अनुसन्धानसम्बद्धकार्यार्थं अनुदानं समर्पणम्
डॉ नन्दितागोस्वमीमहोदयायाः महानुभावः
वार्ताप्रेरकः नयनज्योतिशर्मा, गुवाहाटी
अद्य ०४/०२/२०२५ तमे दिनाङ्के कुमारभास्करवर्मसंस्कृतपुरातनाध्ययनविश्वविद्यालयस्य कार्यकारी-परिषदः सदस्या तथा गुवाहाटीस्थ कटनमहाविद्यालयस्य प्राक्तन-उपाध्यक्षा डॉ नन्दितागोस्वमीमहोदया संस्कृतमातुः सेवार्थम् इत्युक्ते अनुसन्धानकार्यार्थम् उपयोगहेतुः ₹२०००००/= (द्विलक्षरूप्यकानि) अर्थसाहार्यं कुलपति प्रो. प्रह्लाद रा. जोशीवर्याय दत्तवती। महोदयायाः एतादृशिकार्यं सजाजहिताय तथा प्रेरणादायकत्वेन इति मत्वा विश्वविद्यालयपक्षतः कुलपतिना तां प्रति धन्यवादं विज्ञापितवान्। वौद्धिकसमाजेऽपि गोस्वामीवर्यायाः कार्यमिदं सर्वस्तरं प्रशंस्यन्ते।