राज्यसभा-ः केन्द्रप्रशासनेन प्रत्येकस्मिन् जनपदे दैनन्दिन- परिचर्या-कर्करोग-सम्बद्धकेन्द्राणि उद्घाटयिष्यन्ते।
केन्द्रप्रशासनेन आगामिषु वर्षत्रयेषु देशस्य प्रत्येकस्मिन् जनपदे दैनन्दिन- परिचर्या-कर्करोग-सम्बद्धकेन्द्राणि उद्घाटयिष्यन्ते। राज्यसभायां पूरकप्रश्नस्य उत्तरं ददता केन्द्रीय-स्वास्थ्यमन्त्री जे.पी. नड्डा अवदत् यत्, पञ्चविंशत्यधिक-द्विसहस्र-षविंशत्यधिक-द्विसहस्रतमे वर्षे द्विशतं दैनन्दिन परिचर्या कर्करोग-केन्द्राणि उद्घाटितानि भविष्यन्ति। सद्यः एव प्रकाशितं प्रतिवेदनं उद्धृत्य श्रीनड्डा अवदत् यत् आयुष्मान-भारत-पीएम-जन-आरोग्ययोजनायाः कार्यान्वयनेन कर्करोगिणां परीक्षणात् त्रिंशत्-दिवसेषु उपचारः आरभ्यते। सः अवदत् यत्, राष्ट्रिय-स्वास्थ्या-भियानस्य अन्तर्गतं निम्नमूल्येषु गुणवत्तापूर्ण स्वास्थ्यसेवाप्रदानाय प्रशासनं कार्यं कुर्वन् अस्ति।
माष इति द्विदलस्य शुल्कमुक्तायातःप्रशासनेन विस्तारितः
माष इति द्विदलस्य शुल्कमुक्तायातः आगामिवर्षस्य मार्चमासस्य एकत्रिंशत्-दिनाङ्कपर्यन्तं यावत् प्रशासनेन विस्तारितः। विदेशव्यापार-महानिदेशालयेन एकस्याम् अधिसूचनायाम् उक्तं यत् माष-द्विदलस्य मुक्तायात-नीतिः षड्विंशोत्तर-द्विसहस्रतमस्य वर्षस्य मार्च-मासस्य एकत्रिंशत्-दिनाङ्कपर्यन्तं विस्तारिता अस्ति। अस्मिन् वर्षे मार्च-मासस्य अन्त्यपर्यन्तं पूर्वमेव इदं प्रावधानम् आसीत्। एषः पदक्षेपः आन्तरिक-विपण्येषु मूल्यानि स्थिरीकर्तुं साहाय्यं करिष्यति। म्यान्मारदेशः भारते माषस्य मुख्य-निर्यातदेशः अस्ति। भारतं म्यान्मारदेशेन सहैव सिङ्गापुर-थाईलैण्ड-ब्राजील्-देशेभ्यः अपि माषस्य आयातं करोति ।
राज्यसभायां शिक्षामन्त्रालयस्य कार्याचरणे चर्चा समारब्धा
राज्यसभायां शिक्षामन्त्रालयस्य कार्याचरणे चर्चा समारब्धा। चर्चायाः आरम्भं कुर्वन् काङ्ग्रेसदलस्य दिग्विजयसिंहः शिक्षकानां कौशलस्य प्रशिक्षणस्य च विषये चर्चा कृतवान्। सः अवदत्, यत् विश्वविद्यालयेषु शोधच्छात्राणां कृते जे. आर्.एफ इति कनिष्ठ-शोधछात्रवृत्ति-प्रदातुं विलम्बः भवति। श्रीसिंहेन आरोपितं यत् केन्द्रप्रशासनं निज-विश्वविद्यालयेभ्यः जीएसटी इति वस्तु-सेवाकरं गृह्णाति यत् पूर्वं कदापि नासीत्। भाजपेति दलस्य घनश्याम तिवारी इत्यनेन उक्तं यत् केन्द्रप्रशासनेन देशस्य शैक्षणिक-व्यवस्थायाः परिवर्तनार्थम् अनेकानि निर्णयानि निर्णीतानि। सः अवदत् यत् समग्रशिक्षाभियानस्य कृते एकचत्वारिंत्-सहस्र-कोटिरूप्यकाणि विनियोजितानि सन्ति। थीतिवारिणा उक्तं यत्, सार्द्ध-चतुर्दश-सहस्राधिकानां विद्यालयानां आधुनिकीकरणं क्रियन्ते।