युवाकार्य-खेलमन्त्रालयः सम्पूर्णे देशे राष्ट्रमण्डलक्रीडादिवसस्य सम्पादनार्थं ‘फिट् इण्डिया संडेज् ऑन् साइकिल्’ इत्यस्य पञ्चसप्ततितमं (75th) महासंस्करणं संविधास्यति।
युवाकार्य-खेलमन्त्री डॉ. मनसुख माण्डविया महोदयः मई-मासस्य चतुर्विंशतितमे (24) दिनाङ्के अहमदाबाद-नगरात् एतेषां समारोहाणाम् नेतृत्वं करिष्यति। मन्त्रालयेन प्रोक्तं यत् अस्याः पहल्याः (प्रवृत्तेः) उद्देश्यं २०३० (द्विसहस्रत्रिंशत्) तमे वर्षे आयोज्यमानानां राष्ट्रमण्डलक्रीडानां भारतस्य आतिथ्यं प्रति जनभागितां वर्धयितुम् अस्ति, येन सहैव देशस्य दीर्घकालिकायाः ओलम्पिक-महत्त्वाकाङ्क्षायाः दिशि गतिः प्रदातुं शक्येत। इदं पञ्चसप्ततितमं संस्करणं केवलम् एकं साइकिल-अभियानत्वेन न, अपितु एकस्य राष्ट्रव्यापिनः क्रीडामहोत्सवस्य रूपेण प्रस्तूयते, यः भारतस्य वैश्विकक्रीडाशक्तित्वेन प्रादुर्भावस्य प्रतीकः अस्ति।इदं साइकिल-अभियानं सम्पूर्णे देशे अष्टसहस्रेभ्यः (8000+) अधिकेषु स्थानेषु नागरिकान् एकसूत्रेषु ग्रथिष्यति (एकत्रयिष्यति)। अहमदाबाद-नगरे राष्ट्रमण्डलक्रीडानां मुख्यविषयम् (थीम) आधृत्य एका विशिष्टा प्रदर्शिनी अपि उद्घाटयिष्यते।
युवाकार्य-खेलमन्त्रालयः सम्पूर्णे देशे राष्ट्रमण्डलक्रीडादिवसस्य सम्पादनार्थं ‘फिट् इण्डिया संडेज् ऑन् साइकिल्’ इत्यस्य पञ्चसप्ततितमं (75th) महासंस्करणं संविधास्यति
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Leave a comment
Leave a comment
