By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: Sanskrit Week : संस्कृतभाषा, साहित्यं, परम्परा च तथा संस्कृतसप्ताहस्य आयोजनम्
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > दिवसविशेषः > Sanskrit Week : संस्कृतभाषा, साहित्यं, परम्परा च तथा संस्कृतसप्ताहस्य आयोजनम्
दिवसविशेषःप्रादेशिकवार्तासंस्कृतगतिविधयःहिमाचलवार्ता

Sanskrit Week : संस्कृतभाषा, साहित्यं, परम्परा च तथा संस्कृतसप्ताहस्य आयोजनम्

डॉ मनोज शैल
Last updated: 2025/08/11 at 4:56 PM
डॉ मनोज शैल
Share
6 Min Read
SHARE

Sanskrit Week : संस्कृतभाषा, साहित्यं, परम्परा च तथा संस्कृतसप्ताहस्य आयोजनम्

संस्कृतभाषा, साहित्यं, परम्परा च

लेखक: – डॉ कर्मसिंह:, अनुवादक: – डॉ मनोजशैल:

संस्कृतभाषा विश्वस्य प्राचीनतमा भाषा अस्ति। बहूनां जगतः भाषाणां जननी संस्कृतमेव अस्ति, ताः भाषा: चास्याः शब्दसम्पदा व्याकरणसंरचना: चानुसार्य एव विकसिताः। वेदाः, वैदिकसाहित्यं, ज्योतिषशास्त्रम्, व्याकरणम्, काव्यम्, नाटकम् इत्यादीनां नानाविधानां सृष्टिः संस्कृतसाहित्ये जाता। संस्कृतसाहित्येन जगतः चिन्तनं साहित्यं च प्रगाढं प्रभावितम्। अतोऽयं कारणं यत् संस्कृतभाषायां विद्यमानं ज्ञानं, विज्ञानं, कर्मकाण्डोपासनाः, अध्यात्मं योगशास्त्रं च प्राप्नुवन्ति इति हेतोः जगतः अनेकाः आचार्याः जिज्ञासवश्च अन्वेषकाः च कालानुसारं भारतस्य ज्ञानपरम्परायाः संस्कृतभाषायाः साहित्यस्य च शरणं गत्वा शिक्षां प्राप्नुवन्ति स्म, अनन्तरं स्वदेशं गत्वा स्वभाषासु संस्कृतग्रन्थानां भाषानुवादं कृत्वा स्वदेशीयसंस्कृतिं अपि समृद्धां कृतवन्तः।

केवलं भाषादृष्ट्या न, अपि तु भारतीयसंस्कृतेः, दर्शनस्य, विज्ञानस्य, इतिहासस्य, मानवतायाश्च समग्रविकासदृष्ट्या संस्कृतभाषा अत्यन्तं व्यापकं गभीरं च अस्ति। सा केवलं प्राचीनभारतस्य बौद्धिकपरम्परायाः आधारभूता नासीत्, अद्यापि अपि स्ववैज्ञानिक-सांस्कृतिक-आध्यात्मिकरूपेण जगति विशिष्टस्थानं धारयति।

संस्कृतं विश्वस्य प्राचीनतमं व्यवस्थितं च वैज्ञानिकं भाषारूपं मन्यते। पाणिनिना विरचितं अष्टाध्यायी नाम व्याकरणग्रन्थः जगतः प्रथमः व्यवस्थितव्याकरणग्रन्थः, यस्मिन् महर्षिणा पाणिनिना चत्वारिसहस्राधिकसूत्रैः सम्पूर्णा भाषा नियमबद्धा। अतः संस्कृतं भारतीयज्ञानपरम्परायाः मूलस्रोतमेव। वेदाः, उपनिषदः, गीता, महाभारतम्, रामायणम्, पुराणानि, स्मृतिशास्त्राणि, आयुर्वेदः, योगः, ज्योतिषम्, न्यायः, मीमांसा इत्यादयः सर्वेऽपि संस्कृतभाषायामेव रचिताः।

संस्कृतम् हिन्दुधर्मस्य, बौद्धधर्मस्य, जैनधर्मस्य च मूलग्रन्थानां भाषा अस्ति। मन्त्रपाठः, यज्ञानुष्ठानम्, पूजाविधिः, स्तोत्रपाठः इत्यादयः संस्कृतभाषायामेव भवन्ति, येन तस्याः धार्मिकमहत्त्वं अधिकं भवति। संस्कृतं संगणकयन्त्रस्य कृते अत्युत्तमा व्यावहारिका च भाषा सिद्धा। वैज्ञानिकाः अपि मन्यन्ते यत् संस्कृतं machine-friendly इति भाषा अस्ति, नासा नाम अन्तरिक्षसंस्था कृत्रिमबुद्धेः कृते संस्कृतं यथोचितमिति स्वीकृतवती।

