By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: आन्ध्रप्रदेशस्य गुण्टूर-मण्डलस्य छात्राणाम् एकेन प्रतिनिधिमण्डलेन उपराष्ट्रपतिभवने उपराष्ट्रपतिना सी. पी. राधाकृष्णन्-महोदयेन सह मेलनम् कृतम्
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > राष्ट्रीयवार्ताः > आन्ध्रप्रदेशस्य गुण्टूर-मण्डलस्य छात्राणाम् एकेन प्रतिनिधिमण्डलेन उपराष्ट्रपतिभवने उपराष्ट्रपतिना सी. पी. राधाकृष्णन्-महोदयेन सह मेलनम् कृतम्
राष्ट्रीयवार्ताः

आन्ध्रप्रदेशस्य गुण्टूर-मण्डलस्य छात्राणाम् एकेन प्रतिनिधिमण्डलेन उपराष्ट्रपतिभवने उपराष्ट्रपतिना सी. पी. राधाकृष्णन्-महोदयेन सह मेलनम् कृतम्

डॉ.अमनदीप शर्मा
Last updated: 2026/05/22 at 7:16 AM
डॉ.अमनदीप शर्मा - Founder Of Himsanskritam.com
Share
1 Min Read
SHARE

आन्ध्रप्रदेशस्य गुण्टूर-मण्डलस्य छात्राणाम् एकेन प्रतिनिधिमण्डलेन उपराष्ट्रपतिभवने उपराष्ट्रपतिना सी. पी. राधाकृष्णन्-महोदयेन सह मेलनम् कृतम्
निर्धन-वञ्चितपृष्ठभूमेः छात्रान् शैक्षणिकभ्रमणाय देहलीम् आनेतुं कृतस्य प्रयासस्य प्रशंसां कुर्वन् उपराष्ट्रपतिः अवदत् यत् एतादृशैः प्रवासैः छात्राणां कक्षायाः बहिः ज्ञाने तथा च तेषां दृष्टिकोणस्य विशालीकरणे सहायता भवति।

संवादकाले उपराष्ट्रपतिः छात्रान् अपरामृशत् यत् ते स्वकीयाम् वर्तमानाम् आर्थिकस्थितिं दृष्ट्वा निराशां न भजेयुः। सः अकथयत् यत् शिक्षा तान् जीवने साफल्यं प्राप्तुं सक्षमीकरिष्यति। उपराष्ट्रपतिना प्रतिपादितं यत् सर्वकारीयविद्यालयेभ्यः अधिकं महत्त्वं प्रदातव्यं तथा च ते उत्तमप्रदर्शनाय प्रोत्साहनीयाः। सः सांसदान् विधायकान् च सर्वकारीयविद्यालयानां सुधाराय तान् सुदृढान् कर्तुं च ध्यानं केन्द्रयितुम् अपि साग्रहं न्यवेदयत्।
श्रीराधाकृष्णन्-महोदयः एतस्मिन् विषये अपि प्रसन्नातां प्राकटयत् यत् देहल्याः शैक्षणिकप्रवासे आगतेषु ४१ सर्वकारीयविद्यालयानां मेधाविच्छात्रेषु २७ छात्राः आसन्, यत् देशे ‘नारीशक्तेः’ वर्धमानं सामर्थ्यं दर्शयति। उपराष्ट्रपतिः छात्रेभ्यः सर्वदा त्रीन् सिद्धान्तान् स्मर्तुं परामर्शं दत्तवान्— पूर्णनिष्ठया कठिनपरिश्रमः, सफलतायां सत्याम् अपि विनम्रता, तथा च स्वज्ञानस्य उपयोगः समाजस्य कल्याणाथं करणम्।

You Might Also Like

स्वास्थ्य-सेवा-महानिदेशालयेन इबोला-संक्रमणेन प्रभावितानां यात्रिणां कृते कश्चन विशेष-स्वास्थ्य परामर्शः प्रसारितः

पश्चिमबङ्गाल-सर्वकारेण सम्पूर्ण राज्ये सर्वेषु मदरसा इत्येतेषु तत्क्षण-प्रभावेण ‘वन्दे मातरम्’ इत्यस्य गानम् अनिवार्य कृतम्

युवाकार्य-खेलमन्त्रालयः सम्पूर्णे देशे राष्ट्रमण्डलक्रीडादिवसस्य सम्पादनार्थं ‘फिट् इण्डिया संडेज् ऑन् साइकिल्’ इत्यस्य पञ्चसप्ततितमं (75th) महासंस्करणं संविधास्यति

भारतस्य प्रथमा तीव्रगामी-रेलयानम् (बुलेट ट्रेन) चित्रम्: रेलमन्त्रालयेन द्वारे स्थापितम्

नार्वे-देशेन प्रधानमन्त्री मोदिमहोदयाय सर्वोच्चः सम्मानः प्रदत्तः, द्वात्रिंशत्तमः (32nd) अन्तर्राष्ट्रियः सम्मानः

Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ.अमनदीप शर्मा Founder Of Himsanskritam.com
Follow:
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Previous Article कविकुलगुरु-कालिदास-संस्कृत-विश्वविद्यालयस्य महाकविकालिदास-संस्कृतव्रति- राष्ट्रियपुरस्कारस्य आवेदन/नामनिर्देशनपत्राणाम् आह्वानम्
Next Article युवाकार्य-खेलमन्त्रालयः सम्पूर्णे देशे राष्ट्रमण्डलक्रीडादिवसस्य सम्पादनार्थं ‘फिट् इण्डिया संडेज् ऑन् साइकिल्’ इत्यस्य पञ्चसप्ततितमं (75th) महासंस्करणं संविधास्यति
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?