By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: Himachal News : हिमाचलस्य प्रमुखा वार्ता:
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > हिमाचलवार्ता > Himachal News : हिमाचलस्य प्रमुखा वार्ता:
हिमाचलवार्ता

Himachal News : हिमाचलस्य प्रमुखा वार्ता:

डॉ मनोज शैल
Last updated: 2025/02/05 at 5:49 PM
डॉ मनोज शैल
Share
4 Min Read
SHARE

Himachal News : हिमाचलस्य प्रमुखा वार्ता:

जयरामठाकुरः – हिमाचले रेलपरियोजनासु गते: अभावस्य उत्तरदायी सुक्खुसर्वकारः

हिमसंस्कृतवार्ता: – शिमला।

विपक्षनेता जयरामठाकुरः अवदत् यत् प्रधानमन्त्रिण: नरेन्द्रमोदिन: नेतृत्वे केन्द्रसर्वकारः हिमाचलप्रदेशस्य रेलमार्गपरियोजनानां कृते प्रचुरं बजटं ददाति येन हिमाचलप्रदेशस्य रेलजालं यथासम्भवं सुदृढं विस्तारं च कर्तुं शक्यते। हिमाचलप्रदेशस्य रेलजालेन सह सम्पर्कः हिमाचलप्रदेशस्य विकासे महत्त्वपूर्णां भूमिकां निर्वहति। हिमाचलप्रदेशस्य रेलपरियोजनानां महत्त्वं प्रचुरं बजटं च दातुं प्रधानमन्त्रिणे नरेन्द्रमोदिने, भाजपादलस्य राष्ट्रीयाध्यक्षाय केन्द्रीयस्वास्थ्यमन्त्रिणे जगतप्रकाशनड्डावर्याय च, रेलमन्त्रिणे अश्विनीवैष्णवाय, सर्वेभ्य: केन्द्रीयनेतृभ्य: च असौ धन्यवादं दत्तवान्।

जयरामठाकुरः अवदत् यत् अस्मिन् समये हिमाचलप्रदेशस्य त्रयाणां रेलमार्गपरियोजनानां कृते केन्द्रसर्वकारेण २७१६ कोटिरूप्यकाणां बजटं दत्तम् अस्ति। यत् गतवर्षस्य बजटात् अधिकम् अस्ति। अस्मिन् समये बजटे हिमाचलप्रदेशे चत्वारि रेलस्थानकानि निर्मीयन्ते। केन्द्रसर्वकारः हिमाचलप्रदेशस्य रेलमार्गपरियोजनानां कृते निरन्तरं पूर्णसमर्थनं ददाति।

हिमाचलप्रदेशे रेलपरियोजनासु गतिहीनतायाः उत्तरदायी काङ्ग्रेसस्य सुक्खुसर्वकारः अस्ति। रेलवेतः पुनः पुनः अनुरोधाः पत्राणि च प्राप्य अपि सुक्खुसर्वकारः हिमाचलप्रदेशस्य १६२६ कोटिरूप्यकाणां भागं रेलवेमण्डलाय न ददाति। यस्य कारणात् एकतः हिमाचले रेलसंपर्कस्य विस्तारे विलम्बः भवति अपरतः च तासां परियोजनानां व्ययः वर्धमानः अस्ति वयं मुख्यमन्त्रिण: आग्रहं कुर्मः यत् हिमाचलप्रदेशस्य रेलमार्गपरियोजनानां त्वरिततायै हिमाचलसर्वकारस्य निर्धारितभागं यथाशीघ्रं मुक्तं करोतु।

जयरामठाकुरेण उक्तं यत् सामरिकरूपेण महत्त्वपूर्णानां भनुपल्ली-बिलासपुर-बैरी, नङ्गलबांध-तलवाड़ा चण्डीगढ-बद्दी रेलमार्गाणां निर्माणार्थं बजटस्य कोऽपि अभावः नास्ति। केन्द्रसर्वकारेण २०२४-२५ वर्षस्य अन्तरिमबजटे हिमाचलस्य रेलमार्गत्रयस्य कृते २५०० कोटिरूप्यकाणां प्रावधानं कृतम् आसीत् । तेषु अधिकतमं १७०० कोटिरूप्यकाणि भनुपल्ली-बिलासपुर-बैरी-रेलमार्गाय दत्तानि । नङ्गल-जलबन्ध-तलवाड़ायाः कृते ५०० कोटिरूप्यकाणि, चण्डीगढ-बद्दीक्षेत्राय च ३०० कोटिरूप्यकाणि दत्तानि । २०२३-२४ तमस्य वर्षस्य बजटे भनुपल्ली-बिलासपुर-बैरी-रेलमार्गस्य एकसहस्रकोटिरूप्यकाणां बजटं प्राप्तम्, परन्तु तस्य व्ययस्य विचारेण १३९९ कोटिरूप्यकाणां कृते संशोधनं कृतम् अस्ति ।

