By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: चैत्रशुक्लप्रतिपदा : ऐतिहासिकं सांस्कृतिकं च परिप्रेक्ष्यम्
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > दिवसविशेषः > चैत्रशुक्लप्रतिपदा : ऐतिहासिकं सांस्कृतिकं च परिप्रेक्ष्यम्
दिवसविशेषःधर्मसंस्कृतिःराष्ट्रीयवार्ताः

चैत्रशुक्लप्रतिपदा : ऐतिहासिकं सांस्कृतिकं च परिप्रेक्ष्यम्

डॉ.अमनदीप शर्मा
Last updated: 2025/03/30 at 7:44 AM
डॉ.अमनदीप शर्मा - Editor in chief
Share
3 Min Read
Goddess Durga.
SHARE

चैत्रशुक्लप्रतिपदा : ऐतिहासिकं सांस्कृतिकं च परिप्रेक्ष्यम्

डॉ. रणजीतकुमारतिवारी, दर्शनसंकायाध्यक्षः,
कु.भा.वि.सं.पु.अ.विश्वविद्यालय:, नलबारी, असम

भारतस्य सनातनपरम्परायां चैत्रशुक्लप्रतिपदायाः विशेषं महत्वमस्ति। एषा केवलं हिन्दूनववर्षस्य श्रीगणेशस्य प्रतीकस्वरूपा नास्ति, अपितु एषा ऐतिहासिकदृष्ट्या, सांस्कृतिकदृष्ट्या च अतीव महत्वपूर्णा अस्ति। भारतीयसमाजे अस्मिन् दिने नूतन-ऊर्जायाः, नवसृजनस्य, नवोत्साहस्य च प्रवाह आयाति । एषः दिवसः केवलं धार्मिकानुष्ठानेषु सीमितः नास्ति, अपि तु एष अस्माकं संस्कृत्या, परम्पराभिः, ऐतिहासिकघटनाभिश्च सह गभीरतया सम्बद्धोऽस्ति।
ऐतिहासिकपरिप्रेक्ष्ये
चैत्रशुक्लप्रतिपदा विक्रमसंवत्सरस्य प्रारम्भदिनत्वेन ज्ञायते, यस्य स्थापना महाराजविक्रमादित्येन कृता। एषः संवत्सरः भारतीयकालगणनायाः महत्वपूर्णाङ्गत्वेन भजति, य अद्यापि धार्मिकसामाजिककृत्येषु प्रयुज्यते।
इतिहासदृष्ट्या, एषः दिवसः मराठवीराणां छत्रपतिशिवाजिमहाराजस्य राज्याभिषेकसम्बद्ध अस्ति। शिवाजीराजेन दिवसोऽयं हिन्दूस्वराज्यस्य आधाररूपेण स्थापितः, यस्मात् महाराष्ट्रे अस्मिन्नेव दिने ‘गुडीपाडवा’ इति महता उत्साहेन सम्पद्यते।
महाभारत-रामायणदिशा अपि अयं दिवसः परमपावनः मन्यते। त्रेतायुगे भगवतः श्रीरामस्य राज्याभिषेक अस्मिन्नेव दिने जात इति श्रूयते। अस्मिन्नेव दिने ब्रह्मणा जगतः निर्माणं कृतम् इति अपि कथ्यते। अत अयं दिवसः केवलं तिथिर्नास्ति, अपि तु प्रकृतेः नवसर्जनस्य नवजीवनस्य च प्रतीको भूयते।
पौराणिककथा –
चैत्रशुक्लप्रतिपदां प्रति अनेकाः पौराणिककथाः प्रचलन्ति। तासु एका कथा ब्रह्मणा सृष्टेः रचनासम्बद्धा अस्ति। यदा विश्वं तमसा आच्छन्नम् आसीत्, तदा ब्रह्मणा अस्मिन्नेव दिने सृष्टिप्रक्रिया प्रारब्धा। तेन प्रथमं पञ्चतत्त्वानि निर्मितानि, ततः सर्वजीवानां सृष्टिः कृता। अत अयं दिवसः सृष्टेः प्रथमदिवसत्वेन चिन्त्यते, नववर्षरूपेण च पूज्यते।
अपरा कथेयम्, अस्मिन्नेव दिने महिषासुरस्य संहाराय भगवत्याः दुर्गायाः नवस्वरूपाणां पूजनं प्रारब्धम्। नवदिनानि युद्धं कृत्वा अन्ततः देवी महिषासुरं निहत्य विजयिनी जाता। अत अस्मिन्नेव दिने नवरात्रिव्रतस्य शुभारम्भः भवति।
सांस्कृतिकं धार्मिकं च महत्वम् –
भारतस्य विविधेषु भागेषु अयं दिवसः भिन्नभिन्ननामभिः परम्पराभिश्च पाल्यते। महाराष्ट्रे ‘गुडीपाडवा’, आन्ध्रप्रदेश-कर्नाटकेषु ‘उगादि’, सिन्धिसमुदायेन ‘चेटीचण्ड’, उत्तरभारते च ‘नवसंवत्सरः’ इति रूपेण अस्य दिनस्य महोत्सव इव आचरणं क्रियते। सर्वेषु उत्सवेषु जीवनस्य नूतनशक्तेः स्वागतीकरणं प्रमुखम् अस्ति।
धार्मिकदृष्ट्या अपि अयं दिवसः विशेषमहत्वपूर्ण अस्ति। अस्मिन्नेव दिने चैत्रनवरात्रिव्रतस्य शुभारम्भः भवति, यस्मिन् भक्तजनाः भगवत्याः दुर्गायाः आराधनां कुर्वन्ति। गृहेषु आम्रनीम्बपत्राणां तोरणं बध्नान्ति, यत् स्वास्थ्यसमृद्ध्याः प्रतीकत्वेन गृहीतम्। अस्मिन्नेव दिने व्रतं, हवनं, पूजनं, दानं च कृत्वा आत्मानम् आध्यात्मिकरूपेण समृद्धं कुर्वन्ति।
सामाजिकं वैज्ञानिकं च दृष्टिकोणम् –
वैज्ञानिकदृष्ट्या अपि अस्य दिनस्य विशेषमहत्वम् अस्ति। अस्मिन्नेव समये वसन्तऋतु आगच्छति, प्रकृतिः नवजीवनं प्राप्नोति। ऋतुपरिवर्तनस्य प्रभावः मानवस्वास्थ्ये अपि दृश्यते। आयुर्वेदानुसारम्, अस्मिन्नेव दिने निम्बपत्राणि भक्ष्यमाणानि स्वास्थ्याय अत्युत्तमानि मन्यन्ते, यतः तानि शरीरस्य प्रतिरोधशक्तिं वर्धयन्ति।
सामाजिकदृष्ट्या, एषः दिवसः नवीनताया आरम्भं दर्शयति। कृषकाः नूतनकृषिचक्रस्य प्रारम्भं कुर्वन्ति, व्यावसायिकजनाः नवीनगणकपुस्तकम् उद्घाटयन्ति, विद्यार्थिनः अपि नवीनसंकल्पैः अध्ययनमारभन्ते।
नववर्षस्य संदेशः -नवसंवत्सर अस्मान् शिक्षयति यत् प्रत्येकवर्षं नूतनस्य अवसरस्य द्योतकोऽस्ति। एषः दिवस आत्मविश्लेषणस्य, नकारात्मकताया त्यागस्य, समाजहिताय नवीनसंकल्पस्य संदेशं ददाति।