संस्कृते उच्चकोटिकाव्यशैली, छन्दशास्त्रं, रससिद्धान्तश्च विकसितः। सा भाषा सौन्दर्यस्य, भावस्य, विचारस्य च अभिव्यक्तये अत्युत्तमा। ज्ञानं, विज्ञानं, कर्म, उपासना, भौतिकवादः, आध्यात्मिकताऽपि — सर्वेऽपि विषयाः संस्कृतसाहित्ये सुलभाः। संस्कृतसाहित्यं जगतः सर्वासां भाषाणां साहित्येभ्यः विस्तीर्णतरम्। धर्मः, राजनीति, काव्यम्, नाटकम्, विज्ञानम्, चिकित्साशास्त्रम्, खगोलशास्त्रम्, गणितम्, वास्तुशास्त्रम्, सङ्गीतम् — सर्वेषु क्षेत्रेषु संस्कृतसाहित्यं समृद्धम्। चरकसंहिता (आयुर्वेदे), आर्यभटीयम् (गणिते), नाट्यशास्त्रम् (कलायाम्), कौटिल्यस्य अर्थशास्त्रम् (राजनीतौ) इत्यादयः प्रसिद्धग्रन्थाः। कालिदासः, भासः, भवभूतिः, माघः, बाणभट्टः इत्यादयः कवयः नाटककाराश्च विश्वस्तरीयं साहित्यं निर्मितवन्तः। कालिदासस्य अभिज्ञानशाकुन्तलम्, मेघदूतम् च विश्वसाहित्यमध्ये उच्चस्थानं धारयतः।

 

“संस्कृतिः संस्कृतमाश्रिता” — भारतस्य विश्वस्य च संस्कृतिः संस्कृतभाषायाः साहित्यस्य च आश्रयेण स्थितिः। संस्कृतसाहित्ये जीवनस्य सर्वाः अवस्थाः चित्रिताः — प्रेम, युद्ध, शान्तिः, धर्मः, त्यागः, भक्ति, ज्ञानम्। “सर्वे भवन्तु सुखिनः” इत्यादि मानवीया वैश्विकाश्च भावनाः अत्र द्रष्टुं शक्यन्ते। हितोपदेशः, पञ्चतन्त्रं च नीतिशास्त्ररूपेण बालानां, युवानां च नीतिं, नैतिकतां, व्यवहारकौशलं च शिक्षयतः।

 

संस्कृतभाषा-साहित्ये भारतस्य बौद्धिक-आध्यात्मिक-सांस्कृतिकविरासत् प्रतिष्ठिता। सा केवलं अतीतस्य गौरवमेव न, किन्तु वर्तमानस्य भविष्यस्य च मार्गदर्शिका। अस्याः अध्ययनं भारतस्य आत्मानं ज्ञातुं, आत्मनिर्भरं भवितुं च प्रयासः वर्तते।

 

संस्कृतभाषायाः प्राचीनानि शिक्षणसंस्थानानि

भारते संस्कृतशिक्षायाः परम्परा अत्यन्तं प्राचीनं, समृद्धं, गम्भीरं च आसीत्। वैदिककालादारभ्य आधुनिकयुगपर्यन्तं संस्कृतं ज्ञान-विज्ञान-धर्म-दर्शनानां मूलभाषा जाता। भारतवर्षे असंख्यानि प्राचीनगुरुकुलानि, शिक्षणसंस्थानानि, विश्वविद्यालयाश्च आसन्, यत्र संस्कृतभाषायाः, वेद-वेदाङ्गानां, दर्शनस्य, आयुर्वेदस्य, ज्योतिषस्य, न्यायशास्त्रस्य, व्याकरणस्य च गहनं अध्ययनं क्रियते स्म।

 

तक्षशिलाविश्वविद्यालयस्य स्थापना — अयं विश्वविद्यालयः प्रायः षट्शततमे पूर्वख्रीष्टाब्दे (600 ई.पू.), अथवा तस्मात् पूर्वमेव, स्थापितः। अत्र वेदाः, वेदाङ्गानि, आयुर्वेदः, नीति-शास्त्रम्, तन्त्रशास्त्रम्, शल्यचिकित्सा, गणितम्, ज्योतिषम्, भाषाशास्त्रं च अध्याप्यन्ते स्म। अत्र प्रसिद्धाः आचार्याः आसन् — चाणक्यः (कौटिल्यः), वात्स्यायनः, इत्यादयः।

 

