By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: KKSU Ramtek – महिलाभ्यः आर्थिकस्वायत्तता आवश्यकी– डॉ. मेधाकानेटकर।
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > प्रादेशिकवार्ता > KKSU Ramtek – महिलाभ्यः आर्थिकस्वायत्तता आवश्यकी– डॉ. मेधाकानेटकर।
प्रादेशिकवार्तासंस्कृतगतिविधयः

KKSU Ramtek – महिलाभ्यः आर्थिकस्वायत्तता आवश्यकी– डॉ. मेधाकानेटकर।

डॉ मनोज शैल
Last updated: 2026/01/25 at 12:43 PM
डॉ मनोज शैल
Share
2 Min Read
SHARE

KKSU Ramtek – महिलाभ्यः आर्थिकस्वायत्तता आवश्यकी– डॉ. मेधाकानेटकर।

महिलाभिः स्वयं स्वव्यक्तित्वस्य निर्माणं करणीयम्– प्रो. ललिता चन्द्रात्रे

हिमसंस्कृतवार्ता:- डॉ. रेणुका बोकारे, नागपुरम्। कविकुलगुरु- कालिदास- संस्कृत- विश्वविद्यालयेन ‘संस्कृतप्रज्ञायाः आलोकं महिला- सशक्तीकरणस्य दृष्टिकोणम्’ इति विषये एकदिवसीय- राज्यस्तरीय- सम्मेलनं सम्पन्नम्।

कविकुलगुरु- कालिदास- संस्कृत- विश्वविद्यालयस्य पक्षतः ‘स्वयंसिद्धा– स्त्रीप्रेरणामहोत्सवस्य’ अन्तर्गतं “नारी तू नारायणी– संस्कृतप्रज्ञायाः आलोकं महिलासशक्तीकरणस्य दृष्टिः” इति विषये एकदिवसीय- राज्यस्तरीय- सम्मेलनस्य आयोजनं विहितम्। अस्य सम्मेलनस्य कृते केन्द्रीयसंस्कृतविश्वविद्यालयात् (नवदेहली) आर्थिकानुदानं प्राप्तम् अस्ति। उद्घाटनसमारोहे मुख्यतिथिरूपेण श्रीनिकेतनमहाविद्यालयस्य प्राचार्या डॉ. मेधा कानेटकर, सारस्वतातिथिरूपेण डॉ. मंजुश्री सरदेशपाण्डे, विशेषातिथिरूपेण कर्नाटकसंस्कृतविश्वविद्यालयस्य प्रो. शिवानी वी., सम्पूर्णबांबूकेन्द्रस्य (मेळघाट) अध्यक्षा निरुपमा देशपाण्डे उपस्थिताः आसन्। कार्यक्रमस्य अध्यक्षता शिक्षाशास्त्रसङ्कायस्य अधिष्ठात्री प्रो. ललिता चन्द्रात्रे कृतवती।

उद्घाटनं प्रदर्शनी च-

माननीयकुलगुरोः डॉ. अतुलवैद्यस्य मार्गदर्शने आयोजितस्य अस्य सम्मेलनस्य उद्घाटनं दीपप्रज्ज्वलनेन अभवत्। अस्मिन् अवसरे महाराष्ट्रस्य विभिन्नजनपदेभ्य: आगतानां महिलानां हस्तकलानां ‘स्वयंसिद्धा प्रदर्शनी’ इत्यस्याः उद्घाटनं डॉ. मेधा कानेटकरमहोदयायाः करकमलैः सम्पन्नम्। अतिथयः उत्पादान् क्रीत्वा आत्मनिर्भरमहिलानाम् उत्साहवर्धनं कृतवन्तः।

नारायणी सम्मानः वक्तृणां विचाराश्च

विश्वविद्यालयेन जनजातीयक्षेत्रेषु उल्लेखनीयं कार्यं कुर्वतां वैद्यानां उद्यमिनां च ‘नारायणी सम्मानः’ प्रदत्तः। डॉ. मेधा कानेटकर: सा अवदत् यत् महिलाभिः पारम्परिकं परतन्त्रमानसिकतां त्यक्त्वा स्वतन्त्ररूपेण निर्णयः स्वीकरणीयः। केवलं धनार्जनं पर्याप्तं नास्ति, अपि तु आर्थिकस्वायत्तता आवश्यकी अस्ति।

