By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: CM Sukhu : पूर्वसर्वकारः नूतनानां संस्थानां उद्घाटने केन्द्रितः आसीत्, परन्तु सुविधाः न प्रदत्ताः
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > हिमाचलवार्ता > CM Sukhu : पूर्वसर्वकारः नूतनानां संस्थानां उद्घाटने केन्द्रितः आसीत्, परन्तु सुविधाः न प्रदत्ताः
हिमाचलवार्ता

CM Sukhu : पूर्वसर्वकारः नूतनानां संस्थानां उद्घाटने केन्द्रितः आसीत्, परन्तु सुविधाः न प्रदत्ताः

डॉ मनोज शैल
Last updated: 2025/02/05 at 5:56 PM
डॉ मनोज शैल
Share
4 Min Read
SHARE

CM Sukhu : पूर्वसर्वकारः नूतनानां संस्थानां उद्घाटने केन्द्रितः आसीत्, परन्तु सुविधाः न प्रदत्ताः

हिमसंस्कृतवार्ता: – शिमला । मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः विधायकप्राथमिकतासभायाः द्वितीयदिवसस्य प्रथमसत्रे शिमला-मण्डीजनपदयोः विधायकानां प्राथमिकताविषये चर्चां कृतवान्। मुख्यमन्त्री उक्तवान् यत् विधायकै: भविष्यस्य आह्वानानां अनुरूपं परामर्शा: दातव्याः, येन हिमाचलप्रदेशः आत्मनिर्भरः भवितुम् अर्हति। सः अवदत् यत् बजटे विधायकानाम् परामर्शानां कृते प्राधान्यं भविष्यति। विधायकाः जनैः निर्वाचिताः भवन्ति अतः ते जनानां समस्यानां विषये अवगताः भवन्ति। मुख्यमंत्री सुखविन्दरसिंहसुक्खुः अवदत् यत् वर्तमानस्य राज्यसर्वकारस्य शिक्षा-स्वास्थ्यक्षेत्रेषु विशेषं ध्यानं वर्तते। विगतवर्षद्वये राज्यसर्वकारेण एतयोः क्षेत्रयोः उन्नयनार्थं अनेकानि पदानि कृतानि, आगामिसमये अधिकानि परिवर्तनानि भविष्यन्ति।

सः अवदत् यत् पूर्वं राजनैतिकलाभानां कृते नूतनानां संस्थानां उद्घाटनस्य विषये बलं दत्तं किन्तु संस्थासु सुविधाः प्रदातुं तान् सुदृढं कर्तुं च कोऽपि ध्यानं न दत्तवान्, यस्मात् कारणात् अद्यत्वे सुविधानां स्तरः पतितः अस्ति। सः अवदत् यत् वर्तमानराज्यसर्वकारः स्वास्थ्यक्षेत्रे नूतनप्रौद्योगिक्याः उपयोगाय प्रयत्नान् कुर्वन् अस्ति। एतेन सह रिक्तपदानां पूरणस्य प्रक्रिया अपि प्रचलति, येन जनाः सुविधां प्राप्नुवन्ति। सः अवदत् यत् राज्यसर्वकारेण कृतानि पदानि आगामिषु समये सकारात्मकं परिणामं दर्शयिष्यन्ति।

मुख्यमन्त्री उक्तवान् यत् राज्यसर्वकारः नीतिपरिवर्तनं आनयन् हिमाचलप्रदेशस्य प्राकृतिकसौन्दर्यानुरूपं उद्योगानां प्रचारं करोति। राज्ये पर्यटनं, दुग्धं, सूचनाप्रौद्योगिकी, विवरण-भण्डारणं, खाद्य-प्रक्रियाकरणं च इत्यादयः अन्ये हरित-उद्योगाः प्रचारिताः सन्ति । सः अवदत् यत् रोहड़ू-चिडगांव-मार्गस्य स्थितिः सुदृढा भविष्यति। तेन सह कुरपनपेयजलयोजनायाः आरम्भार्थं धनं प्रदत्तं भविष्यति। २०२५ तमस्य वर्षस्य एप्रिल-मासस्य ३० दिनाङ्कपर्यन्तं एतां योजनां सम्पन्नं कर्तुं जलशक्तिविभागाय निर्देशं दत्तवान् । सः कृषिवनविभागं गग्रेटे वंश-आधारित-उद्योगस्य स्थापनायाः सम्भावनाः अन्वेष्टुं निर्देशितवान्।

 

हिमाचलप्रदेशे भाषा-गणितयोः शिक्षायाः स्तर: वर्धितः, शिक्षामंत्रिणे समर्पिता ASER प्रतिवेदनम्। 

 

हिमसंस्कृतवार्ता: डॉ पद्मनाभ: ।

शिमला । हिमाचलप्रदेशस्य राजकीयेषु विद्यालयेषु विद्यार्थिनां शिक्षणस्तरे उल्लेखनीयः विकास: दृष्टः। एषः निष्कर्षः प्रथम शिक्षाफाउंडेशनसंस्था द्वारा प्रकाशिते ASER 2024 प्रतिवेदने समुपस्थितः। प्रथमसंस्थायाः एतद् प्रतिवेदनं शिक्षामंत्रिणे रोहितठाकुराय समर्पितम्क अस्मिन् अवसरे समग्रशिक्षायाः राज्यपरियोजनानिदेशकः राजेश शर्मा विशेषरूपेण उपस्थितः आसीत्। शिक्षामंत्रिणा उक्तं यत् प्रदेशस्य शासनस्य प्रयासैः शिक्षायाः गुणवत्तायाः महानः विकास: जातः। सः ASER प्रतिवेदनस्य निष्कर्षान् प्रशंस्य मान्यते, तथा आगामिनि शैक्षिकसत्रे विकासात्मकं पद्धतिं स्वीकर्तुं संकल्पं कृतवान्। समग्रशिक्षानिदेशकः राजेश शर्मा अपि आश्वासयत् यत् विद्यार्थिनां शिक्षास्तरे अधिकं निदानं कर्तुं समग्रशिक्षायाः अधीनं व्यापककार्ययोजना निर्मास्यते।

