ओडिशा-राज्यस्य कटक्-नगरे बेङ्गलूरु-कामाख्य-सुपरफास्ट्-एक्सप्रेस्(१२५५१) इत्यस्य एकादश-एसी-यानानि रेलमार्गात् पतितानि
रविवासरे ओडिशा-राज्यस्य कटक्-नगरे बेङ्गलूरु-कामाख्य-सुपरफास्ट्-एक्सप्रेस् (१२५५१) इत्यस्य एकादश-एसी-यानानि रेलमार्गात् पतितानि । दुर्घटनायां एकः यात्री मृतः, अन्ये अष्टौ घातिताः । नेर्गुण्डी-स्थानकस्य समीपे प्रातः ११:५४ वादने एषा दुर्घटना अभवत् । एनडीआरएफ-दलः रेलवे-अधिकारिणः च तत्स्थानं प्राप्य राहत-उद्धार-कार्यक्रमं कृतवन्तः । दुर्घटनाकारणात् त्रीणि रेलयानानि मार्गान्तरितानि इति अधिकारिणः अवदन्। अटन् यात्रिकान् कामाख्यं प्रति नेतुम् एकः विशेषः रेलयानः सायं ४ वादने तत्स्थानं प्राप्तवान् । पूर्वं पूर्वतटरेलमार्गस्य पीआरओ अशोकमिश्रः सर्वयात्रिकाः सुरक्षिताः इति उक्तवान् आसीत्।
ओडिशा-राज्यस्य कटक्-नगरे बेङ्गलूरु-कामाख्य-सुपरफास्ट्-एक्सप्रेस्(१२५५१) इत्यस्य एकादश-एसी-यानानि रेलमार्गात् पतितानि
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Leave a comment
Leave a comment
