By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: हिममयं हिमाचलम्- हिमाचले ११ स्थानेषु तापमानं शून्यतः न्यूनम्; किमर्थं आवश्यकी हिमवृष्टिः, अस्मिन् वर्षे विलम्बः किमर्थम्? 
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > हिमाचलवार्ता > हिममयं हिमाचलम्- हिमाचले ११ स्थानेषु तापमानं शून्यतः न्यूनम्; किमर्थं आवश्यकी हिमवृष्टिः, अस्मिन् वर्षे विलम्बः किमर्थम्? 
हिमाचलवार्ता

हिममयं हिमाचलम्- हिमाचले ११ स्थानेषु तापमानं शून्यतः न्यूनम्; किमर्थं आवश्यकी हिमवृष्टिः, अस्मिन् वर्षे विलम्बः किमर्थम्? 

डॉ मनोज शैल
Last updated: 2026/01/25 at 1:00 PM
डॉ मनोज शैल
Share
4 Min Read
SHARE

हिममयं हिमाचलम्- हिमाचले ११ स्थानेषु तापमानं शून्यतः न्यूनम्; किमर्थं आवश्यकी हिमवृष्टिः, अस्मिन् वर्षे विलम्बः किमर्थम्? 

 

हिमसंस्कृतवार्ता: – शिमला। 

हिमाचलप्रदेशे दीर्घकालस्य शुष्कतापीडायाः (Dry spell) अनन्तरं एकस्मिन् दिवसे एव सामान्यतः ५४८ तः ४००० प्रतिशतं यावत् वर्षा अङ्किता। विगत-चतुर्विंशति-होरासु प्रदेशे ४४.८ मिलीमीटर वर्षा अभवत्, या सामान्यात् १६२२ प्रतिशतं अधिका अस्ति। जनपदस्तरे ऊना-जनपदे सामान्यात् ४०६९ प्रतिशतं तथा सोलन-जनपदे ४०९७ प्रतिशतं अधिका वर्षा अभवत्।

किमर्थं विलम्बेन जातः हिमपातः? 

हिमाचलप्रदेशे अस्मिन् वर्षे पश्चिमी-विक्षोभस्य दुर्बलतायाः कारणेन हिमपाते वर्षायां च विलम्बः जातः। यद्यपि पश्चिमी-विक्षोभः सक्रियः अभवत्, परन्तु सः अतीव क्षीणः आसीत्, येन पर्याप्तं आर्द्रता न प्राप्ता।

हिमपातस्य महत्त्वम्

पर्यावरण- विज्ञान- वायुपरिवर्तन- विभागस्य मुख्यवैज्ञानिकः डॉ. सुरेशचन्दः अवदत् यत् हिमपातस्य सर्वाधिकं लाभं कृषिकर्मणे, उद्यानपालनाय, जल-योजनाभ्यः च भवति। जलसंरक्षणम्: वर्षाजलं प्रवहति, परन्तु हिमः शनैः शनैः विलीयते, येन भूमौ दीर्घावधिं यावत् नम्रता (Moisture) तिष्ठति।

कीट-रोग-निवारणम्– वृक्षाणां कृते हिमः औषधमिव कार्यं करोति, येन कीट-रोगाणां नाशः भवति।

ऊर्जा-उत्पादनम्– हिमनदेषु (Glaciers) अधिकः हिमः ग्रीष्मकाले जलविद्युत्-परियोजनाभ्यः पर्याप्तं जलं प्रदास्यति।

प्रदेशे सर्वाधिकः हिमपातः

शनिवासरे शिमलायां ‘हेली-टैक्सी’ सेवा प्रभाविता अभवत्। प्रदेशे सर्वाधिकः हिमपातः कोठी (३.५ पादः), गोंदला (२.८ पादः) तथा केलाङ्ग (२.५ पादः) क्षेत्रेषु अभवत्। शिमला-मनाली-क्षेत्रयोः सपाद- एक पाद-परिमितः (१.२५- १.५ feet) हिमपातः अङ्कितः।

