कालेश्वरमहादेवमंदिरम्, कांगड़ा
कालेश्वरमहादेवमन्दिरं, काङ्गड़ामण्डलस्य परागपुरग्रामात् प्रायः ८ कि.मी दूरे भगवत्याः ज्वालादेव्याः दक्षिणदिशि व्यासनद्या तटे अवस्थितः अस्ति। कालेश्वरमहादेवमन्दिरं हिमाचलप्रदेशस्य लोकप्रियं तीर्थस्थलम् अस्ति। भगवान् शिवः अस्य मन्दिरस्य अध्यक्षदेवता अस्ति । अयं मन्दिरः कलेसर इति नाम्नापि प्रसिद्धः अस्ति, अत्र पूजितः शिवः माता चिन्तापूर्णेः महारुद्रः इति मन्यते । महाशिवरात्रौ श्रावणमासे च (हिन्दुमासस्य) अस्मिन् स्थाने भक्तानां विशालः सम्मर्दः भवति । व्यास-नद्याः तटे स्थितं एतत् मन्दिरं आदर्शध्यानस्थलं दृश्यते । अस्य मन्दिरस्य पार्श्वे हिन्दुदाहस्थानम् अपि अस्ति । पुराणकथानुगुणं यदा भगवती रौद्ररूपं धारणं कृतवती तथा भगवान शङ्करः अस्मिन् स्थाने भगवत्याः कोध्रं शान्तं कृतवान्। काल्याः ईश्वरः इति कालेश्वरः कथ्यते। एकाधारणा एषा अपि अस्ति यद् मन्दिरं विपरीतः अस्ति, यतोहि अस्य शिवलिङगः द्वौफीटपरिमितं भूमौ अधस्मिन् भागे स्थितः अस्ति। प्रतिवर्षं व्यासनद्याः प्रचण्डवेगः मन्दिरं स्पृशति। मन्दिरं समीपे पञ्चतीर्थी इति नाम्नः प्रसिद्धः पाण्डवैः निर्मितं पुण्यक्षेत्रमपि अस्ति, यक्ष गोमुखात् आवर्षं जलं निपतति। अत्रापि जनाः अध्यात्मिकस्नानाय आगच्छन्ति, यतो अत्रत्यः महत्वं गंगाजनेन समं गण्यते।
कालेश्वरमहादेवमंदिरम्, कांगड़ा
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Leave a comment
Leave a comment