नालन्दाविश्वविद्यालयः — अस्य स्थापना पञ्चमे शतके ईस्वीसंवत्सरे जाताऽभूत्। अत्र संस्कृतम्, बौद्धदर्शनम्, तर्कशास्त्रम्, चिकित्साशास्त्रम्, व्याकरणम्, खगोलशास्त्रं च प्रमुखविषयाः आसन्। अत्र छात्राणां संख्या दशसहस्राधिकाः आसन्, अध्यापकाः च द्विसहस्रपर्यन्ताः आसन्। ह्वेनसाङ्गः, इत्सिङ्गः चादयः विदेशीयात्रिकाः अस्य प्रशंसा कृतवन्तः।

 

विक्रमशिलाविश्वविद्यालयः — अयं विश्वविद्यालय: अष्टमे शतके ईस्वीसंवत्सरे पालवंशस्य राजा धर्मपालेन स्थापितमासीत्। अत्र बौद्धतन्त्रशास्त्रम्, संस्कृतसाहित्यं, व्याकरणम्, तर्कशास्त्रं च प्रमुखविषयाः आसन्।

 

उज्जयिन्याः प्राचीनगुरुकुलम् — तत्र खगोल-वज्योतिषशास्त्रयोः अध्ययनं प्रसिद्धम् आसीत्। अत्र वराहमिहिरः इत्यादयः महाविद्वांसः जाताः।

 

काशी — विदुषां पुरी काशी अनादिकालादारभ्य संस्कृतभाषाया:, वेदानां, दर्शनानां, पुराणानां च अध्ययनस्य प्रमुखं केन्द्रम्। अद्यापि अत्र सम्पूर्णानन्दसंस्कृतविश्वविद्यालयः विद्यमानः अस्ति।

 

काञ्चीपुरम् (तमिळनाडु) — काञ्चीपुरम् दक्षिणभारते संस्कृतवेदाध्ययनस्य प्रसिद्धं केन्द्रम् वर्तते।

सम्पूर्णानन्दसंस्कृतविश्वविद्यालयः — अयं विश्वविद्यालय: वाराणस्यां सन् 1791 तमे वर्षे स्थापितः, अयं भारतस्य प्राचीनतमः संस्कृतविश्वविद्यालयः। अत्र वेदाः, व्याकरणम्, साहित्यं, तन्त्रशास्त्रम्, ज्योतिषम्, दर्शनम् इत्यादयः पठ्यन्ते।

राष्ट्रीयसंस्कृतसंस्थानम् — राष्ट्रीयसंस्कृतसंस्थानम् सम्प्रति केन्द्रीयसंस्कृतविश्वविद्यालय: सन् 1970 तमे वर्षे स्थापितम्। अद्य तु एषः केन्द्रीयविश्वविद्यालयरूपेण स्थितः, यत्र जयपुरे, तिरुपतौ, जम्मूक्षेत्रे, पुर्याम् हिमाचले इत्यादिषु अस्य परिसराः सन्ति। एतद् संस्थानं संस्कृतशिक्षण-अनुसन्धानयोः कृते प्रसिद्धः।

संस्कृतविश्वविद्यालयाः संस्था: च — कर्नाटकसंस्कृतविश्वविद्यालय: बैंगलुरू: संस्कृतशिक्षण-अनुसन्धानयोः प्रमुखं केन्द्रम्। जगद्गुरुरामानन्दाचार्यसंस्कृतविश्वविद्यालयः (जयपुरम्), गुजरातसंस्कृत-अकादमी (अहमदाबाद), संस्कृत-अकादमी (दिल्ली), गुरुकुलकाङ्गडीविश्वविद्यालयः (हरिद्वारम्), विश्वेश्वरानन्द-विश्वबन्धु-शोधसंस्थानम् (होशियारपुरम्), श्रीलालबहादुरशास्त्री-राष्ट्रीयसंस्कृतविश्विविद्यालय: नवदेहली, महर्षिवाल्मीकि: संस्कृतविश्वविद्यालय: कैथलम् (हरियाणा), हरियाणा-संस्कृत-अकादमी, हिमाचल-संस्कृत-अकादमी, शिमला, संस्कृत भारती न्यास:, हिमाचल-राजकीय-संस्कृत-शिक्षक-परिषद्, हिमसंस्कृतम् (हिमसंस्कृतवार्ता:) चेत्यादीनि आधुनिकसंस्थानानि संस्कृतभाषायाः साहित्यस्य च प्रचारप्रसाराय समर्पितानि।

संस्कृतसप्ताहस्य आयोजनम्

संस्कृतसप्ताहः भारतीयसंस्कृतेः भाषायाः च समृद्धविरासताय समादरं प्रदातुं तस्याः प्रचारप्रसाराय च आयोजितः भवति। अस्य प्रमुखोऽभिप्रायः — संस्कृतभाषां जनमानसे लोकप्रियतां दातुं, शिक्षणसंस्थासु विद्यार्थिनां रूचिं जागरयितुं, राष्ट्रभावनां सांस्कृतिकचेतनां च वर्धयितुं च ।