तृतीयकक्ष्यायाः विद्यार्थिनां पठने क्षमतायाः द्विगुणः विकासः

एतद् प्रतिवेदनं प्रदर्शयति यत् हिमाचलप्रदेशस्य राजकीयविद्यालयेषु विद्यार्थिनां पठने क्षमतायां विशेषः विकास: अभवत्। वर्षे २०२२ यत्र केवलं २३.० प्रतिशतं तृतीयकक्ष्यायाः बालकाः द्वितीयकक्ष्यायाः स्तरस्य पाठं पठितुं शक्ताः, अद्य २०२४ वर्षे एषः संख्या द्विगुणीभूय ४६.६ प्रतिशतं जाता। एषा सिद्धिः सम्प्रति सम्पूर्णदेशे सर्वोच्चस्थले स्थितम्।

पञ्चमकक्ष्यायाः विद्यार्थिनां भाषा-पठने विकास: 

पठने क्षमतायाः सम्बन्धे राजकीय -विद्यालयानां पञ्चमकक्ष्यायाः विद्यार्थिनां अपि विशेषः विकासः दृष्टः। २०२२ तमे वर्षे ६०.२ प्रतिशतं विद्यार्थिनः द्वितीयकक्ष्यायाः स्तरस्य पाठं पठितुं शक्ताः, किन्तु २०२४ वर्षे एषः संख्या वर्धिता ६५.८ प्रतिशतं जाता। एतेन हिमाचलप्रदेशः देशस्य शीर्षराज्येषु गण्यते।

गणितेऽपि विद्यार्थिनां प्रदर्शनं उत्कृष्टम्

गणितविषयेऽपि हिमाचलप्रदेशस्य राजकीयविद्यालयानां विद्यार्थिनां महत्वपूर्णा प्रगतिः दृष्टा। २०२२ तमे वर्षे तृतीयकक्ष्यायाः केवलं ३१.३ प्रतिशतं बालकाः न्यूनीकरणस्य समस्याः समाधानं कर्तुं समर्थाः, किन्तु २०२४ तमे वर्षे एषा संख्या ४६.७ प्रतिशतं जाता, यत् गतद्विवर्षाभ्यन्तरे १५.४ प्रतिशतं वृद्धि: जाता।

एवमेव, पञ्चमकक्ष्यायाः विद्यार्थिनां विभाजनस्य समस्याः समाधानं कर्तुं क्षमतायामपि विकास: दृष्टः। २०२२ तमे वर्षे यत्र ३८.१ प्रतिशतं छात्राः गणितस्य भागक्रियां सम्पादयितुं समर्थाः, अद्य २०२४ तमे वर्षे एषा संख्या ४४ प्रतिशतं जाता, यत् ५.९ प्रतिशतस्य वृद्धिः।

 

ASER सर्वेक्षणे हिमाचलप्रदेशस्य ११,४२१ बालकाः सम्मिलिताः

प्रथमसंस्थायाः द्वारा सञ्चालिते ASER सर्वेक्षणे २०२४ तमे वर्षे सितम्बर-अक्टूबरमासयोः सम्पूर्णदेशस्य ६०५ जनपदानां ग्रामीणक्षेत्रे ३-१६ वर्षवयस्काः ६,४९,४९१ बालकाः सम्मिलिताः। तत्र हिमाचलप्रदेशे ११,४२१ बालकाः भागं गृहीतवन्तः। एतद् प्रतिवेदनम् अस्मिन प्रदेशे विद्यालयेषु आधारभूतसुविधासु अपेक्षितः सुधारः अपि जात इति निर्दिशति।

You Might Also Like

पंचायतनिर्वाचने उच्चन्यायालयस्य निर्णयस्य अध्ययनं कुर्वन्नस्ति सर्वकार: – मुख्यमंत्री सुक्खुः

HP Govt Administrative Transfers – हिमाचले प्रशासनिकं परिवर्तनं गंधर्वराठौर: उपायुक्त: हमीरपुरं नियुक्त:

Mandi Bus Accident – मण्ड्यां निजीबसयानस्य दुर्घटना एका महिला मृता, चत्वारः यात्रिकाः घातिताः। Koldam Accident News- कोलबन्धजलाशये कारयानं पतितम्, द्वौ युवकौ मृतौ

हिमाचलप्रदेशेन भूटानदेशाय पाइन-नट-वृक्षा: उपहाररूपेण प्रदत्ता:। मुख्यमंत्री सुक्खुः हरित्ध्वजं प्रदर्श्य यानं प्रेषितवान्

इन्दिरागांधी-प्रियभगिनी-सुखसम्मान-निधियोजनाया: लंबितराशे: भुक्ति: शीघ्रमेव- मुख्यमंत्री सुक्खुः

Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article Himachal News : हिमाचलस्य प्रमुखा वार्ता:
Next Article दिल्लीमतदानम्-ः ५७.८९ प्रतिशतं मतदानेन दिल्लीविधानसभानिर्वाचनस्य सर्वेषु ७० आसनेषु मतदानं सम्पन्नम्,
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?