मारीशस्-देशस्य राष्ट्रियदिवसस्य समारोहे मुख्यातिथिरूपेण भागं गृहीतवान् प्रधानमन्त्री मोदी
हिमसंस्कृतवार्ताः। प्रधानमन्त्री श्रीनरेन्द्रमोदी मॉरीशस्-देशस्य चैम्प-डी-मार्स इत्यत्र आयोजिते मारीशस्-देशस्य राष्ट्रियदिवसस्य समारोहे मुख्यातिथिरूपेण भागं गृहीतवान्। समारोहावधौ, मॉरिशस्-देशस्य राष्ट्रपतिः धरमबीर-गोखुलः भारत-मॉरिशस्-सहभागितायां श्रीमोदिनः उत्कृष्ट-योगदानाय तस्मै ग्रैण्ड-कमाण्डर्-आफ्-द-आर्डर्-आफ्-द-स्टार् तथा च की-आफु-द-इण्डियन्-ओशन् इत्येताभ्याम् उपाधिभ्यां सम्मानितवान्। प्रधानमन्त्री मोदी प्रथमः भारतीयः अस्ति, यः मॉरिशस्-देशस्य सर्वोच्च नागरिकपुरस्कारं प्राप्तवान्। मॉरिशस्-देशस्य राष्ट्रिय-दिवसोत्सवस्य पथसञ्चलने भारतीय-नौसेनायाः दलमेकमपि भागम् अगृह्णात्। प्रधानमन्त्रिणा नरेन्द्रमोदिना स्वीय द्विदिवसीयाधिकारिकयात्रायाः अन्तर्गतं मारिशस्-देशस्य प्रधानमन्त्रिणा नवीन-रामगुलामेन सह प्रतिनिधिस्तरीय वार्ता कृता। यात्रायाः द्वितीये दिवसे भारत-मारीशस्-देशयोः मध्ये अनेकेषु सन्धिपत्रेषु हस्ताक्षराणि कृतानि। उपवेशनावधौ स्थानीय-मुद्रा-समाधान-व्यवस्था, ऋण-सौविध्य-सन्धयः, राजनयिकेभ्यः प्रशिक्षण-कार्यक्रमः, श्वेत-नौवहन-सूचना-आदानप्रदानम्, वित्तीयापराधानां प्रतिरोधः, सूक्ष्मलघु-मध्यमोद्योग-क्षेत्रे सहयोगः, सुशासनार्थं सार्वजनिका-धिकारिणां प्रशिक्षणम् इत्यादिषु सम्बद्धविषयेषु अष्ट Mou इति सन्धि-ज्ञापन-पत्राणां तथा च सन्धीनां आदानप्रदानं सञ्जातम्। एकस्मिन् संयुक्त-वार्ताहर-सम्मेलने स्वीय वक्तव्ये, प्रधानमन्त्री भारतस्य क्षेत्रीय-कार्यनीतौ मारिशस्-देशस्य महत्त्वं प्रकाशितवान्, यस्मिन् वैश्विक दक्षिणक्षेत्रे, हिन्दमहासागरे, अफ्रीका महाद्वीपे च मॉरिशस्-देशस्य महत्त्वपूर्ण-भूमिकायै बलं प्रदत्तवान्। अस्मिन् अवसरे, असौ क्षेत्रीयस्थिरतां समृद्धिं च प्रति भारतस्य प्रतिबद्धतायाः विषये अवदत्। सः अवदत् यत् उभौ देशौ न केवलं हिन्दमहासागरेण अपितु परम्परया संस्कृत्या च सम्बद्धौ स्तः। एकस्य नूतनोपक्रमस्य अनावरणं कुर्वन्, श्रीमोदी अघोषयत् यत्, “वैश्विक-दक्षिणाय अस्माकं दृष्टिः भविष्यति महासागरसुरक्षा, तथा च सर्वेषु क्षेत्रेषु विकासाय परस्पर-समग्र-प्रगतिः”। अस्य अन्तर्गतं विकासाय व्यापारः, सततविकासाय क्षमता-निर्माणम्, सहभागि भविष्याय परस्पर-सुरक्षाः च सम्मिलिताः भविष्यन्ति। घोषणैषा मॉरिशस् देशेन सह भारतस्य दीर्घकालीन-सम्बन्धाय, क्षेत्रीयसहयोगाय विकासाय च व्यापकदृष्टेः पुष्टि करोति । प्रधानमन्त्री श्रीनरेन्द्रमोदी अवदत् यत् भारत-मारिशस्-देशाभ्यां स्वसहभागित्वम् उन्नत-रणनीतिक-सहभागि-स्तरं प्रति वर्धयितुं निर्णयः कृतः। सामाजिक सञ्चार-पटले एकस्मिन् सन्देशे प्रधानमन्त्रिणा कथितं यत् मॉरिशस्-देशस्य राष्ट्रिय-दिवसस्य विशेषावसरे मॉरिशस्-देशस्य स्वीय समकक्षीयेन नवीनचन्द्र-रामगुलामेन सह मेलनस्य अवसरः प्राप्तः। श्रीमोदी अवदत् यत् उपवेशने उभयपक्षाभ्यां भारत-मॉरिशस्-सम्बन्धानां सम्पूर्णविषयेषु चर्चा जाता। असौ अवदत् यत् आधारभूत-संरचना, आवासः, आङ्किकीय-प्रौद्योगिकी, स्वास्थ्यम् च इत्यादिषु क्षेत्रेषु सहयोगस्य मार्गाणाम् अन्वेषणं जातम्। मॉरिशस्-देशस्य सर्वोच्चं राष्ट्रियपुरस्कारं प्राप्ते सति प्रधानमन्त्री आभारं प्रकटितवान्। असौ एनं पुरस्कारं भारतस्य चत्वारिंशदधिकैकशत-कोटिजनानां कृते, उभयदेशयोः मध्ये युगानुयुगे मैत्रीं प्रति च समर्पितवान्।
प्रधानमन्त्रिणा दण्डीमार्च इत्यस्मिन् भागं गृहीतेभ्यः सर्वेभ्यः महाजनेभ्यः श्रद्धाञ्जलिः समर्पिता
प्रधानमन्त्रिणा नरेन्द्रमोदिना ऐतिहासिक-दण्डीमार्च इत्यस्मिन् भागं गृहीतेभ्यः सर्वेभ्यः महाजनेभ्यः श्रद्धाञ्जलिः समर्पिता। एकस्मिन् सामाजिकान्तर्जालीय-सन्देशे श्रीमोदी अवदत् यत् महात्मगान्धिनः नेतृत्वे यात्रया आत्मनिर्भरतायाः स्वातन्त्र्यस्य च कृते राष्ट्रव्यापि-आन्दोलनस्य अग्निः प्रज्वलितम्। प्रधानमन्त्रिणा उक्तं यत् दाण्डी-यात्रान्दोलने भागं गृहीतानां सर्वेषां साहस-त्यागयोः, सत्याहिंसयोः च प्रतिबद्धता जनान् निरन्तरं प्रेरयन्ति ।
मारीशस्-देशस्य राष्ट्रियदिवसस्य समारोहे मुख्यातिथिरूपेण भागं गृहीतवान् प्रधानमन्त्री मोदी
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Leave a comment
Leave a comment
