Himachal Congress- रजनी पाटिल शिमलां प्राप्ता, काङ्ग्रेसः शुक्रवासरे सिक्थवर्तिकायात्राम् करिष्यति
हिमसंस्कृतवार्ता:- शिमला।
जम्मूकश्मीरस्य पहलगामे आतङ्कवादी- आक्रमणे मृतानां सम्मानार्थं, तेषां आत्मन: शान्त्यर्थं च राज्यकाङ्ग्रेसपक्षः शुक्रवासरे शिमलानगरे सिक्थवर्तिकायात्राम् करिष्यति। कार्यक्रमे भागं ग्रहीतुं राज्यप्रभारी रजनी पाटिल गुरुवासरे सायं शिमलानगरं प्राप्तवती।
सह प्रभारी चेतनचौहान:, प्रदेश काँग्रेसाध्यक्षा प्रतिभासिंह:, मुख्यमंत्री सुखविंदरसिंहसुक्खु:, उपमुख्यमंत्री मुकेश अग्निहोत्री, मन्त्रिमण्डलस्य सर्वे सदस्या:, विधायका:, शिमलानगरनिगमस्य महापौर:, उपमहापौर:, सर्वे पार्षदा:, अग्रणी सङ्घटननां सर्वे पदाधिकारिण: एवं कार्यकर्तार: अस्यां यात्रायां भागं ग्रहीष्यन्ति। शेर-ए-पञ्जाबतः सायं सार्धषड्वादने सिक्थवर्तिकायात्रा आरभ्यते, रिजग्राउण्ड इत्यत्र राष्ट्रपितुः महात्मागान्धी इत्यस्य प्रतिमायाः सम्मुखे समाप्ता भविष्यति। राज्यकाङ्ग्रेसस्य अध्यक्षा प्रतिभासिंहः सर्वेभ्यः दलनेतृभ्यः कार्यकर्तृभ्यः च आग्रहं कृतवती यत् ते दिवंगतानां प्राणानां शान्त्यर्थं अस्यां सिक्थवर्तिकायात्रायां सम्मिलिताः भवेयुः।