‘हिम-बस-प्लस्-कार्ड’ इति माध्यमेन लाभान्विताः भविष्यन्ति लक्षाधिक-यात्रिणः, देहली-मेट्रो, पञ्जाब-हरियाणा-राज्ययोः बस-यानेषु अपि चलिष्यति एतद् यात्रापत्रम्
हिमसंस्कृतवार्ता: — शिमला।
हिमाचलप्रदेशे एच.आर.टी.सी. (HRTC) मध्ये नूतनस्य ‘हिम-बस-प्लस-कार्ड’ इत्यस्य आरम्भः अभवत्। सोलन-मण्डलस्य क्यारीघाट-स्थानात् प्रदेशस्य मुख्यमन्त्रिणा उपमुख्यमन्त्रिणा च अस्य ‘कार्ड’-इत्यस्य विधिवत् रूपेण आरम्भः कृतः। अस्मिन् अवसरे प्रदेशस्य उपमुख्यमंत्री मुकेशअग्निहोत्री अवदत् यत् ‘हिम-बस-प्लस्-कार्ड’ इत्यस्य आरम्भः सर्वासां श्रेणीनां यात्रिभ्यः महती सुविधा सिद्धा भविष्यति। एषः ‘स्मार्ट-कार्ड’ एच.आर.टी.सी. संस्थायाः विविधानां यात्रा-सुविधा-योजनानां परिपत्राणां च लाभान् एकेनैव ‘कार्ड’-मध्ये समाविष्टान् करिष्यति। एतद् ‘परिपत्रं’ केवलं ३६५ रूप्यकाणां वार्षिक-सदस्यता-शुल्क-आधारे उपलब्धः भविष्यति। तेन प्रोक्तं यत् अस्य ‘कार्ड’-इत्यस्य उपयोगः देहली-मेट्रो (Delhi Metro) तथा च पञ्जाब-हरियाणा-राज्ययोः बस-सेवास्वपि कर्तुं शक्यते, येन यात्रिणां यात्रा इतोऽपि सुगमा सौविध्या च भविष्यति।
उप-मुख्यमन्त्रिणा कथितं यत् प्रदेशसर्वकारः सार्वजनिक-परिवहनस्य प्रोत्साहनाय तथा च हिमाचल-पथ-परिवहन-निगमं (HRTC) आर्थिक-रूपेण सशक्तं विधातुं निरन्तरं प्रयासरतः अस्ति। तेन उक्तं यत् आगामि-वर्षेषु निगमः १,००० विद्युत्-बस-यानानि (Electric Buses) क्रेष्यति। एतेषां २९७ नूतनानाम् बस-यानानां समावेशेन निगमे विद्युत्-बस-यानानां कुल-सङ्ख्या वर्धित्वा ५०७ संजाता अस्ति। अग्निहोत्रिणा प्रोक्तं यत् भविष्ये केवलं ४७-आसन-श्रेण्याः (47-Seater) ‘डीजल’-बस-यानानि एव क्रेष्यन्ते, यदा च राज्ये चरणबद्ध-रूपेण विद्युत्-बस-यानानां सङ्ख्या वर्धयिष्यते। तेन कथितं यत् आगामि-१२ वर्षाणि यावत् समवायेन (Company) एतेषां बस-यानानाम् संरक्षणं (Maintenance) करिष्यते। उप-मुख्यमन्त्रिणा उक्तं यत् सर्वकारः प्रयासम् करोति यत् प्रत्येक-मासस्य प्रथमे दिनाङ्के कर्मचारिणां वेतनस्य तथा च प्रत्येक-मासस्य १० दिनाङ्कं यावत् पेंशन-राशेः भुक्ति: सुनिश्चिता भवेत् अस्य कृते च व्यवस्था सुव्यवस्थिता क्रियमाणा अस्ति। तेन प्रोक्तं यत् पुरातन-पेंशन-योजनायाः (OPS) पुनर्स्थापनाया: एच.आर.टी.सी. इत्यस्य ९,०९९ कर्मचारिभ्यः लाभः प्राप्तः, येन तेषां भविष्यत् अधिकं सुरक्षितं जातम्।
अस्मिन् अवसरे अतिरिक्त-मुख्य-सचिवः ओंकारचन्दशर्मा अवदत् यत् विद्युत्-बस-यानानां सञ्चालने विस्तारः पर्यावरण-संरक्षणस्य दिशि एकं महत्त्वपूर्णं पदम् अस्ति। अनेन एच.आर.टी.सी. संस्थायाः सञ्चालन-व्यये न्यूनीकरणम् आगमिष्यति यात्रिभ्यश्च सुरक्षिता, विश्रामदा, आधुनिकी च परिवहन-सुविधा उपलप्स्यते। तेन प्रोक्तं यत् सतत-सार्वजनिक-परिवहनस्य दिशि निगमस्य एषा एका ऐतिहासिकी उपलब्धिः अस्ति। अस्मिन् अवसरे एच.आर.टी.सी. इत्यस्य उपाध्यक्षः अजयवर्मा, जिला-काङ्ग्रेस-समित्याः अध्यक्षः सुभाषबरमानी, एच.पी.एस.आई.डी.सी. इत्यस्य उपाध्यक्षः अनुरागशर्मा, कैलाश-फेडरेशन इत्यस्य अध्यक्षः बलदेवठाकुरः, एच.आर.टी.सी. इत्यस्य प्रबन्ध-निदेशकः डॉ. निपुणजिन्दलः, ओलेक्ट्रा-ग्रीनटेक-लिमिटेड इत्यस्य प्रबन्ध-निदेशकः महेशबाबू, परिवहन-निदेशकः नीरजशर्मा, एच.आर.टी.सी. मण्डलस्य सदस्याः छत्रसिंहः, निशान्तठाकुरः, प्रदीपसूर्या, अजयवर्मा अन्ये च वरिष्ठ-अधिकारिणः उपस्थिताः आसन्।
