवासीयविद्यालये गुरुपूर्णिमायां भव्यम् आयोजनम्
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > धर्मसंस्कृतिः > गुरुपूर्णिमोत्सवः-गीतानिकेतन-आवासीयविद्यालये गुरुपूर्णिमायां भव्यम् आयोजनम्
धर्मसंस्कृतिःदिवसविशेषः

गुरुपूर्णिमोत्सवः-गीतानिकेतन-आवासीयविद्यालये गुरुपूर्णिमायां भव्यम् आयोजनम्

डॉ.अमनदीप शर्मा
Last updated: 2025/07/11 at 6:51 AM
डॉ.अमनदीप शर्मा - Editor in chief
Share
4 Min Read
SHARE

गुरुपूर्णिमोत्सवः-गीतानिकेतन-आवासीयविद्यालये गुरुपूर्णिमायां भव्यम् आयोजनम्
कुरुक्षेस्थे गीतानिकेतन-आवासीयविद्यालये गुरुपूर्णिमायाः भव्यम् आयोजनम् अभवत्। सर्वैः आचार्यैः दीपप्रज्वलनेन कार्यक्रमस्य शुभारम्भः कृतः। सरस्वती -वन्दनायाः परं छात्रैः कविता,समूहगानं,नृत्यं,मन्त्रोच्चारणं च प्रस्तुतम्।
ततः विद्यार्थिभिः प्रहेलिकानां माध्यमेन आचार्याणां अभिनन्दनम् आचरितम्।प्राचार्यः श्रीनारायणसिंहः छात्रान् प्रति अवदत् यत् सर्वदा गुरूणाम् आज्ञा पालनीया,यतो हि गुरवः सर्वदा अस्माकं हितमेव चिन्तयन्ति ।प्राचार्येण सर्वे छात्राः पुरस्कृताः,शान्तिमन्त्रेण कार्यक्रमःपूर्णतां गतः।


गुरुपूर्णिमोत्सवः- कलियाचक- आदर्श- संस्कृतमहाविद्यालये गुरुपूर्णिमोत्सवः परिपालितः
हिमसंस्कृतवार्ता: – जगदीश डाभी। केन्द्रीय- संस्कृत- विश्वविद्यालय- अनुमोदिते पश्चिमबङ्गस्थ- पूर्वमेदिनीपुरमण्डलान्तर्गते कलियाचक- विक्रमकिशोर- आदर्श- संस्कृत- महाविद्यालये १०.०७.२०२५ तमे दिनाङ्के गुरुवासरे आषाढ़पूर्णिमायां सशिक्षकैः छात्राः सहर्षं गुरुपूर्णिमानुष्ठानं पर्यपालयन्। महाविद्यालयस्य अस्य भारप्राप्तप्राचार्याणां डॉ. अमरेन्द्रकुमारमिश्रमहाभागानामाध्यक्ष्येण महता वैभवेन कार्यक्रमोऽयं परिपालितः। दीपप्रज्वालनेन भगवत्याः पूजनेन च आरब्धोऽयं कार्यक्रमः। महाविद्यालयस्य छात्रः सुमनपण्डा वैदिकमङ्गलाचरणेन तथा च महाविद्यालयस्य समे शिक्षकाः छात्राश्च लौकिकमङ्गलाचरणेन अनुष्ठामिदम् अग्रे सारितवन्तः। अस्य अनुष्ठानस्य सञ्चालकपदम् अलंकृतवन्तः व्याकरणविभागस्य विभागाध्यक्षाः श्रीमन्तः संकर्षणपण्डावर्याः। ततः सर्वे शिक्षकाः छात्राः च सम्मिल्य श्रीमद्भगवद्गीतायाः भक्तियोगाख्यस्य द्वादशाध्यायस्य पारायणम् अकुर्वन्। ततः अग्रे महाविद्यालयस्य समेऽपि छात्राः प्राध्यापकाः कर्मचारिणश्च क्रमशः अस्य दिवसस्य माहात्म्यं वर्णयामासुः। किञ्च महाविद्यालयस्य छात्रा तनुश्रीमान्ना सुन्दरेण गीतेन गुरूणां चरणवन्दनं प्रस्तूतवती। साहित्यविभागस्य अतिथ्यध्यापकः डॉ. दीपकप्रधानमहोदयः स्ववचोभिः सर्वेभ्यः धन्यवादान् समर्पितवान्। अन्ते शान्तिमन्त्रेण अनुष्ठानमिदं समाप्तिम् अगात्।


