BJP President – भाजपायाः राष्ट्रियाध्यक्षत्वेन मम निर्वाचनं एकस्य साधारणकार्यकर्तुः असाधारणयात्रायाः सम्मानः अस्ति- नितिननवीनः
हिमसंस्कृतवार्ता:- नवदेहली। भारतीयजनतापक्षस्य सङ्घटनं केवलं व्यवस्था नास्ति, अपि तु एकः संस्कारः अस्ति। अद्य भाजपायाः राष्ट्रियाध्यक्षत्वेन मम निर्वाचनं एकस्य साधारणकार्यकर्तुः असाधारणयात्रायाः सम्मानः, सेवायाः च दृढसङ्कल्पः अस्ति। इति नूतन: राष्ट्रीयाध्यक्ष: नितिननवीन: स्वीये आमुखपटले उल्लेखं कृतवान्। असौ अकथयत् यत् अस्य नवीनदायित्वस्य कृते अहं माननीयप्रधानमन्त्रिणं नरेन्द्रमोदीमहोदयं, पूर्वराष्ट्रियाध्यक्षस्य माननीयं श्री जे. पी. नड्डामहोदयं प्रति स्वकृतज्ञतां ज्ञापयामि। अहं तेषां सर्वेषां प्रदेशाणां पक्षस्य वरिष्ठाणां च नेतृणां हृदयतः आभारं प्रकटयामि, यैः अस्य पदस्य कृते मम नाम प्रस्तावितम्। प्रधानमन्त्रिणा नरेन्द्रमोदीमहोदयेन देशं ‘विकसितभारतम्’ इति निर्मातुं यः सङ्कल्पः दत्तः, तं साकारं कर्तुं वयं सर्वे पूर्णैकतया प्रतिबद्धतया च निरन्तरं कार्यं करिष्यामः। अहं पूर्णगौरवेण आदरपूर्वकं च श्री जे. पी. नड्डा महोदयस्य नेतृत्वस्य कृते तस्य हार्दिकम् आभारं करोमि। तस्य नेतृत्वे सङ्घटनस्य अभूतपूर्वः विस्तारः जातः, कार्यकर्ता- आधारित- राजनीतिः सेवायाः संस्कृतिः च अधिका सुदृढा अभवत्। तामेव सङ्घनात्मकपरम्परां अग्रे नेतुं मम सहसङ्कल्पः अस्ति। भाजपा देशस्य एकमात्रं तादृशं दलं वर्तते यत्र उच्चपदेभ्यः गुरुतरदायित्वेभ्यः च कस्यचित् विशिष्टपरिवारस्य सदस्यत्वम् आवश्यकं नास्ति। अत्र साधारणकार्यकर्ता इति भावः एव महत्तमा योग्यता अस्ति। अस्मिन्नेव सङ्घटने एकस्य सामान्यपरिवारस्य व्यक्तिः देशस्य प्रधानमन्त्री भवितुं शक्नोति, एकः साधारणकार्यकर्ता च राष्ट्रियाध्यक्षसदृशम् उत्तरदायित्वं प्राप्तुं शक्नोति। डॉ. श्यामाप्रसादमुखर्जी महोदयस्य बलिदानात् आरभ्य पं. दीनदयाल उपाध्याय महोदयस्य एकात्ममानववादं यावत्, अटल बिहारी वाजपेयी महोदयस्य आदर्शेभ्यः आरभ्य प्रधानमन्त्रिणः श्री नरेन्द्रमोदी महोदयस्य निर्णायक-दूरदर्शि-नेतृत्वं यावत्, भाजपायाः प्रतिपदं एकस्मिन्नेव सङ्कल्पेन सञ्चालितम् अस्ति: ‘राष्ट्रं प्रथमम्’। भाजपा सर्वदा युवाशक्तौ विश्वासं कृतवती, अयं विश्वासः केवलं घोषवाक्येषु सीमितः नास्ति। एतत् सङ्घटनस्य संरचनायां, निर्णयप्रक्रियायां, नेतृत्वनिर्माणे च निरन्तरं दृश्यते। राजनीतिः न तु शतमीटरपरिमितं धावनं (Sprint), अपि तु एका दीर्घा मैराथनस्पर्धा अस्ति। शतमीटरधावने वेगस्य (Speed) परीक्षणं भवति, मैराथन-धावने च सहनशक्तेः (Stamina) परीक्षणं भवति। अतः युवानः धैर्येण सह राजनीतिक्षेत्रे स्थातुम् आवश्यकाः सन्ति। अद्य अहं देशस्य प्रत्येकं कार्यकर्तारं प्रति वक्तुमिच्छामि: भवान् केवलं कार्यकर्ता नास्ति, अपि तु भवान् राष्ट्रनिर्माणस्य सैनिकः अस्ति। भवतः सङ्घर्षः, निष्ठा, परिश्रमः च भारतस्य उज्ज्वलभवितव्यस्य सुदृढा आधारशिला अस्ति। अस्माकं लक्ष्यं स्पष्टं वर्तते: २०४७ पर्यन्तं भारतं विकसितराष्ट्रं निर्माणं, प्रधानमन्त्रिणः सङ्कल्पस्य च सिद्धिः। एकं तादृशं भारतं निर्मातव्यं यत्र विकासः विरासतः च सहैव अग्रे गच्छेताम्। अहं जानामि यत् एषा यात्रा दीर्घा अस्ति आह्वानानि च आगमिष्यन्ति, परन्तु भाजपायाः कार्यकर्ता कदापि विचलितः न भवति, यतः सः सत्तायाः न, अपि तु सेवायाः सङ्कल्पस्य च राजनीतिं करोति। अहं गर्वमनुभवामि अस्ति यत् अहं अस्य महान् सङ्घटनस्य कार्यकर्ता अस्मि। मयि गर्वः अस्ति यत् अहं भाजपापरिवारस्य अङ्गम् अस्मि। अस्यां यात्रायां भवतां सर्वेषां मार्गदर्शनस्य, स्नेहस्य, सहयोगस्य च अपेक्षा वर्तते।
