भारत-साइप्रस देशयोः मध्ये नवदिल्ल्याम् आतंकवादावरोधस्य नवान्वेषण-तन्त्रज्ञानयोः विषये सन्धिपत्राणां आदानप्रदानम् अभवत्
भारत-साइप्रस देशयोः मध्ये नवदिल्ल्याम् आतंकवादावरोधस्य विषये, नवान्वेषण-तन्त्रज्ञानयोः, उच्चशिक्षायां, अनुसंधाने, सांस्कृतिकसहयोगे च संयुक्तकार्यसमूहस्य स्थापनेत्यादीनां विभिन्नक्षेत्रेषु अनेकेषां सन्धिपत्राणां आदानप्रदानम् अभवत्। प्रधानमन्त्री नरेन्द्रमोदी साइप्रस देशस्य राष्ट्रपतिना निकोस् क्रिस्टोडौलाइड्स् इत्यनेन सह विविधेषु क्षेत्रेषु द्वैपाक्षिकसहकारं सुदृढी कर्तुं चर्चा कृतवान्। बहुपाक्षिक-मञ्चेषु सहकार्येण सह क्षेत्रीय-वैश्चिक-महत्त्वस्य विषयेषु अपि तौ विचाराणाम् आदानप्रदानं कृतवन्तौ। संयुक्त-वक्तव्ये प्रधानमन्त्रिणा नरेन्द्रमोदिना भारत-साइप्रस-देशयोः मैत्री न केवलं दृढः अपितु भविष्य-अभिमुखी अपि अस्तीति उक्तम्। सः अवदत् यत्, गतदशके साइप्रस देशात् भारते निवेशः प्रायः द्विगुणितः अभवत्। तेनोदीरितं यत्, भारत-यूरोपीय-सङ्घ-मुक्तव्यापारसमन्वयेन अनेकाः नूतनाः सम्भावनाः उद्भूताः सन्ति, उभयोः देशयोः मध्ये विश्वासः च वर्धितः अस्ति। अग्रिमेषु पञ्चवर्षेषु पुनः निवेशप्रवाहं द्विगुणीकर्तुं भारत-साइप्रस देशयोः लक्ष्यम् अस्तीति श्रीमोदी अवदत्। साइप्रस देशस्य राष्ट्रपतिः निकोस् क्रिस्टोडीलाइड्स् इत्येषः अवदत् यत् उभयोः राष्ट्रयोः मध्ये द्वैपाक्षिकसम्बन्धाः, यूरोपीयसङ्घ भारतसम्बन्धाः च गतवर्षे अत्यन्तं प्रगतिम् अकुर्वन्। प्रातःकाले विदेशमन्त्री डा. एस्. जयशङ्करः साइप्रस देशस्य राष्ट्रपतिना सह मेलनं कृतवान्। सामाजिकान्तर्जालीये पटले डा. जयशङ्करः अवदत् यत् सः द्वयोः राष्ट्रयोः मध्ये द्वैपाक्षिक-सम्बन्धान् सुदृढं कर्तुं, भारत-यूरोपीय सहयोगाय च सकारात्मक-भावानां मार्गदर्शनस्य च प्रशंसाम् अकरोत्। साइप्रस देशस्य राष्ट्रपतिः निकोस् क्रिस्टोडीलाइड्स् इत्येषः भारतस्य चतुर्दिवसीय यात्रायाम् अस्ति।
भारत-साइप्रस देशयोः मध्ये नवदिल्ल्याम् आतंकवादावरोधस्य नवान्वेषण-तन्त्रज्ञानयोः विषये सन्धिपत्राणां आदानप्रदानम् अभवत्
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Leave a comment
Leave a comment
