मुख्यमन्त्रिण: हमीरपुराय शिक्षायै स्वास्थ्याय च महान् उपहार:, उद्घाट्यते हिमाचलस्य प्रथम: विज्ञानमहाविद्यालय:
हिमसंस्कृतवार्ता: – हमीरपुरम्।
मुख्यमन्त्री ठाकुरसुखविन्दरसिंहसुक्खुः शुक्रवासरे हमीरपुराय शिक्षायाः, स्वास्थ्यस्य विकासस्य च क्षेत्रेषु अनेकान् महत्त्वपूर्णान् उपहारान् प्रदत्तवान्। तेन हिमाचलप्रदेशस्य प्रथमं विज्ञानमहाविद्यालयं हमीरपुरे उद्घाटयितुं घोषणा कृता। प्रायः १०० कोटिरूप्यकाणां व्ययेन निर्मीयमाणस्य अस्य महाविद्यालयस्य कृते ८० कनाल्-परिमिता भूमिः चिह्निता अस्ति तथा च परियोजनायै २० कोटिरूप्यकाणि निर्गतानि सन्ति।
मुख्यमन्त्रिणा हमीरपुरे सहायक-स्वास्थ्यसेवा-महाविद्यालयस्य स्थापनस्य घोषणापि कृता। तदतिरिक्तं जनपदे ७४ एकड़-परिमितायां भूमौ एम्स-स्तरीयस्य आयुर्वेदिक-संस्थानस्य स्थापना करिष्यते। मुख्यमन्त्री हमीरपुर-राजकीय-महाविद्यालयस्य वार्षिक-पुरस्कार-वितरण-समारोहे मुख्यातिथिरूपेण उपस्थितः आसीत्। अस्मिन् अवसरे तेन विभिन्नेषु क्षेत्रेषु उत्कृष्टं प्रदर्शनं कृतवन्तः विद्यार्थिनः सम्मानिताः।
मुख्यमन्त्रिणा उक्तं यत् काङ्गड़ां प्रदेशस्य पर्यटनराजधानीरूपेण तथा हमीरपुरं शिक्षाराजधानीरूपेण विकसितं क्रियते। हमीरपुरस्य विद्यार्थिनः सम्पूर्णदेशे प्रदेशस्य नाम गौरवान्वितं कुर्वन्ति। सर्वकारस्य सर्वोच्चं प्राधान्यम् विद्यार्थिभ्यः गुणवत्तापूर्णशिक्षां प्रदातुम् अस्ति।
शिक्षाव्यवस्थायां परिष्कारस्य पक्ष:
मुख्यमन्त्रिणा उक्तं यत् वर्षे २०२१ तमे हिमाचलप्रदेशः गुणवत्तापूर्णशिक्षायाः विषये २१ तमे स्थाने आसीत्, किन्तु वर्तमानसर्वकारेण कृतेषु विकासकार्येषु अनन्तरं प्रदेशः अधुना पञ्चमे स्थाने प्राप्तः अस्ति। तेन उक्तं यत् सर्वकाराः आगच्छन्ति गच्छन्ति च, किन्तु ग्रामेषु पठद्भभ्यः बालकेभ्यः गुणवत्तापूर्णशिक्षा अवश्यं प्रापणीया।
ग्रामीणविद्यार्थिभ्यः गृहस्य समीपे उत्तमशिक्षां प्रदातुं प्रदेशे १५६ तः अधिकाः सीबीएसई-विद्यालयाः उद्घाटिताः सन्ति। एतेषां विद्यालयानां प्रारम्भानन्तरं विद्यार्थिनां नामाङ्कने प्रायः २४ सहस्राणां वृद्धिः अभवत्। एतेषां सञ्चालनाय आधारभूतसंरचनायै च ८० कोटिरूप्यकाणि निर्गतानि सन्ति।
मुख्यमन्त्रिणा उक्तं यत् उच्चशिक्षायां शिक्षकाणां न्यूनतां दूरीकर्तुं सर्वकारः नीतिं निर्माति। उपलब्धसंसाधनानां उत्तमोपयोगाय महाविद्यालयानां युक्तिकरणमपि करिष्यते। युवभ्यः सर्वकारीयक्षेत्रे जीविकाया: अवसरान् प्रदातुं राज्यचयनायोगस्य हिमाचलप्रदेशलोकसेवायोगस्य च माध्यमेन चयन-परीक्षाः आयोज्यन्ते।
नियुक्ति-परीक्षासु पारदर्शिताया: विश्वास:
सुक्खुना उक्तं यत् वर्तमानसर्वकारस्य कार्यकाले एकस्यामपि चयन-परीक्षायाः प्रश्नपत्रं प्रकटितं न अभवत्। तेन पूर्ववर्तिन्याः भाजपासर्वकारस्य कार्यकाले प्रकाशं गतानां पुलिसनियुक्तिसम्बद्धानां तथा कर्मचारीचयनायोगसम्बद्धानां प्रश्नपत्र-प्रकटन-प्रकरणानां उल्लेखः कृतः।
तेन उक्तं यत् कांग्रेस-सर्वकारस्य सत्तायाम् आगमनानन्तरं कर्मचारीचयनायोगः विघटितः तथा चयन-परीक्षायाः प्रश्नपत्रं प्रकटन- कर्तॄन् कारागारे प्रेषिताः। अनेकेषु नियुक्ति-प्रकरणेषु अनिवार्य-साक्षात्कारः समाप्तः कृत्वा योग्यताधारित-चयनव्यवस्था प्रवर्तिता अस्ति।
