By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: जयरामठाकुरस्य सुक्खू-सर्वकारस्य उपरि प्रहारः, ‘नियुक्ति; एवं सेवा शर्ताः’ नियमे सर्वोच्च-न्यायालयस्य निर्णयस्य कृतं स्वागतम्
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > राजनैतिकवार्ता > जयरामठाकुरस्य सुक्खू-सर्वकारस्य उपरि प्रहारः, ‘नियुक्ति; एवं सेवा शर्ताः’ नियमे सर्वोच्च-न्यायालयस्य निर्णयस्य कृतं स्वागतम्
राजनैतिकवार्ताहिमाचलवार्ता

जयरामठाकुरस्य सुक्खू-सर्वकारस्य उपरि प्रहारः, ‘नियुक्ति; एवं सेवा शर्ताः’ नियमे सर्वोच्च-न्यायालयस्य निर्णयस्य कृतं स्वागतम्

डॉ मनोज शैल
Last updated: 2026/07/29 at 9:23 PM
डॉ मनोज शैल
Share
2 Min Read
SHARE

जयरामठाकुरस्य सुक्खू-सर्वकारस्य उपरि प्रहारः, ‘नियुक्ति; एवं सेवा शर्ताः’ नियमे सर्वोच्च-न्यायालयस्य निर्णयस्य कृतं स्वागतम्

हिमसंस्कृतवार्ता: – शिमला। 

नियुक्ति: एवं सेवा शर्ताः नियमः-२०२४ इति आदाय सर्वोच्च-न्यायालयस्य निर्णयात् परं प्रतिपक्षनेता पूर्वमुख्यमन्त्री च जयरामठाकुरः प्रदेशसर्वकारस्य उपरि तीक्ष्णम् आक्रमणम् अकरोत्। शिमलातः प्रसारिते वक्तव्ये तेन उक्तं यत् सर्वोच्च-न्यायालयस्य पक्षतः राज्यसर्वकारस्य विशेष-अनुमति-याचिकायाः (SLP) निरसनं सुक्खू-सर्वकारस्य “असंवैधानिक-नीतेः” उपरि कठोरम् उत्तरम् अस्ति।

जयरामठाकुरेण प्रोक्तं यत् इतः पूर्वं हिमाचलप्रदेश-उच्चन्यायालयः अपि एतं नियमं निरस्तवान् आसीत्। एतस्य निर्णये सत्यपि राज्यसर्वकारेण सर्वोच्च-न्यायालये आह्वानं (चुनौती) दत्तम्, परन्तु तत्रापि तस्मै कापि साहाय्यता न प्राप्ता। तेन कथितं यत् सर्वकारः कर्मचारिणां हितैषी इति पक्षं करोति, यदा च तस्य निर्णयाः कर्मचारिणाम् अधिकारान् प्रभावितान् कुर्वन्तः सन्ति।

तेन आरोपः कृतः यत् सर्वकारेण ‘भर्ती एवं सेवा शर्ताः’ नियमम् आनीय कर्मचारिणां वरिष्ठतायाः आर्थिक-लाभानां च सम्बद्धानि उत्तरदायित्वाणि भविष्यस्य सर्वकारेषु स्थापयितुं प्रयासः कृतः। भाजपा-दलेन विधानसभायाम् अपि अस्य विधेयकस्य विरोधः कृतः आसीत् एतत् असंवैधानिकम् इति प्रोक्तम् आसीत्।

 

सर्वकारस्य अन्येषु निर्णयेषु अपि उत्थापिताः प्रश्नाः

प्रतिपक्षनेत्रा कथितं यत् एषः प्रथमः अवसरः नास्ति यदा राज्यसर्वकारस्य कस्यापि निर्णयस्य उपरि न्यायालयेन आपत्तिः प्रकटीकृता स्यात्। तेन पक्ष: कृतः यत् इतः पूर्वं विद्रोही-विधायकानां (बागी) पेंशन-सम्बद्धेषु नियमेषु, जल-आयोगे (Water Commission), मुख्य-संसदीय-सचिवस्य (CPS) नियुक्तिषु, विद्युत्-दरेषु पञ्चायत-निर्वाचनेषु च सम्बद्धेषु प्रकरणेषु अपि सर्वकाराय न्यायालयेषु प्रत्याघात: प्राप्तः। तेन आरोपः कृतः यत् एतेषां प्रकरणानां विधि-युद्धे सर्वकारीय-धनस्य व्यापकः उपयोगः अभवत्।

