By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: ६ वर्षाणां परं ‘शिपकी-ला’-गिरिद्वारेण पुनः आरप्स्यते भारत-चीन-सीमा-व्यापारः
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > राष्ट्रीयवार्ताः > ६ वर्षाणां परं ‘शिपकी-ला’-गिरिद्वारेण पुनः आरप्स्यते भारत-चीन-सीमा-व्यापारः
राष्ट्रीयवार्ताःहिमाचलवार्ता

६ वर्षाणां परं ‘शिपकी-ला’-गिरिद्वारेण पुनः आरप्स्यते भारत-चीन-सीमा-व्यापारः

डॉ मनोज शैल
Last updated: 2026/07/30 at 10:47 PM
डॉ मनोज शैल
Share
2 Min Read
SHARE

६ वर्षाणां परं ‘शिपकी-ला’-गिरिद्वारेण पुनः आरप्स्यते भारत-चीन-सीमा-व्यापारः

हिमसंस्कृतवार्ता: — रिकांग पिओ।

 

किन्नौर-मण्डलस्य शिपकी-ला-गिरिद्वारस्य (दर्रे के) माध्यमेन भारत-चीनयोः मध्ये भवितव्यः सीमा-व्यापारः १ अगस्त-दिनाङ्कात् पुनः आरब्धुं गच्छति। २०१९ तमे वर्षे कोविड-१९ महामारी-काले स्थगितः एषः व्यापारः प्रायः ६ वर्षाणां दीर्घान्तरालात् परं पुनः पुनर्स्थापित: भवन् अस्ति। उपायुक्त: किन्नौर डॉ. अमितकुमारशर्मा ज्ञापितवान् यत् २०२६ तमस्य अस्य व्यापारिक-ऋतोः (Season) कृते सर्वाः आवश्यकाः सज्जता: पूर्णाः संजाताः। व्यापाराणां ‘ट्रेड-पास’ (Trade Pass) सम्बद्धा सुरक्षा-स्वीकृतिः पूर्ववृत्त-सत्यापनस्य प्रक्रिया च सम्पन्ना अभवत्।

उपायुक्त-महोदयेन प्रोक्तं यत् प्रथमे चक्रे (दौर में) प्रायः १५ तः १७ व्यापारिणाम् सीमा-पारं गमनस्य सम्भावना अस्ति। प्रसारितेन दिशानिर्देशानुसारम्, चीन-देशस्य सीमायां प्रवेशं कुर्वद्भिः व्यापारीभिः ७२ होराभ्यन्तरे प्रत्यावर्तनम् अनिवार्यं भविष्यति। २.५८ कोटि-रूप्यकाणां व्ययेन निर्मितस्य अस्य ‘ट्रेडमार्ट’ (Trade Mart) इत्यस्य औपचारिकम् उद्घाटनं मन्त्रिमण्डल-मन्त्रिणा जगतसिंहनेगी-महोदयेन करिष्यते। अस्मात् आधुनिकात् ‘ट्रेडमार्ट’-माध्यमेन स्थानीय-व्यापारिभ्यः व्यापारे महती सुविधा लप्स्यते। विदेश-व्यापार-महानिदेशालयस्य वाणिज्य-सीमा-शुल्क-मन्त्रालयस्य च सूच्याः अनुसारं आहत्य ३६ भारतीय-वस्तूनि चीन-देशं प्रति निर्यातुं शक्ष्यन्ते, यदा च चीन-देशस्य पक्षतः २० वस्तूनि भारतीय-विपण्याम् (बाजार में) आगन्तुं शक्ष्यन्ति।

तेन कथितं यत् क्षेत्रे ‘सङ्गरोध-केन्द्रम्’ (Quarantine Centre) इत्यस्य स्थापना न भवतः कारणेन अस्मिन् ऋतौ ‘जीवित-पशूनाम् (लाइव-एनिमल्स) व्यापारः न भवितुं शक्ष्यति। ‘वाइब्रैंट-विलेज-स्कीम’ इत्यस्य अन्तर्गतं ‘क्वारंटीन-सैंटर’ इत्यस्य प्रस्तावः प्रेषितः अस्ति। एतद् केन्द्रम् सिद्धे सति अस्मात् मार्गात् पशूनां व्यापारः अपि सम्भवः भवितुं शक्ष्यति। उपायुक्त: डॉ. अमितकुमारशर्मा आशाम् अकरोत् यत् २०२६ तमस्य ऋतोः एषः व्यापारः न केवलं स्थानीय-व्यापारिभ्यः अत्यधिकं लाभदायकः सिद्धः भविष्यति, अपितु किन्नौरस्य अर्थनीतेः समग्र-अर्थव्यवस्थायाः च कृते अपि नूतनां शक्तिं प्रदास्यति।

You Might Also Like

हिमाचलस्य सर्वकारीय-कर्मचारिभ्यः महती सहायता, अध्ययन-अवकाश-काले लप्स्यते पूर्णं वेतनं देयाः लाभाश्च

Kinnaur Kailash Yatra 2026 – किन्नौर-कैलाश-यात्रा आरब्धा, प्रथमे दिने १०७ भक्ताः प्रस्थिताः

हिम-बस-प्लस्-कार्ड’ इति माध्यमेन लाभान्विताः भविष्यन्ति लक्षाधिक-यात्रिणः, देहली-मेट्रो, पञ्जाब-हरियाणा-राज्ययोः बस-यानेषु अपि चलिष्यति एतद् यात्रापत्रम्

जयरामठाकुरस्य सुक्खू-सर्वकारस्य उपरि प्रहारः, ‘नियुक्ति; एवं सेवा शर्ताः’ नियमे सर्वोच्च-न्यायालयस्य निर्णयस्य कृतं स्वागतम्

राहुलगान्धी सदनस्य गरिमां पातयित्वा देशं भ्रामयितुं राजनीतिं करोति – अनुरागठाकुर:

TAGGED: him sanskrit varta, him sanskritam, himachal abhi abhi, Himachal news, himachal update, himsanskrit varta, Himsanskritam, Himsanskritnews, himsanskritnews headlines, HP NEWS, National News, national News Headlines, News Headlines, अन्तर्राष्ट्रीय समाचार, दिव्य हिमाचल समाचार, मुख्य वार्ता, मुख्य समाचार, राष्ट्रीय समाचार, हिम संस्कृत वार्ताः, हिम संस्कृतम्, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः, हिमाचल अपडेट, हिमाचल अभी अभी, हिमाचल समाचार
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article जयरामठाकुरस्य सुक्खू-सर्वकारस्य उपरि प्रहारः, ‘नियुक्ति; एवं सेवा शर्ताः’ नियमे सर्वोच्च-न्यायालयस्य निर्णयस्य कृतं स्वागतम्
Next Article हिम-बस-प्लस्-कार्ड’ इति माध्यमेन लाभान्विताः भविष्यन्ति लक्षाधिक-यात्रिणः, देहली-मेट्रो, पञ्जाब-हरियाणा-राज्ययोः बस-यानेषु अपि चलिष्यति एतद् यात्रापत्रम्
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Register Lost your password?