“सर्वे भवन्तु सुखिनः, सर्वे सन्तु निरामयाः।
सर्वे भद्राणि पश्यन्तु, मा कश्चिद्दुःखभाग्भवेत्॥”

चैत्रशुक्लप्रतिपदा केवलं तिथिर्नास्ति, अपि तु भारतीयसंस्कृतेः वाहिका , ऐतिहासिकगौरवभूता, आध्यात्मिकोत्थानदात्री च अस्ति। एतत् पर्व अस्मान् अस्माकं सांस्कृतिकधराम् अनुसरन्तं, समाजे समरसतां विकासं च प्रवर्तयितुं प्रेरयति।
नवसंवत्सर अस्मान् सन्देशं ददाति यत् निरन्तरपरिवर्तनं जीवनस्य अवश्यम्भाविनीभागं द्योतयति। अत अस्माभिः स्वसांस्कृतिकमूल्यानि संस्थाप्य नवीनसंभावनाभिः सह अग्रेसरतव्यम्। अस्मिन्नेव दिने आत्मनिरीक्षणं, नवचिन्तनं, समाजे स्वकर्तव्यं च पुनः विमृश्यताम्। आगच्छामः, अस्मिन पावने दिने सर्वे मिलित्वा सशक्तं समृद्धं संस्कारितं च समाजं निर्माय, उत्साहेण हर्षेण च नववर्षं स्वागतं कुर्मः।

लेखक-ः डॉ. रणजीत कुमार तिवारी

You Might Also Like

President of India – चिकित्सा न केवलं वृत्तिः, अपितु मानवतायाः सेवायाः सङ्कल्पः; ‘एम्स’-संस्थानस्य प्रथमेभ्यः स्नातकेभ्यः राष्ट्रपतेः उपदेशः

श्रद्धया यत् कर्म क्रियते तत् श्राद्धम्

हिमसंस्कृतम् न्यास द्वारा हिन्दी दिवसस्य समायोजनम्

क्रीडा-मञ्चानां माध्यमेन बालकान् यूनश्च लक्ष्यीकुर्वन्ति आतङ्किनः; संयुक्तराष्ट्र-प्रतिवेदने प्रकटनम्

श्रीकृष्णजन्माष्टमीपर्व-नारदोपाध्यायः

TAGGED: hindu new year, चैत्रशुक्लप्रतिपदा, हिन्दू नववर्ष
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ.अमनदीप शर्मा Editor in chief
Follow:
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Previous Article आव्रजनविदेशीयविधेयकं २०२५’ देशस्य विकासाय सुरक्षायै च आवश्यकम् – जयरामठाकुरः
Next Article ओडिशा-राज्यस्य कटक्-नगरे बेङ्गलूरु-कामाख्य-सुपरफास्ट्-एक्सप्रेस्(१२५५१) इत्यस्य एकादश-एसी-यानानि रेलमार्गात् पतितानि
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Register Lost your password?