मोदी ट्रंपश्च-ः डोनाल्डट्रम्पेन मिलितः भारतस्य प्रधानमन्त्री, भारत-मध्यपूर्व-यूरोप आर्थिकमार्गस्य निर्माणविषये सन्धिः
प्रधानमन्त्री नरेन्द्रमोदी फ्रांसस्य सफलयात्रायाः अनन्तरम् अद्य प्रातःकाले वाशिङ्गटननगरं सम्प्राप्तवान्। अमेरिका-देशे भारतस्य राजदूतः विनयमोहन-क्वात्रा, अन्ये च अधिकारिणः विमानस्थानके प्रधानमन्त्रिणं मोदिनं स्वागतं कृतवन्तः। भारतीयसमुदायस्य सदस्याः ब्लेयर्-हाउस इत्यस्मात् बहिः मिलित्वा श्रीमोदी-वर्यस्य स्वागतम् अकुर्वन्, श्रीमोदी अमेरिकादेशस्य राष्ट्रपतेः डोनाल्ड् ट्रम्पस्य द्वितीय-कार्यकालस्य उद्घाटनस्य अनन्तरं संयुक्तराज्यामेरिका-देशस्य कतिपयेषु विश्वनेतृषु अन्यतमः अस्ति। डोनाल्ड ट्रम्पस्य द्वितीयवारं अमेरिकादेशस्य राष्ट्रपतिपदं ग्रहणाननन्तरं प्रथमवारं अमेरिकायाः भ्रमणं कुर्वन् प्रधानमन्त्री नरेन्द्रमोदी प्रथमदिने ट्रम्पप्रशासनस्य शीर्षाधिकारिभिः सह मिलितवान्। अमेरिकीगुप्तचरसेवानिदेशिका तुलसीगबर्ड इत्यनया सह एषा समागमश्रृङ्खला आरब्धा, तदनन्तरं पीएम मोदी अमेरिकीसुरक्षापरामर्शकं माइकल वाल्ट्ज् इत्यनेन सह मिलितवान् यः भारतस्य मित्रं मन्यते। अधुना पीएम मोदी राष्ट्रपतिं ट्रम्पं मिलितुं व्हाइट हाउसम् इत्यत्र आगतवान्।
प्रधानमन्त्रिनः डोनाल्डट्रंपप्रशासनस्य कृतः धन्यवादः
संयुक्तवक्तव्यस्य समये प्रधानमन्त्री मोदी राष्ट्रपतेः ट्रम्पस्य हार्दिकस्वागतस्य आतिथ्यस्य च कृते धन्यवादं दत्तवान्। सः अवदत् यत् सर्वप्रथमं मम मित्रं डोनाल्ड ट्रम्पं धन्यवादं ददामि यतोहि सः हार्दिकं स्वागतं अद्भुतम् आतिथ्यं च कृतवान्। राष्ट्रपतिः ट्रम्पः भारत-अमेरिका-देशयोः सम्बन्धं पोषितवान्, स्वस्य नेतृत्वेन च तत् सजीवं कृतवान् । अद्यत्वे अपि तथैव उत्साहः, ऊर्जा, समर्पणं च अनुभूतवान् यथा प्रथमकार्यकाले वयं मिलित्वा कार्यं कृतवन्तः। अद्यतनचर्चायां वयं तस्य प्रथमकार्यकाले अस्माकम् उपलब्धीनां, गहनपरस्परविश्वासस्य च विषये चर्चां कृतवन्तः, नूतनानां लक्ष्याणां प्राप्तेः अपि संकल्पं कृतवन्तः। भारत-अमेरिका-देशयोः मिलित्वा उत्तमं विश्वं निर्मातुं शक्नुवन्ति ।
प्रधानम्त्री मोदी महान् नेता अस्ति, महत् कार्याणि कुर्वन् अस्ति : ट्रम्पः
अमेरिकीराष्ट्रपतिः डोनाल्ड ट्रम्पः श्वेतभवने प्रधानमन्त्रिणा नरेन्द्रमोदी इत्यनेन सह समागमे उक्तवान् यत्, “भारतस्य प्रधानमन्त्री मोदी इत्यनेन सह अस्माकं सङ्गमे महत् गौरवम् अस्ति। सः चिरकालात् मम सुहृदः अस्ति। अस्माकं कृते अतीव उत्तमः सम्बन्धः अस्ति तथा च अस्माभिः मम ४ वर्षीयकार्यकाले एषः सम्बन्धः निर्वाहितः। अहं मन्ये अस्माकं कृते केचन अतीव बृहत् विषयाः सन्ति। प्रथमाङ्कः – अस्ति यत् ते अस्माकं तैलस्य, गैसस्य च बहुभागं क्रेतुं गच्छन्ति।
भारत-मध्यपूर्व-यूरोप आर्थिकगलियारस्य निर्माणविषये सन्धिः
अस्मिन् काले राष्ट्रपतिः ट्रम्पः IMEC (India-Middle East-Europe Economic Corridor) इत्यस्य निर्माणसम्बद्धां सन्ध्याम् अपि प्रतिक्रियाम् अददात् । सः अवदत् यत् इतिहासस्य सर्वेषु महान् व्यापारमार्गेषु एकस्य निर्माणे साहाय्यं कर्तुं वयं मिलित्वा कार्यं कर्तुं सहमताः अस्मत्। भारतात् इजरायल् इटलीदेशं च ततः परं अमेरिकादेशं प्रति गमिष्यति। अस्माकं संयुक्तप्रयासः मार्गान्, रेलमार्गान्, समुद्रान्तर्गतकेबलान् च संयोजयिष्यति। एषः महत् विकासः अस्ति।
अमेरिकायाः राष्ट्रिय-गुप्तचरविभागस्य निदेशिकायाः तुलसी गबाई इत्यनया सह मेलनम्
प्रधानमन्त्रिणः नरेन्द्रमोदिनः तथा च अमेरिकायाः राष्ट्रिय-गुप्तचरविभागस्य निदेशिकायाः तुलसी गबाई इत्येतस्याः मध्ये अद्य वाशिङ्ग्टन् डी. सी. नगरे द्वयोः राष्ट्रयोः मध्ये गुप्तचर-सहकारं सुदृढीकर्तुं चर्चा जाता। चर्चा द्वैपाक्षिक-गुप्तचर-सहकारं वर्धयितुं, विशेषतः आतंकवाद-निरोधे, आन्तर्जालिकापराध-सुरक्षायां, उदयोन्मुख-विभीषिकासु, सामरिक-गुप्तचर-आदानप्रदाने च विषयेषु केन्द्रितास्ति । सुरक्षितं, स्थिरं, नियम-आधारितं च अन्ताराष्ट्रिय-व्यवस्थायाः प्रति स्वस्य प्रतिबद्धतां पुनः दृढीकर्तुं, तौ पारस्परिक हितस्य क्षेत्रीय-वैश्विक विकासविषये अपि विचारान् आदानप्रदानम् अकुरुताम्।
मोदी ट्रंपश्च-ः डोनाल्डट्रम्पेन मिलितः भारतस्य प्रधानमन्त्री, भारत-मध्यपूर्व-यूरोप आर्थिकमार्गस्य निर्माणविषये सन्धिः

Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
Leave a comment