गुरुपूर्णिमापर्वणि व्यासपूजनस्य भव्यम् आयोजनं सम्पन्नम्
हिमसंस्कृतवार्ताः। रायसिंहनगरम् (श्रीगङ्गानगरम्) गुरुपूर्णिमायाः पावने अवसरे श्रीधर्मसंघसंस्कृतमहाविद्यालये रायसिंहनगरे एको भव्यो व्यासपूजनकार्यक्रमः सम्यक् सम्पन्नः। एतत् पवित्रम् अनुष्ठानं परमपूज्यगुरुदेवस्य सन्निधौ सम्पन्नताम् अगच्छत्, यत्र छात्राणां, आचार्याणां, बहूनां च गण्यमानव्यक्तीनाम् उत्साहपूर्णं सहभागित्वं सञ्जातम्।वैदिकमन्त्रोच्चारणेन सह दीपपूजनं, व्यासपूजनं, भगवतो भोलेनाथस्य विधिपूर्वकं अभिषेकः आयोजितः।गुरुदेवः डॉ॰ श्री सज्जनप्रसादतिवारी प्रेरणादायकं प्रवचनं दत्त्वा गुरुशिष्यपरम्परायाः महत्त्वं प्रकाश्य, विद्यार्थिनः संस्कृतभाषायाः भारतीयसंस्कृतेश्च संरक्षणे प्रेरितवान्।देवस्थानविभागस्य अधिकारिणः मुख्यमंत्रिणः श्रीभजनलालशर्मणः शुभकामनामयं सन्देशं पठित्वा महाविद्यालयस्य प्रशंसां कृतवान्।संस्कृतभाषायाः वैदिकपरम्परायाश्च प्रचारप्रसाराय देवस्थानविभागेन महाविद्यालयाय प्रमाणपत्रं प्रदाय सभाजितवन्तः।अन्ते कार्यक्रमस्य समापनं सामूहिकगुरुवन्दनया प्रसादवितरणेन च अभवत्।एतत् आयोजनं संस्कृतभाषाया: गुरु-शिष्यपरम्परायाश्च भारतीयजीवनमूल्यानां संरक्षणदिशायां महाविद्यालयस्य दृढप्रतिबद्धतायाः जीवदर्शकम् अभवत्।


राजकीय- उच्च- विद्यालय- डाण्डा पागर इत्यत्र गुरुपूर्णिमा मातृपितृपूजन- दिवसरूपेण मानित:।
हिमसंस्कृतवार्ता:- डॉ नरेन्द्रराणा सिरमौर: ।गतदिवसे आभारतं गुरुपूर्णिमा हर्षोल्लासेन मानित:। सिरमौरस्य राजकीय- उच्च- विद्यालय- डाण्डापागर इत्यत्र गुरुपूर्णिमा मातृपितृपूजनदिवसरूपेण मानित:। एषा सूचना विद्यालयस्य संस्कृतशिक्षकेन दिनेशकुमारभार्गवेन दत्ता। सः अवदत् यत् कार्यक्रमस्य उद्देश्यं छात्राणां मध्ये संस्कार- समर्पण- आत्मसम्मान- सेवा- इत्यादीनां मूल्यानां प्रचारः अस्ति येन नूतनः सुसंस्कृत- समाजस्य च निर्माणं भवेत्। अस्मिन् अवसरे उपस्थिता: सर्वे मातर: पितरश्च छात्रेभ्य: स्वाशीर्वादम् अयच्छन्।