नङ्गलजलबन्ध-तलवाड़ाया: कृते गतबजटे ४५० कोटिरूप्यकाणि प्राप्तानि आसन्, चण्डीगढ-बद्दीक्षेत्राय अपि गतबजटे ४५० कोटिरूप्यकाणि प्राप्तानि आसन्। अधुना एतेषु त्रयेषु रेलमार्गेषु कार्यं अधिकं गतिं प्राप्स्यति यतः तेषां कृते बजटस्य प्रावधानं कृतम् अस्ति। हिमाचले ६३ किलोमीटर दीर्घस्य भनुपल्ली-बिलासपुर-रेलमार्गस्य, ८४ किलोमीटरदीर्घस्य नङ्गलजलबन्ध-तलवाड़ा, ३३ किल़मीटरदीर्घस्य बद्दी-चण्डीगढ-रेलमार्गस्य कार्याणि प्रचलन्ति। एतत् कार्यं तदा अधिकं गतिं प्राप्स्यति यदा हिमाचलप्रदेशसर्वकारः एतेषु परियोजनासु पूर्वनिर्धारितं भागं दास्यति।

 

Himachal News : माताश्रीनैनादेव्या: दर्शनार्थं प्राप्ता अभिनेतु: गोविन्दा-इत्यस्य पत्नी, स्वपुत्र्या सह पूजां कृतवती

हिमसंस्कृतवार्ता: – श्री नयना देवी जी। मंगलवासरे बालिवुडस्य प्रसिद्धस्य अभिनेतु: गोविन्दा-इत्स्य पत्नी सुनीता आहुजा स्वपुत्र्या टीना आहूजया सह मातु: दर्शनं कर्तुं प्रसिद्धं शक्तिपीठं माताश्रीनैनादेवीं प्राप्तवती। सः मातुः चरणौ प्रणम्य स्वस्य परिवारस्य च सुखसमृद्धिं प्रार्थितवती । मन्दिरस्य पुरोहितः अमितकुमारः सुनीता आहूजा तस्याः पुत्र्या सह पूजाविधिं कारितवान् । प्राचीने हवनकुण्डे च यज्ञं कृतम् । पुरोहित: अमितशर्मा माताश्रीनैनादेव्या: इतिहासस्य, चमत्कारस्य तथा मन्दिरे आयोज्यमानानां धार्मिककार्यक्रमाणां विषये विस्तृत सूचनां दत्तवान्।सुनीता आहुजायाः स्वागतं मन्दिरन्यासेन मातु: वस्त्रं प्रसादं च दत्त्वा अभवत् । तस्यै स्मृतिचिह्नमपि प्रदत्तम् ।

सुनीता आहूजा वार्तालापस्य समये अवदत् यत् सा प्रतिवर्षं माता चिन्तापूर्णी, ज्वाला जी, ब्रजेश्वरी मन्दिरं च गच्छति स्म, परन्तु माताश्रीनैनादेवीजी इत्यस्य दर्शनं सर्वदा स्मरति स्म। अस्मिन् समये सा माताश्री नैना देवी जी इत्यस्य दर्शनेन स्वयात्राम् आरब्धवती, येन सा मातुः आशीर्वादं प्राप्नुयात्, भविष्ये सर्वा: तीर्थयात्रा: अपि शुभा: भविष्यन्ति। सुनीता आहुजा मातृचरणयोः विधिपूर्वकं पूजां कृत्वा स्वपरिवारस्य सुखसमृद्धिं प्रार्थितवती ।

 

International Shivratri Fair Mandi : बड़ादेवकामरुनागः निमन्त्रणं प्राप्तवान्, २५ फरवरी दिनाङ्के भव्यसमागमः भविष्यति

हिमसंस्कृतवार्ता: – लघ्वीकाशी मण्डी।

मण्डी-जनपदस्य अन्ताराष्ट्रीय-महाशिवरात्रि-मेला-उद्घाटनार्थं उपायुक्तस्य निमन्त्रणं बड़ादेवकामरुनागः प्राप्तवान् २५ फरवरी दिनाङ्के मण्डीनगरे देवकमरुनागस्य राजदेवतामधोरायस्य च भव्यसमागमानन्तरं महाशिवरात्रिमहोत्सवस्य कार्याणि औपचारिकरूपेण आरभ्यन्ते।