प्रचण्ड-वातेन वृक्षाः भवनानि च क्षतिग्रस्तानि 

प्रदेशे रात्रौ ८० किलोमीटर प्रतिघण्टा वेगेन प्रचण्डवाताः वहन्ति स्म। नारकण्डा (८१ कि.मी.), कुफरी (८० कि.मी.) तथा शिमला (७० कि.मी.) क्षेत्रेषु वातेन वृक्षाः उत्खाटिताः, भवनानां छदः (Roofs) अपि उत्पतितः। ४००० परिमितं विद्युत्- परिवर्तकाः (Transformers) दोषपूर्णाः अभवन्, येन विद्युत्-आपूर्ति: अवरुद्धा अस्ति।

अग्रिम-पूर्वानुमानम् पुनः हिमपातस्य सचेतना

वरिष्ठ- वैज्ञानिकः सन्दीपकुमारशर्मा अज्ञापयत् यत् २६- २७ जनवरी दिनाङ्कयो: पश्चिमी-विक्षोभः पुनः तीव्रः भविष्यति। अतः प्रदेशे व्यापक-हिमपातस्य पीतसचेतना कृता। प्रदेशे न्यूनतमतापमाने ७ डिग्री पर्यन्तं ह्रासः जातः।

११ स्थानेषु तापमानं शून्यतः न्यूनम् 

अस्मिन् ऋतौ प्रथमवारं ११ स्थानेषु तापमानं शून्यतः न्यूनम् अङ्कितम्। कुकुमसेरी -७.२ डिग्री तापमानेन सर्वाधिकं शीतलं स्थानं वर्तते। अन्यानि स्थानानि सन्ति:

ताबो: – ६.०°

नारकण्डा: – ४.२°

कल्पा: – ३.८°

शिमला: – ०.५°

मनाली: – ०.४°

Kullu News – रघुपुरगढतः १२ पर्यटकानां सुरक्षितं निष्कासनम्; मार्ग-विद्युत्-सेवानां पुनर्स्थापनं तीव्रगत्या प्रचलति 

हिमसंस्कृतवार्ता:- कुल्लू:। हिमाचलप्रदेशस्य कुल्लू-जनपदे प्रचण्डहिमपातस्य कारणेन बञ्जार- उपमण्डलस्य रघुपुरगढे निरुद्धाः १२ पर्यटकाः शनिवासरे अपराह्णे प्रशासनेन सुरक्षितं निष्कासिताः। सर्वे पर्यटकाः बञ्जारस्य ‘जीभी’ क्षेत्रं प्रति आनीताः, तत्र च तेषां वासस्य व्यवस्था कृता अस्ति। पर्यटननगर्यां मनाल्याम् अपि मार्गेषु निरुद्धेभ्यः वाहनचालकेभ्यः पर्यटकेभ्यः च प्रशासनं खाद्यसामग्रीं जलपानं च प्रददाति। पर्यटकानां स्वास्थ्यपरीक्षणाय मनाल्यां मार्गपार्श्वे ‘चिकित्सा- शिबिरम्’ (Medical Camp) अपि स्थापितं वर्तते। प्रशासनेन मार्ग-निवारणकार्यं तीव्रं कृतं, सायङ्कालं यावत् मनालीमार्गः वाहनानां कृते मुक्तः भविष्यति इति सम्भावना आसीत्। राजस्वविभागस्य कर्मचारिणः पीडितजनानां कृते रसम् (Juice) अन्यानि च भोज्यवस्तूनि नीत्वा गच्छन्तः सन्ति। शनिवारे अपराह्णे कुल्लू- उपत्यकायां ऋतुः स्वच्छः जातः, मन्दा सूर्यप्रभा च विकसिता, येन स्थानीयजनाः सुखस्य निःश्वासं स्वीकृतवन्तः। कुल्लू-उपायुक्तः तोरुल एस. रवीश महोदया अवदत् यत् सर्वेषां निरुद्ध- वाहनचालकानां सम्पर्कः जातः अस्ति, ते च सर्वे कुशलाः सन्ति। नगरपरिषद् मनाली अपि नगरात् हिमं दूरीकर्तुं प्रयत्नशीला अस्ति।