अस्य सप्ताहस्य आयोजनम् आदौ भारतसर्वकारस्य शिक्षामन्त्रालयेन आरब्धम्। अयं सप्ताहः प्रायः श्रावणमासस्य पूर्णिमायाः समीपे, विशेषतः रक्षाबन्धनपर्वणि, आचर्यते। एषा परम्परा 1950 तमे दशकादारभ्य अस्ति, 1969 तमात् च केन्द्रीयसंस्कृतसंस्थानम् एतस्य आयोजनं व्यवस्थितरूपेण राष्ट्रस्तरे निर्वहति।

यदा संयुक्तराष्ट्रसंघेन अन्ताराष्ट्रीय मातृभाषादिवसः 21 फरवरीतिथौ घोषितः, तदा संस्कृतस्य महत्त्वम् अन्तराष्ट्रीयमञ्चे अपि प्रकाशितम्। संस्कृतसप्ताहस्य पृष्ठभूमौ बहवः प्रमुखा उद्देशाः सन्ति — संस्कृतभाषायाः संरक्षणम्, संवर्धनं च, पुनरुत्थानाय तस्याः व्यापकप्रचाराय च विद्वांसः, विद्यार्थीजनः, संस्कृतसंस्कृतिप्रेमिणः च एकत्रं मिलन्ति।

अस्मिन् अवसरे संस्कृतभाषायाः प्रति जनमानसे रुचिं सृज्यते — कविसम्मेलनैः, वादविवादैः, नाट्यप्रदर्शनैः, गीतैः, श्लोकपाठनैः च युन: विद्यार्थिनः संस्कृतेः सङ्गेन योजयन्ति। अस्यां साप्ताहिकीं उत्सवे भारतीयज्ञानपरम्परायाः परिचयः अपि लभ्यते — वेदाः, उपनिषदः, पुराणानि, योगः, आयुर्वेदः, न्यायशास्त्रम्, व्याकरणम् इत्यादिषु विशेषज्ञानं प्रदत्तम्।

हिमाचलप्रदेशेऽपि अयं सप्ताहः संस्कृतभाषायाः साहित्यस्य च प्रचारप्रसाराय विविधैः कविसम्मेलनैः, लेखकसंगोष्ठीभिः, सांस्कृतिककार्यक्रमैः, संस्कृतदिवसस्य च आयोजनैः सह आचर्यते।

लेखक:

डॉ. कर्मसिंह:, पूर्वसचिव: हिमाचल-कला-भाषा-संस्कृति-अकादमी

देवसदनं, ग्राम: पत्रालयश्च घनाहट्टी,जिला शिमला (हि.प्र.) 9418470345, ईमेल – aryakaramsingh@gmail.com

संस्कृतानुवादक:

डॉ मनोजशैल:

संस्कृतशिक्षक: , हिमाचलप्रदेशशिक्षाविभाग:,

9418450151, ईमेल – snatanshail55@gmail.com

 

You Might Also Like

Mandi Shivratri Festival – मण्डीशिवरात्रिमहोत्सवे केवलं पञ्जीकृतदेवतानां पूजनं भविष्यति, यतः पड्डलस्थलं देवानां कृते अतिलघु अभवत्

एचपीएसईबीएल – द्वारा विद्युत् विक्रयणात् ३०० कोटिरूप्यकाणां राजस्वं अर्जितम्- मुख्यमंत्री सुखविन्दरसिंहसुक्खुः

काङ्ग्रेसकार्यकर्तारः अपि सुखस्य सर्वकारे दुःखिताः – जयरामठाकुरः 

HP Panchayat Election – एप्रिलमासे निर्वाचनं सम्पादयितुं समस्या नास्ति-अनिलखाची

अनूपसिंहजसयालः पुस्तकालयविज्ञानविषये विद्यावारिधेः (पीएच.डी) उपाध्याः अलङ्कृतः

TAGGED: cmo himachal, Daily Sanskrit News, him sanskritam, Himachal government, Himachal news, Himachal Sanskrit Academy, Himsanskritnews, narendra modi, pmo, Sanskrit news, sanskrit news channel, sanskrit News pdf, Today Sanskrit Nerws, varta, vartah, आज के संस्कृत समाचार, दैनिक समाचार, संस्कृत समाचार, संस्कृतवार्ताः, हिम संस्कृतम्, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article हिमाचले एकवारं पुनः विनाशं कर्तुं वृष्टि: सज्जा अस्ति,
Next Article Online संस्कृतशिक्षणम् आमुखपटलसमूहे संस्कृतसप्ताहोपलक्ष्ये आयोजिताया: संस्कृत-प्रश्नोत्तरी-प्रतियोगिताया: परिणामस्य घोषणा जाता
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?