देवता कदा स्वनिवासस्थानात् मण्डीनगरं प्रति गमिष्यति इति मन्दिरसमित्या अद्यापि तिथिः न निर्धारिता। महाशिवरात्रि मेला यावत् बड़ादेवकामरुनागः मण्डी न प्राप्नोति तावत् न आरभ्यते। बड़ादेवस्य परिचर्याकर्तृभिः मण्डीमहाशिवरात्रे: सज्जता आरब्धा अस्ति। देवस्य गुरुदेवीसिंहः कटवाल: कहानसिंहठाकुरः च २५ फरवरी दिनाङ्के मण्डीनगरे देवस्य आगमनस्य पुष्टिं कृतवन्तौ। देवतायाः मण्डी-नगरं प्राप्तुं सप्ताहाधिकं समयः भवति ।

जहलतः मण्डीपर्यन्तं विभिन्नेषु स्थानेषु अस्य देवतायाः भव्यं स्वागतं भवति । २५ फरवरी दिनाङ्के उपायुक्त: मण्डी बड़ादेवस्य स्वागतं पुलघराटे करिष्यति। तदनन्तरं मण्डीनगरे मण्डीराज्यस्य राजपरिवारेण अस्य देवतायाः स्वागतं भविष्यति तथा च देवकमरुनागस्य भगवतः माधोरायेन सह मेलनेन महाशिवरात्रिः आरभ्यते।

 

एकमासपर्यन्तं भविष्यति आतिथ्यकालः

आतिथ्यकाले देवकमरुनागः मण्डीमण्डले प्रायः एकमासपर्यन्तं तिष्ठति । शिवरात्रिमेलायां देवता भक्तानां गृहेषु गत्वा आशीर्वादं ददाति। महाशिवरात्रिमेलायां भगवान् कामरुनागः टारनामन्दिरे एकान्ते निवसति । अन्ये सर्वे देवाः पड्डलभूमौ निवसन्ति ।

You Might Also Like

पंचायतनिर्वाचने उच्चन्यायालयस्य निर्णयस्य अध्ययनं कुर्वन्नस्ति सर्वकार: – मुख्यमंत्री सुक्खुः

HP Govt Administrative Transfers – हिमाचले प्रशासनिकं परिवर्तनं गंधर्वराठौर: उपायुक्त: हमीरपुरं नियुक्त:

Mandi Bus Accident – मण्ड्यां निजीबसयानस्य दुर्घटना एका महिला मृता, चत्वारः यात्रिकाः घातिताः। Koldam Accident News- कोलबन्धजलाशये कारयानं पतितम्, द्वौ युवकौ मृतौ

हिमाचलप्रदेशेन भूटानदेशाय पाइन-नट-वृक्षा: उपहाररूपेण प्रदत्ता:। मुख्यमंत्री सुक्खुः हरित्ध्वजं प्रदर्श्य यानं प्रेषितवान्

इन्दिरागांधी-प्रियभगिनी-सुखसम्मान-निधियोजनाया: लंबितराशे: भुक्ति: शीघ्रमेव- मुख्यमंत्री सुक्खुः

TAGGED: Cm Sukhu, cmo himachal, cmo himachal Pradesh, CMSukhu, him sanskrit varta, him sanskritam, himachal abhi abhi, Himachal news, himachal update, himsanskrit varta, Himsanskritam, Himsanskritnews, himsanskritnews headlines, HP Government, HP NEWS, HPCM, hpgovt, National News, national News Headlines, News Headlines, अन्तर्राष्ट्रीय समाचार, दिव्य हिमाचल समाचार, मुख्य वार्ता, मुख्य समाचार, राष्ट्रीय समाचार, हिम संस्कृत वार्ताः, हिम संस्कृतम्, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः, हिमाचल अपडेट, हिमाचल अभी अभी, हिमाचल समाचार
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article अनुसन्धानसम्बद्धकार्यार्थं अनुदानं समर्पणम् डॉ नन्दितागोस्वमीमहोदयायाः महानुभावः
Next Article CM Sukhu : पूर्वसर्वकारः नूतनानां संस्थानां उद्घाटने केन्द्रितः आसीत्, परन्तु सुविधाः न प्रदत्ताः
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?