By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: कविकुलगुरु-कालिदास-संस्कृत-विश्वविद्यालयस्य महाकविकालिदास-संस्कृतव्रति- राष्ट्रियपुरस्कारस्य आवेदन/नामनिर्देशनपत्राणाम् आह्वानम्
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > प्रादेशिकवार्ता > कविकुलगुरु-कालिदास-संस्कृत-विश्वविद्यालयस्य महाकविकालिदास-संस्कृतव्रति- राष्ट्रियपुरस्कारस्य आवेदन/नामनिर्देशनपत्राणाम् आह्वानम्
प्रादेशिकवार्तासंस्कृतगतिविधयःहिमाचलवार्ता

कविकुलगुरु-कालिदास-संस्कृत-विश्वविद्यालयस्य महाकविकालिदास-संस्कृतव्रति- राष्ट्रियपुरस्कारस्य आवेदन/नामनिर्देशनपत्राणाम् आह्वानम्

डॉ मनोज शैल
Last updated: 2026/05/21 at 7:17 PM
डॉ मनोज शैल
Share
1 Min Read
SHARE

कविकुलगुरु-कालिदास-संस्कृत-विश्वविद्यालयस्य महाकविकालिदास-संस्कृतव्रति- राष्ट्रियपुरस्कारस्य आवेदन/नामनिर्देशनपत्राणाम् आह्वानम्

महाराष्ट्रराज्ये विद्यमानस्य कविकुलगुरु-कालिदास-संस्कृत-विश्वविद्यालयस्य पक्षतः स्थानिक-प्रशासनस्य सहकार्येण प्रतिवर्षं पं. रामनारायणशर्मणः स्मृतिप्रीत्यर्थं महाकवि-कालिदास-संस्कृतव्रति-राष्ट्रिय-पुरस्कारः प्रदीयते। यैः विद्वज्जनैः संस्कृतभाषायाः संवर्धनाय, रक्षणाय प्रसारप्रचारार्थं च स्वकीयं जीवनं समर्पितम् अपि च यैः संस्कृतसंशोधनक्षेत्रे विशिष्टं कार्यं विहितं तेभ्यः यथोचितं गौरवप्रदानमिति प्रस्तुतपुरस्कारस्य प्रयोजनम्। वर्षेऽस्मिन्नपि विश्वविद्यालयस्य पक्षतः अस्य पुरस्कारस्य कृते आवेदनपत्राणि/ नामनिर्देशनानि आहूयन्ते।

अयं पुरस्कारः ज्येष्ठविद्वद्भ्यः तथा युवविद्वद्भ्यश्च दीयन्ते । ज्येष्ठविद्वत्प्रवर्गे आवेदकानां वयः अष्टचत्वारिंशत् (above age 48 yrs ) तदधिकं वा भवेत् । तथा युवप्रवर्गे आवेदकानां वयः पंचत्रिंशत् वर्षत: अष्टचत्वारिंशत्पर्यंन्तं (age from 35 to 48 yrs.) भवितुमर्हति । यैः संस्कृतक्षेत्रमभिलक्ष्य विशिष्टं कार्यं कृतमस्ति ते सर्वेऽपि स्वीयम् आवेदनपत्रं चतसृभिः प्रतिलिपिभिः सह तथा च अङ्कीयप्रतिसहितं (सॉफ्टकॉपीसहितं) 30 जून 2026 पर्यन्तं कार्यालयं प्रति प्रेषयन्तु। तथा च सन्मान्यसंस्कृतसंस्थायाः प्रमुखाः अथवा संस्कृतविद्वद्वरेण्याः अपि अस्य पुरस्कारार्थं नामनिर्देशनं कर्तुं शक्नुवन्ति ।

आवेदनपत्राणां प्रेषणाय सङ्केतस्थानम् – कुलसचिवः, कविकुलगुरुकालिदाससंस्कृतविश्वविद्यालयः, प्रशासकीयभवनम्, मौदामार्गः, रामटेकम् – 441106, जनपदः – नागपुरम् , महाराष्ट्रम्

आवेदनप्रेषणाय अणुसंकेत: registrar@kksu.org/pro@kksu.org

 

 

You Might Also Like

*कुमारभास्करवर्मसंस्कृत-पुरातनाध्ययनविश्वविद्यालये सांख्यप्रतिपादितदुःखत्रयाणामुपरि व्याख्यानम्* 

*पश्चिमबङ्गे ऐतिहासिकः राजनीतिकपरिवर्तनः : संस्कृतशपथग्रहणेन स्पन्दितं समग्रभारतम्।*

प्रदेशाय ३१ मई पर्यन्तं सज्जा भवतु पोषणनीतिः, मुख्यमन्त्रिणः निर्देशाः

HP PANCHAYAT ELECTION -जिलापरिषदः सङ्घर्षः, अधुना प्रतिष्ठायाः विषयः सञ्जातः

चिट्टा-विक्रयिणः अधिकारिणः कर्मचारिणः च भविष्यन्ति पदच्युताः, सेवनकर्तृणां भविष्यति अन्वेषणं विभागीय-सचिवेभ्य: प्रदत्ता सूची 

TAGGED: Central Sanskrit University, him sanskrit varta, him sanskritam, HIM SASNSKRIT VARTA, himsanskrit varta, Himsanskritam, Himsanskritnews, himsanskritnews headlines, KKSU, KKSU Ramtek, sanskrit University, कविकुलगुरुकालिदाससंस्कृतविश्वविद्यालय, संस्कृत विश्वविद्यालय, हिम संस्कृत वार्ताः, हिम संस्कृतम्, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article ओस्लो-नगरे प्रेस-स्वातन्त्र्यविषये तीक्ष्णः वादविवादः, नॉर्वे-देशस्य महिलापत्रकारस्य प्रश्नः, विदेशमन्त्रालयेन उत्तरं दत्त्वा मुखं कीलितम्
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?