महिलाभिः स्वकीया आत्मशक्तिः संवर्धनीया– डॉ. मंजुश्री सरदेशपाण्डे

डॉ. मंजुश्री सरदेशपाण्डे: सा उक्तवती यत् स्त्री मूलतः स्वयंसिद्धा अस्ति, सा आत्मिक- भावनात्मकदृष्ट्या सक्षमा वर्तते। प्रो. कलापिनी अगस्ती: सा कालिदासस्य श्लोकानां माध्यमेन स्त्री-पुरुषयोः समन्वयस्य, परस्परसम्मानस्य च महत्त्वं प्रतिपादितवती।

अध्यक्षीये उद्बोधने प्रो. ललिता चंदात्रे अकथयत् यत् नैरन्तर्येण शिक्षणं व्यक्तित्वनिर्माणाय आवश्यकं वर्तते। समाजे परिवारे व्यक्तिगतस्तरे च अनेके संघर्षा: भवन्ति। परन्तु महिलाभि: धैर्यपूर्वकं स्वव्यक्तित्वस्य विकास: कर्तव्य:।

प्रकाशनं परिचर्चा च-

गीतप्रकाशनम्- देहल्यां आयोज्यमानायाः ‘भारती– नारी से नारायणी’ परिषदः ‘सिग्नेचर गीतस्य’ प्रकाशनं कृतम्। अस्य गीतस्य शब्दरचना अदितीदेशमुखेन कृता, स्वरश्च डॉ. मञ्जिरी वैद्य-अय्यरमहोदयया दत्तः।

विद्वत्-पत्रिका:-

संस्कृतविदुषीणां अवदानाधारितायाः ‘संस्कृत– सारस्वत– विदुषी’ इति विशेषपत्रिकायाः विमोचनं कृतम्।

संवादः– ‘संवाद स्वयंसिद्धाओं से’ इत्यन्तर्गतं मेळघाटक्षेत्रे कार्यरता निरुपमा देशपाण्डे, डॉ. अश्विनी बुजोणे महोदयाभ्यां च सह डॉ. रेणुका बोकारे महोदया संवादं कृतवती। ‘विकसितभारतम् २०४७’ इत्यस्मिन् महिलानेतृत्वस्य भूमिकायाः उपरि अपि एका महत्त्वपूर्णा परिचर्चा आयोजिता। कार्यक्रस्य सञ्चालनं प्रो राधा देशकर महोदया कृतवती, आभारप्रकटनं च डॉ. श्वेता शर्मा महोदया अकरोत्।

You Might Also Like

भक्तिवेदान्तपरिसरे दशदिवसीया संस्कृतसम्भाषणकार्यशाला सम्पन्ना

सरलमनुष्यस्य दायित्वम्

सूर्य: अस्तं गच्छति, वयम् अपि वा?।

HP SNOWFALL हिमाचले महत्-हिमपातेन जनजीवनं अस्तव्यस्तं, ३२०० तः अधिकाः विद्युत्- परिवर्तकाः बाधिता: 

धर्मशाला-छात्रा-मृत्युप्रकरणम् – अन्वेषणे जातिगत-आलोचनायाः ‘रैगिंग’ इत्यस्य च किमपि प्रमाणं न प्राप्तम्; यौनशोषणस्य कोणात् अन्वेषणं प्रचलति

TAGGED: him sanskrit varta, him sanskritam, himachal abhi abhi, Himachal news, himachal update, himsanskrit varta, Himsanskritam, Himsanskritnews, HP NEWS, KKSU, KKSU Ramtek, sanskrit University, कविकुलगुरुकालिदाससंस्कृतविश्वविद्यालय, दिव्य हिमाचल समाचार, हिम संस्कृत वार्ताः, हिम संस्कृतम्, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः, हिमाचल अपडेट, हिमाचल अभी अभी, हिमाचल समाचार
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article लोकभवने उत्तरप्रदेश-त्रिपुरा-मेघालय-मणिपुर-राज्याणां स्थापनादिवसस्य आयोजनम् 
Next Article हिममयं हिमाचलम्- हिमाचले ११ स्थानेषु तापमानं शून्यतः न्यूनम्; किमर्थं आवश्यकी हिमवृष्टिः, अस्मिन् वर्षे विलम्बः किमर्थम्? 
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?