“गुरुपूर्णिमाया विशेष कथा”
आदिगुरु शङ्कराचार्यः एकस्मिन् समये शक्तिवादस्य [शाक्तमतस्य] खण्डनार्थं कश्मीरं गतः। किन्तु तस्य स्वास्थ्यं क्षीणम् अभवत्। तस्य शरीरे किञ्चित् अपि बलं [शक्ति] नासीत्। सः एकस्य वृक्षस्य समीपे शयानः आसीत्। तत्रतः एका गोपालिका शिरसि दधिघटं वहन् निर्गता। शङ्कराचार्येण दधि दातुं गोपालिकां सङ्केतं कृतम्। आचार्यस्य उदरं दह्यमानं सः तृषार्तश्च। सः गोपालिकां दधिं संयाच्य ताम् आत्मनः समीपम् आहूतवान्। गोपालिका अवदत्- “त्वं दधि प्राप्तुम् अत्र आगच्छ।” आचार्य शनैः अवदत्- “मम शरीरे तावत् बलं [शक्ति:] नास्ति।” हसन्ती गोपालिका अवदत्- कथं शक्त्या विना? शक्त्या विना कोऽपि एकं पदमपि न चलति, त्वं शक्तेः खण्डनार्थं गच्छसि खलु? एतत् श्रुत्वा आचार्यस्य नेत्राणि उद्धाटितानि। स्वयं भगवती गोपालिकारुपेण आगतवती। तस्य मनसि यः शिवशक्तेः भेदः आसीत् सः निवृत्तः। सः शक्तेः पुरतः समर्पण कृतवान्। सहसा तस्य मुखात् वचनं निर्गतम्-
“गतिस्त्वं गतिस्त्वं त्वमेका भवानी”। समर्पणस्य एषः स्तवन- “भवान्यष्टकम्’’ नाम्न प्रसिद्धम् अस्ति। एषः स्तोत्र अद्भुतम् अस्ति। शिवः निश्चलः भवानी गतिशीला च स्तः। उभयौ अपि भिन्नौ स्तः। एकं क्षीरं अपरं तस्य शुक्लत्वम्। माता नेत्रेषु आच्छादितम् अज्ञानस्य आवरणम् अपसारितवती। आचार्यशङ्करेण उक्तः- अम्ब! अहं किमपि न जानामि।
“गतिस्त्वं गतिस्त्वं त्वमेका भवानी’’…….. विलक्षणस्तोत्र अस्ति अयम्।

डॉ. वर्षा प्रकाश टोणगांवकर
पुणे/ महाराष्ट्रम्

You Might Also Like

श्रद्धया यत् कर्म क्रियते तत् श्राद्धम्

हिमसंस्कृतम् न्यास द्वारा हिन्दी दिवसस्य समायोजनम्

श्रीकृष्णजन्माष्टमीपर्व-नारदोपाध्यायः

नवीनशिक्षानीतौ संस्कृतस्य भविष्यं च इति विषये व्याख्यानगोष्ठी सम्पन्ना

संस्कृतदिवसविशेषः – पाणिनेः सूत्रेभ्यः ए.आई.-पर्यन्तं संस्कृतेः नूतनम् उड्डयनम्

Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ.अमनदीप शर्मा Editor in chief
Follow:
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Previous Article मण्डी थुनाग- मुख्यमंत्री विपक्षनेत्रा सह आश्रयपुनर्वासकार्यस्य समीक्षां कृतवान्, अधिकारिभ्यः च निर्देशान् दत्तवान्
Next Article #shilpashetty शिल्पा शेट्टी मराठीभाषाविवादविषये अवदत्, अहं महाराष्ट्रस्य बालिका अस्मि
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Register Lost your password?