By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: KKSU Ramtek : विश्वस्य विभिन्नसंस्कृतौ मानवकल्याणस्य विचारः महत्त्वपूर्णः अस्ति – प्रो. यशवंतपाठक:
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > वित्तीयवार्ता > Computer > KKSU Ramtek : विश्वस्य विभिन्नसंस्कृतौ मानवकल्याणस्य विचारः महत्त्वपूर्णः अस्ति – प्रो. यशवंतपाठक:
ComputerUncategorizedउत्तराखण्डवार्ताःपञ्चागम्प्रादेशिकवार्ताबोधकथाराजनैतिक वार्तावित्तीयवार्तासंस्कृतगतिविधयःसंस्कृतबोधकथा

KKSU Ramtek : विश्वस्य विभिन्नसंस्कृतौ मानवकल्याणस्य विचारः महत्त्वपूर्णः अस्ति – प्रो. यशवंतपाठक:

डॉ मनोज शैल
Last updated: 2024/12/06 at 11:20 PM
डॉ मनोज शैल
Share
2 Min Read
SHARE

KKSU Ramtek : विश्वस्य विभिन्नसंस्कृतौ मानवकल्याणस्य विचारः महत्त्वपूर्णः अस्ति – प्रो. यशवंतपाठक:

हिमसंस्कृतवार्ता: – रामटेकम्।

कविकुलगुरुकालिदाससंस्कृत- विश्वविद्यालय:, अन्ताराष्ट्रीय- सांस्कृतिकाध्ययनकेन्द्रम् इत्यस्य आश्रयेण शुक्रवासरे विशेषव्याख्यानस्य आयोजनं कृतम्। अस्य विशेषव्याख्यानस्य आयोजनं विश्वविद्यालयस्य अन्ताराष्ट्रीयकार्यकेन्द्रेण कृतम्। कुलपति: प्रो. हरेरामत्रिपाठी व्याख्यानकार्यक्रमस्य अध्यक्षता अकरोत्। अमेरिकादेशस्य दक्षिणफ्लोरिडा- विश्वविद्यालयस्य अन्ताराष्ट्रीय- सांस्कृतिकाध्ययनकेन्द्रस्य संस्थापकः प्राध्यापकः यशवन्तपाठकः मुख्यवक्ता आसीत्। रामटेकपरिसरस्य निदेशक प्रो. हरेकृष्ण अगस्ती, वित्त-लेखाधिकारी प्रो. कविता होले अन्ताराष्ट्रीय- सांस्कृतिक- अध्ययनकेन्द्रस्य राष्ट्रीयसमन्वयक: संदीप: कविश्वर:, व्याख्यानकार्यक्रमस्य समन्वयक: अन्ताराष्ट्रीयकार्याणां केन्द्रस्य निदेशकः च आचार्य: प्रसादगोखले विशेषतया उपस्थितः आसीत्। दीपप्रज्वलनेन कार्यक्रमस्य आरम्भः अभवत्। अन्ताराष्ट्रीयकार्याणां केन्द्रस्य निदेशकः प्राध्यापक: प्रसाद गोखलेः प्रास्ताविकं कृतवान्। विश्वसंस्कृतेः वैश्विकचिन्तनस्य च अवगमनाय एतत् व्याख्यानम् आयोजितम् इति उक्तवान्। अस्मिन् अवसरे अन्ताराष्ट्रीय- सांस्कृतिक- अध्ययनकेन्द्रस्य राष्ट्रियसमन्वयकः संदीप कविश्वरः स्वस्य इच्छां प्रकटितवान् यत् अन्ताराष्ट्रीय- सांस्कृतिक- अध्ययनकेन्द्रस्य पाठ्यक्रमाः विश्वविद्यालयेन एव सज्जीकृत्य कार्यान्विताः भवेयुः।

 

