HP Education News – हिमाचलप्रदेशस्य १९९९ विद्यालयशिक्षकानां २४ फ़रवरी दिनाङ्के आधारभूतमूल्यांकनं भविष्यति।
हिमसंस्कृतवार्ता: – शिमला।
जनपदशिक्षणप्रशिक्षणसंस्थानम् ( DIET ) मध्ये एकस्मिन् होरायाः मूल्यांकनं भविष्यति। हस्तदूरवाणी माध्यमेन ज्ञानस्य अन्तरस्य परिचयं कर्तुं मूल्यांकनं क्रियते। उच्चशिक्षानिदेशालयेन निर्दिष्टाः शिक्षकाः अनिवार्यरूपेण मूल्यांकनस्य भागं ग्रहीतुं निर्देशाः प्रदत्ताः।
शिक्षणप्रणालीं सुदृढीकर्तुं प्रदेशसर्वकार: शिक्षकाणां कृते अनिवार्यमूल्यांकनं आयोजयितुं निश्चयः कृतः। एतत् मूल्यांकनं सततम् व्यापकं च मूल्यांकनाय शिक्षकप्रशिक्षणपरियोजनायाः प्रमुखभागः अस्ति। अस्य लक्ष्यं मूल्यांकनस्य प्रारुपं, ब्लूप्रिण्ट् च तथा कक्षायां आधारितमूल्यांकनं च इत्येषु शिक्षकाणां ज्ञानान्तरं च मिथ्याधारणाः च परिचेतुमृ अस्ति।
शिक्षकाणां चयनं स्तरीकृतं यादृच्छिकप्रतिरूपकरणपद्धत्या कृतम्। शिक्षणक्षेत्रे विविधपर्यावरणानां प्रतिनिधित्वं सुनिश्चेतुं विभिन्नमापदण्डानां समावेशः कृतः, यथा – जनपद: ,खण्डः, शिक्षारब्धस्तर:, विषयः, लिङ्गं, सेवायाः कालः इत्यादयः।
अस्य मूल्यांकनस्य मूललक्ष्यं शिक्षणसम्बद्धानां प्रथानां च उन्नयनाय आवश्यकस्य प्रारम्भबिन्दोः स्थापनं अस्ति। शिक्षकाणां ज्ञानान्तरं मिथ्याधारणाः च परिचाय्य, तेषां विशेष आवश्यकतानुसारं प्रशिक्षणकार्यक्रमानां साहायकसामग्रीणां च निर्माणं सर्वकारायोजयिष्यति। क्षेत्रनिरीक्षकाणां साहाय्येन शिक्षकव्यावसायिकविकासजालद्वारेण मूल्यांकनं भविष्यति।
मूल्यांकनसत्राणि समूहस्वरूपेण आयोजयिष्यन्ते, यस्मिन् प्रत्येकसत्रं एकस्मिन् होरायाः भविष्यति। शिक्षकाणां निर्दिष्टसमयात् किञ्चित्पूर्वं, यथाकथं ३० निमेषे पूर्वं जनपदशिक्षणप्रशिक्षणसंस्थानम्( DIET ) मध्ये प्रतिवेदनं दातव्यम् इति निर्दिष्टम्।
विभिन्नजनपदेभ्यः शिक्षकाणां संख्यायाः विवरणम् –
काङ्गड़ा जनपदस्य ३६५,मण्डीजनपदस्य ३२२,शिमलाजनपदस्य २६१, बिलासपुरस्य ११८, चम्बाजनपदस्य १८१, हमीरपुरस्य ११४, कुल्लूजनपदस्य १२८,सिरमौरस्य १७३, सोलनजनपदस्य १५४, ऊनाजनपदस्य १३०, लाहौल-स्पीतिजनपदस्य २४,किन्नौरजनपदस्य २९ शिक्षकाःमूल्यांकनाय सम्मिलिष्यन्ते।