Pahalgam Terror Attack- संसारीनालाचेकपोस्टतः किलाडं प्रति प्रवेशः अधुना परिचयपत्रं दर्शयित्वा एव भविष्यति, सचेतना प्रसारिता
हिमसंस्कृतवार्ता:- चम्बा।
अधुना जम्मूकश्मीरसीमायाः समीपस्थे पाङ्गीक्षेत्रे संसारीनाला-निरीक्षणस्थलतः परिचयपत्रं दर्शयित्वा एव किलाडं प्रवेशं दास्यते। पहलगामे आतङ्कवादीनाम् आक्रमणस्य अनन्तरं संसारीनाला चेकपोस्ट इत्यत्र सचेतना प्रसारिता अस्ति। अस्य अतिरिक्तं यदि कोऽपि श्रमिक: जम्मूकश्मीरतः श्रमकार्यार्थं वा दैनिकवेतनार्थं वा पाङ्गीम् आगच्छति अथवा कार्यसंचालकेन आनयते तर्हि तस्य आधारपत्रं, खाद्यान्नपत्रम् इत्यादिभि: सहितं तस्य सम्पूर्णविवरणं किलाडपुलिसस्थानके पञ्जीकरणं कर्तव्यं भविष्यति। तदा एव तेषां पाङ्गीक्षेत्रे निवासस्य, कार्यस्य च अवसरः प्राप्स्यते। आतङ्कवादीनां घटनायाः अनन्तरं पाङ्गी-क्षेत्रस्य सीमान्तक्षेत्रेषु सुरक्षाव्यवस्थाः वर्धिताः सन्ति। पुलिसचौकीषु, नाकास्थानेषु च कार्यरताः पुलिसकर्मचारिणः प्रत्येकं वाहनस्य सम्यक् निरीक्षणं कृत्वा एव जनान् किलाडसीमायां प्रवेशं ददति। एतदतिरिक्तं पुलिसनिरीक्षणम् अपि वर्धितम् अस्ति। अस्मिन् क्रमे अधुना I-card विना चेकपोस्ट संसारीनाला (Sansari Nala) इत्यस्मात् कोऽपि अज्ञातः व्यक्तिः प्रवेशं न प्राप्स्यति। गुरुवासरे सुरक्षाव्यवस्थानां निरीक्षणार्थं थानाप्रभारी पाङ्गी चेकपोस्टं प्राप्य नियुक्तसैनिकेभ्यः आवश्यकमार्गदर्शिकाः निर्गतवान्।
संसारीनालातः किलाडं प्रति आगच्छन्तं प्रत्येकं चालकं व्यक्तिं च स्वस्य परिचयपत्रं दर्शयित्वा एव प्रवेशं प्राप्स्यति। जम्मूकश्मीरतः श्रमिकरूपेण कार्यं कर्तुम् आगच्छन्तः जनाः अथवा श्रमिकान् आनयन्तः निविदाकर्तार: स्वस्य आधारपत्रस्य खाद्यान्नपत्रस्य च आधारेण श्रमिकाणां पुलिसस्थानके पञ्जीकरणं कर्तुं प्रवृत्ताः भविष्यन्ति इति कथितम्। नियमानुसारं ये न कुर्वन्तिं तेषां विरुद्धं कार्यविधि: क्रियते।
-जोगेन्द्र सिंह जरायल,थानाध्यक्ष पांगी