Nurturing the Roots – World Scenario अर्थात् मूलानां पोषणम्– विश्व परिदृश्यम्, अस्मिन् विषये प्रो. पाठकः व्याख्यानं दत्तवान् यत् शोधप्रयोजनार्थं विश्वस्य परिभ्रमणस्य अनुभवः विभिन्नदेशानां संस्कृतिं परम्परां च अवगन्तुम् उपयोगी भवति। पाठकः अवदत् यत् सम्पूर्णस्य विश्वस्य संस्कृतिः केवलं मानवकल्याणस्य विषये एव चिन्तयति। अस्माकं भारतीयसंस्कृतेः काश्चन् रीति- परम्पराभि: च सह विश्वस्य केषाञ्चन संस्कृतिनां सादृश्यम् आश्चर्यं जनयति। संस्कृत- विश्वविद्यालयस्य छात्राः न केवलं संस्कृतभाषायां प्रवीणाः भूत्वा विश्वस्य शीर्षशतविश्वविद्यालयेषु अध्यापनं कुर्वन्तु अपि तु विदेशेषु जनान् संस्कृतं पाठयितुं अपि गन्तव्याः। मम विश्वासः अस्ति यत् आगामिषु १० वर्षेषु कालिदास- संस्कृत- विश्वविद्यालयस्य छात्राः भारतस्य विदेशेषु च विश्वविद्यालयेषु प्राध्यापकपदे नियुक्ताः भविष्यन्ति। अस्माभिः संस्कृतिः, परम्पराः, विज्ञानं, तथैव शोधं च पाठयितुम् अस्माकं भारतीयमानकानि सज्जीक्रियन्ते। पाठकः अस्माकं पद्धत्या मानकानुसारं विदेशीयछात्रेभ्यः अस्माकं विज्ञानं पाठयेत् इति बोधयति स्म।

अध्यक्षीये सम्बोधने कुलपति प्रो. हरेराम त्रिपाठी इत्यनेन उक्तं यत् यशवन्तपाठक: अस्माकं मार्गदर्शनं कृत्वा आश्वासनं दत्तवान् यत् वयं द्वाभ्यां विश्वविद्यालयाभ्यां सह मिलित्वा विविधाः पाठ्यक्रमाः परियोजनाश्च कार्यान्वितुं प्रतिबद्धाः स्मः। एमओयू मार्गेण पाठ्यक्रमाः संचालिताः भविष्यन्ति। भारतीयसंस्कृतेः, तस्याः समृद्धधरोहराणां, वैज्ञानिकपरम्परायाः च वैश्विकमञ्चे नेतुम् छात्राः शिक्षकाः च उत्तमं कार्यं कुर्वन्तु इति सः बोधयति स्म। भारतस्य सांस्कृतिकसम्पदः अस्माकं गौरवः अस्ति, अस्माकं गौरवः अस्माकं कार्येषु, वचनेषु च प्रतिबिम्बितः भवेत्।

You Might Also Like

संस्कृतभारत्या अखिलभारतीयशलाकपरीक्षा देहल्यां सम्पन्ना

केन्द्रीय-संस्कृत-विश्वविद्यालयस्य कुलपतिः प्रो. श्रीनिवासवरखेड़ी ‘संस्कृतात्मा-पुरस्कारेण’ सम्मानितः

GDP-: देशस्य अर्थव्यवस्थायां ८.१ प्रतिशतं वृद्धिः: एसबीआई-संस्थायाः प्रतिवेदनम्

रामटेके भरतमुनि-ललितकला-केन्द्रेण गायन-प्रतियोगितायाः सफलं आयोजनम्

हेमवतीनन्दनबहुगुणागढ़वाले केन्द्रीयविश्वविद्यालये पौडीसंस्कृतविभागे “वैश्वीकरणस्य नैतिकता” विषयेस्मिन् व्याख्यानम्

TAGGED: him sanskrit varta, him sanskritam, himachal abhi abhi, Himachal news, himachal update, himsanskrit varta, Himsanskritam, Himsanskritnews, HP NEWS, KKSU Ramtek, sanskrit University, कविकुलगुरुकालिदाससंस्कृतविश्वविद्यालय, दिव्य हिमाचल समाचार, हिम संस्कृत वार्ताः, हिम संस्कृतम्, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः, हिमाचल अपडेट, हिमाचल अभी अभी, हिमाचल समाचार
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article Shimla News: चमियानायां ओपीडी- सज्जताविषये शपथपत्रं दद्यात् चिकित्साधीक्षकः, उच्चन्यायालयस्य आदेशः
Next Article KKSU Ramtek : सीवेजशुद्धिकरणपरियोजनाया: भूमिपूजनं सम्पन्नम्
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?