KKSU Ramtek: कविकुलगुरु- कालिदास- संस्कृतविश्वविद्यालये आयोज्यते शास्त्रभारती- व्याख्यानमाला
हिमसंस्कृतवार्ता:- रामटेक:।
कविकुलगुरु- कालिदास- संस्कृत- विश्वविद्यालयेन भारतीयदर्शन- योगविभाग- सहकारेण शास्त्रभारती- व्याख्यानमाला आयोज्यते। इयं व्याख्यानमाला ४ दिसम्बर २०२४ दिनाङ्के प्रातः ११.३० वादने डॉ. तोतडे सभागारे भविता। विश्वविद्यालयस्य संपर्काधिकारी अवदत् यत् शास्त्रभारती- व्याख्यानमाला कुलपते: प्रो. हरेरामत्रिपाठिण: मार्गदर्शने आयोज्यते। शास्त्रभारती- व्याख्यानमाला भारतीयदर्शनविभागेन आयोजिता सतत् व्याख्यानमाला वर्तते, यस्मिन् दर्शनशास्त्रस्य विभिन्नविषयेषु व्याख्यानानाम् आयोजनं क्रियते। अस्यां व्याख्यानमालायाम् अन्ताराष्ट्रीयप्रसिद्धः न्यूरोलॉजिस्ट: योगचिकित्सकः डॉ. महेश करंदीकर: मुख्यवक्ता अस्ति। विगत ३० वर्षेभ्यः नासिके न्यूरोलॉजिस्टरूपेण कार्यं कुर्वन् महाराष्ट्रस्य नासिके प्रथमम् अत्याधुनिकं मस्तिष्कशल्यक्रियां कृतवान् डॉ. करंदीकर: रोगिणां परामर्शं दत्त्वा योगं प्रति गतवान्। मस्तिष्कस्य शल्यक्रियाः, ये अतीव जटिलाः सुकुमाराः च सन्ति, शरीरस्य मनसः च स्वास्थ्याय च शल्यक्रियायाः अनन्तरं जीवितुं रोगिणः शक्तिं आत्मविश्वासं च दातुं योगम् अपि शिक्षयति स्म। डॉ. करंदीकर: “आधुनिकं मस्तिष्कविज्ञानं योगश्च” इति विषये व्याख्यानं दास्यति। अस्य व्याख्यानमालाया: अध्यक्षता कुलपति: प्रो. हरेराम त्रिपाठी करिष्यति अस्य व्याख्यानकार्यक्रमस्य संयोजकः कुलसचिव: डॉ. देवानंदशुक्ल:, रामटेकपरिसरस्य च निदेशक: प्रो. हरेकृष्ण अगस्ती विशेषेण उपस्थितौ भविष्यत:।
विस्तारसेवामण्डलस्य निदेशक: आचार्य: कृष्णकुमारपाण्डेय: अपि उपस्थित: भविष्यति। कार्यक्रमे संस्कृतसप्ताहस्य अन्तर्गतं भारतीयदर्शनविभागेन आयोजितानां प्रतियोगितानां पुरस्कारवितरणं भविष्यति। एतेन सह राष्ट्रिय- अन्ताराष्ट्रीयस्तरयोः पुरस्कारं प्राप्तानां योगविभागस्य छात्राणाम् अपि सम्माननं भविष्यति।
अस्य कार्यक्रमस्य समन्वयक: प्रो. कलापिनी अगस्ति अधिष्ठाता भारतीयधर्मदर्शन एवं संस्कृतिसंकाय: समन्वयक: डॉ. सचिन द्विवेदी, सहसंयोजक: डॉ. सचिन डावरे सन्ति।