 

Himachal Weather – अत्यधिकहिमपातस्य कारणेन कालका-शिमला रेलमार्गः अवरुद्धः

हिमसंस्कृतवार्ता:- शिमला। शिमला- समीपवर्ति- क्षेत्रेषु जातस्य भारी-हिमपातस्य वर्षायाः च कारणेन ऐतिहासिकः कालका-शिमला रेलमार्गः अत्यन्त: प्रभावितः जातः। प्रतिकूल-ऋतुकारणेन रेलमार्गे भूस्खलनं (Landslide), वृक्षाणां पाषाणानां च पतनं जातं, येन रेलयानानां आवागमनं दीर्घकालं यावत् स्थगितम् अभवत्। रेल- अधिकारिणां मतेन सनवारा, कुमारहट्टी तथा जतोग क्षेत्रेषु मार्गावरोधेन रेलयानानां विलम्बः जातः। ‘हिमालयन क्वीन’ इति रेलयानं सनवारावने प्रायः अर्द्धहोरां यावत् निरुद्धम् आसीत्। शिवालिक एक्सप्रेस अपि स्वसमयात् चतुर्घण्टां (4 hours) विलम्बेन शिमलां प्राप्तम्। वरिष्ठ: मण्डल- वाणिज्य- प्रबन्धकः नवीन कुमारः अवदत् यत् रेलदलं मार्गं स्वच्छं कर्तुं, यात्रीणां सुरक्षां सुनिश्चितं कर्तुं च निरन्तरं कार्यं कुर्वत् अस्ति। ऋतुस्थितिं दृष्ट्वा रेलयानानां समयेऽपि परिवर्तनं कृतम् अस्ति।

You Might Also Like

HP SNOWFALL हिमाचले महत्-हिमपातेन जनजीवनं अस्तव्यस्तं, ३२०० तः अधिकाः विद्युत्- परिवर्तकाः बाधिता: 

धर्मशाला-छात्रा-मृत्युप्रकरणम् – अन्वेषणे जातिगत-आलोचनायाः ‘रैगिंग’ इत्यस्य च किमपि प्रमाणं न प्राप्तम्; यौनशोषणस्य कोणात् अन्वेषणं प्रचलति

देहली- शिमला- धर्मशाला- उड्डयनानां सुचारुसञ्चालनाय राज्यसर्वकारः प्रतिवर्षं ३१ कोटिरूप्यकाणि दास्यति- मुख्यमंत्री 

पञ्चायत-निर्वाचनम् – हिमाचले पञ्चायत- निर्वाचनस्य सिद्धता तीव्रा निर्वाचन-आयोगस्य निर्देशः 

“मनरेगा बचाओ संग्राम: राज्यसर्वकारः होराद्वयं यावत् उपवासं करिष्यति

TAGGED: him sanskrit varta, him sanskritam, himachal abhi abhi, Himachal news, himachal update, himsanskrit varta, Himsanskritam, Himsanskritnews, HP NEWS, दिव्य हिमाचल समाचार, हिम संस्कृत वार्ताः, हिम संस्कृतम्, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः, हिमाचल अपडेट, हिमाचल अभी अभी, हिमाचल समाचार
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article KKSU Ramtek – महिलाभ्यः आर्थिकस्वायत्तता आवश्यकी– डॉ. मेधाकानेटकर।
Next Article हिमाचलप्रदेशस्य ४७ नगरनिकायेषु प्रशासकाः नियुक्ताः; विकासकार्याणां कृते सर्वकारेण प्रदत्ताः वित्तीयाधिकाराः
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?