 

सर्वस्मिन् विषये भाजपा-दलाय दोष-प्रदानं मुख्यमन्त्रिणः अभ्यासः’

जयरामठाकुरेण मुख्यमन्त्रिणं सुखविन्दरसिंहसुक्खू-महोदयं प्रति लक्ष्यं कुर्वता कथितं यत् सर्वकारः स्वस्य प्रत्येकं विफलतायै भाजपा-दलं उत्तरदायिनं विधातुं प्रयासम् करोति। तेन प्रोक्तं यत् मुख्यमन्त्रिणः सम्पत्तिम् आदाय सम्मुखम् आगता सूचना कस्यापि स्वतन्त्र-संस्थया सार्वजनिक-विवरणानाम् आधारेण निर्मिता आसीत् तस्याः च भाजपा-दलेन सह कश्चिद् सम्बन्धः नास्ति।

 

परीक्षा-नियम-संशोधन-विधेयकस्य कृतं स्वागतम्

लोकसभायां सार्वजनिक-परीक्षा (अनुचित-साधनानां निवारणम्) संशोधन-विधेयकम्-२०२६ पारितस्य स्वागतं कुर्वन् जयरामठाकुरेण प्रोक्तं यत् एतत् पदं परीक्षाप्रणाल्यां पारदर्शितां निष्पक्षतां च सुदृढां करिष्यति। तेन कथितं यत् अनेन प्रश्नपत्र-प्रकटन (पेपर लीक) सदृशीनां घटनानां रोधने यूनाम् भविष्यस्य सुरक्षायां च साहाय्यं लप्स्यते। तेन अस्यै पहिल्यै प्रधानमन्त्रिणे नरेन्द्रमोदिने केन्द्रसर्वकाराय च वर्धापनानि दत्तानि।

You Might Also Like

राहुलगान्धी सदनस्य गरिमां पातयित्वा देशं भ्रामयितुं राजनीतिं करोति – अनुरागठाकुर:

त्रिषु वर्षेषु खनिजेभ्यः प्राप्ते राजस्वे ७०% वृद्धि:, मुख्यमंत्रिणा सुक्खुना अवैध-खनने शून्य-सहनशीलतायै निर्देशाः दत्ताः

कर्मचारिणां वरिष्ठता-प्रकरणे हिमाचल-सर्वकाराय सर्वोच्च-न्यायालयात् प्रत्याघात:, विशेष-अनुमति-याचिका (SLP) निरस्ता

भाजपा-दलस्य राज्यसभा-सांसदेन हर्षमहाजनेन सह गृह मन्त्रिणः अमितशाहस्य शिष्टाचारमेलनम्

ई-टैक्सी-सेवा हेतु आयुसीमा संवर्ध्य ५० वर्षाणि कृता, आवेदनस्य अन्तिमतिथिः अपि १ मासम् यावत् वर्धिता

TAGGED: him sanskrit varta, him sanskritam, himachal abhi abhi, Himachal news, himachal update, himsanskrit varta, Himsanskritam, Himsanskritnews, himsanskritnews headlines, HP NEWS, Jai Ram Thakur, jair, National News, national News Headlines, News Headlines, अन्तर्राष्ट्रीय समाचार, जयरामठाकुर, दिव्य हिमाचल समाचार, मुख्य वार्ता, मुख्य समाचार, राष्ट्रीय समाचार, विपक्षनेता जयरामठाकुरः, हिम संस्कृत वार्ताः, हिम संस्कृतम्, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः, हिमाचल अपडेट, हिमाचल अभी अभी, हिमाचल समाचार
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article राहुलगान्धी सदनस्य गरिमां पातयित्वा देशं भ्रामयितुं राजनीतिं करोति – अनुरागठाकुर:
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Register Lost your password?