By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: महाराष्ट्रसर्वकारस्य कौशलविकास:, जीविका, उद्यमिता एवं नवीनताविभागाय कविकुलगुरु-कालिदाससंस्कृत-विश्वविद्यालयेन द्वौ पाठ्यक्रमौ निर्मितौ
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > प्रादेशिकवार्ता > महाराष्ट्रसर्वकारस्य कौशलविकास:, जीविका, उद्यमिता एवं नवीनताविभागाय कविकुलगुरु-कालिदाससंस्कृत-विश्वविद्यालयेन द्वौ पाठ्यक्रमौ निर्मितौ
प्रादेशिकवार्तासंस्कृतगतिविधयःहिमाचलवार्ता

महाराष्ट्रसर्वकारस्य कौशलविकास:, जीविका, उद्यमिता एवं नवीनताविभागाय कविकुलगुरु-कालिदाससंस्कृत-विश्वविद्यालयेन द्वौ पाठ्यक्रमौ निर्मितौ

डॉ मनोज शैल
Last updated: 2025/12/17 at 10:16 PM
डॉ मनोज शैल
Share
2 Min Read
SHARE

महाराष्ट्रसर्वकारस्य कौशलविकास:, जीविका, उद्यमिता एवं नवीनताविभागाय कविकुलगुरु-कालिदाससंस्कृत-विश्वविद्यालयेन द्वौ पाठ्यक्रमौ निर्मितौ

 

हिमसंस्कृतवार्ता: – नागपुरम्।

महाराष्ट्रराज्यकौशलविकाससभाया: संस्कृतविश्वविद्यालयस्य च संयुक्ताश्रयेण २१ दिवसीयस्य कर्मकाण्डप्रशिक्षणस्य आयोजनम्।

महाराष्ट्रसर्वकारेण कविकुलगुरुकालिदाससंस्कृतविश्वविद्यालयाय प्रमोदमहाजनकौशल-उद्यम-विकास-अभियानम्, अस्याः योजनायाः च अन्तर्गतं २०२७ तमे वर्षे आयोजिते सिंहस्थनासिककुम्भमेला-पर्वणि पूजाविधि:-पुरोहित-प्रशिक्षण-आधारितं विशेषं लघुप्रमाणपत्रपाठ्यक्रमं निर्मातुं निर्देशः दत्तः आसीत् । अस्य निर्देशानुसारं विश्वविद्यालयेन द्वयोः पाठ्यक्रमयोः निर्माणं कृतम् अस्ति । सिंहस्थोत्सवे सनातनधर्मस्य प्रचारार्थं धार्मिक, पुरोहितसेवा, पूजाविधि: च क्षेत्रे जीविकाया: अवसरान् लक्ष्यीकृत्य केन्द्रीकृताः सन्ति। अस्य मुख्योद्देश्यं सम्यक् प्रशिक्षणं दातुं भवति ।

महाराष्ट्रसर्वकारस्य कौशलविकास, रोजगार, उद्यमिता तथा नवीनता विभागस्य, महाराष्ट्रराज्यकौशलविकाससभाया:, मुम्बई तथा च कविकुलगुरुकालिदास- संस्कृतविश्वविद्यालयस्य वैदिकविज्ञानविभागस्य संयुक्त तत्वावधानेन नासिकसिंहस्थस्य पृष्ठभूमितः श्रीस्वामी अखण्डानन्दवेदवेदाङ्गमहाविद्यालये श्रीकैलाश मठ:, नासिकम् इत्यत्र २१ दिवसीयः संस्कारप्रशिक्षणवर्गः आयोजितः भविष्यति। उपर्युक्तवर्गे आयोजनस्य अवधारणा माननीयः मंत्री कौशलविकास:, जीविका, उद्यमिता एवं नवीनताविभाग: श्री मंगलप्रभातलौढा इत्यनेन प्रदत्ता।

उपर्युक्तस्य २१ दिवसीयस्य प्रशिक्षणवर्गस्य उद्घाटनं माननीयमन्त्रिणा विश्वविद्यालयस्य माननीयकुलपतिना च आभासीमाध्यमेन १६-१२-२०२५ दिनाङ्के भविष्यति।

अविश्वविद्यालयस्य कुलपति: डॉ. अतुलवैद्यस्य निर्देशानुसारं वेदविद्या संकायस्य अधिष्ठातु: प्रो.हरेकृष्ण अगस्तीवर्यस्य अध्यक्षतायाः अधीनं उपर्युक्तविषये मार्गदर्शकसमितिः निर्मिता, समितिः वैदिकविज्ञानविभागस्य प्रमुखः डॉ. अमितभार्गवः सचिवरूपेण; सदस्यत्वेन व्याकरणविभागप्रमुख डॉ. जयवन्तचौधरी सदस्य: एवं शास्त्रविद्यागुरुकुलस्य वेदप्राध्यापक: डॉ. निशांतमिश्र: भविष्यन्ति।

 

 

अस्य पाठ्यक्रमस्य लाभाः

 

 

• सर्वकारीयं मान्यताप्राप्तं प्रमाणपत्रम्।

• कुम्भमेलायां सेवाया: अवसर:।

• कौशलविकासः उद्यमशीलतावर्धनं च।

• नासिकमहाकुम्भे पुरोहितत्वप्रशिक्षणं धर्मं, संस्कृतिं, सेवां च जीवनस्य उद्देश्यं मन्यमानानां कृते व्यक्तित्व-अवकाशान् प्रदातुं शक्नोति । पुरोहितत्वप्रशिक्षणेन एतेषां युनां कृते जीविकाया: अवसराः प्राप्यन्ते। महाकुम्भः केवलं श्रद्धायाः उत्सवः एव नास्ति, अपितु संवादस्य वैश्विकविस्तारस्य च शक्तिशालिनः माध्यमः अपि अभवत् । अतः उपर्युक्त प्रशिक्षणं सनातनधर्मस्य वैश्विकप्रवर्धनार्थं वसुधैव कुटुम्बकस्य भावनायाः आधारेण कार्यं कर्तुं च लाभप्रदं भविष्यति।

You Might Also Like

Mandi Shivratri Festival – मण्डीशिवरात्रिमहोत्सवे केवलं पञ्जीकृतदेवतानां पूजनं भविष्यति, यतः पड्डलस्थलं देवानां कृते अतिलघु अभवत्

एचपीएसईबीएल – द्वारा विद्युत् विक्रयणात् ३०० कोटिरूप्यकाणां राजस्वं अर्जितम्- मुख्यमंत्री सुखविन्दरसिंहसुक्खुः

काङ्ग्रेसकार्यकर्तारः अपि सुखस्य सर्वकारे दुःखिताः – जयरामठाकुरः 

HP Panchayat Election – एप्रिलमासे निर्वाचनं सम्पादयितुं समस्या नास्ति-अनिलखाची

अनूपसिंहजसयालः पुस्तकालयविज्ञानविषये विद्यावारिधेः (पीएच.डी) उपाध्याः अलङ्कृतः

TAGGED: Himachal news, himsanskritnews headlines, KKSU, KKSU Ramtek, National News, national News Headlines, News Headlines, sanskrit University, अन्तर्राष्ट्रीय समाचार, कविकुलगुरुकालिदाससंस्कृतविश्वविद्यालय, मुख्य वार्ता, मुख्य समाचार, रामटेक, राष्ट्रीय समाचार, संस्कृत विश्वविद्यालय, हिम संस्कृत वार्ताः, हिम संस्कृतम्, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article HPRCA TGT ARTS TEST – जनवरी १२ तः १६ पर्यन्तं भविष्यति प्रशिक्षितकलास्नातकपरीक्षा।
Next Article देशस्य प्रथमः ‘रेड कार्पेट्’ एनएच मध्यप्रदेशे निर्मितः अस्ति, गडकरी इत्यस्य वन्यजीवानां उद्धाराय अद्वितीयः प्रयोगः
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?