HPRCA TGT ARTS TEST – जनवरी १२ तः १६ पर्यन्तं भविष्यति प्रशिक्षितकलास्नातकपरीक्षा।
प्रवेशपत्राणि एकसप्ताहपूर्वं विमोचयिष्यन्ते
हिमसंस्कृतवार्ता:- हमीरपुरम्।
हिमाचलराज्य- चयनायोगेन हमीरपुरेण प्रशिक्षित- कलास्नातकपरीक्षा (टीजीटी आर्ट्स) पदकूटसंख्या २५००१ पदानि पूरयितुं सङ्गणकाधारितपरीक्षायाः (सीबीटी) तिथयः घोषिताः। परीक्षा जनवरी १२ तः १६ पर्यन्तं भविष्यति। परीक्षायाः एकसप्ताहपूर्वं अभ्यर्थीनाम् अनुक्रमाङ्कसङ्ख्या, प्रवेशपत्रं च निर्गतं भविष्यति।
प्रतिदिनं त्रिषु सत्रेषु भविष्यति परीक्षा-
परीक्षाया: आयोजनं प्रतिदिनं त्रिषु सत्रेषु भविष्यति। TGT Non-Medical परीक्षा 25, 26, 27 दिसम्बर दिनाङ्केषु भविष्यति। अभ्यर्थिनः १८ दिसम्बर दिनाङ्के सायं ५:०० वादनानन्तरं स्वानुक्रमाङ्कसङ्ख्यां प्रवेशपत्रं च प्राप्तुम् आयोगस्य जालपुटे सङ्केतं प्रदत्तं भविष्यति। अस्याः परीक्षायाः कृते १७,००० तः अधिकाः अभ्यर्थिनः आवेदनं कृतवन्तः।
परीक्षा त्रिषु सत्रेषु भविष्यति। प्रथमं सत्रं प्रातः ८:३० वादनतः १०:३० वादनपर्यन्तं, द्वितीयसरम् अपराह्ण १२:०० वादनतः अपराह्ण २:०० वादनपर्यन्तं, तृतीयं सत्रम् अपराह्णे ३:३० वादनतः ५:५० वादनपर्यन्तं भविष्यति। इदानीं गुरुवासरः टीजीटी मेडिकल परीक्षायाः अन्तिमः दिवसः आसीत्। १२,८६६ अभ्यर्थीनां कृते आह्वानपत्राणि निर्गतानि। तेषु ११,१९४ अभ्यर्थिनः परीक्षायां उपस्थिताः आसन्।
टीजीटी आर्ट्स पदकूटसंख्या २५००१ पदानि पूरयितुं सङ्गणकाधारितपरीक्षा जनवरी १२ तः १६ पर्यन्तं भविष्यति। टीजीटी- गणितपरीक्षायाः अनुक्रमाङ्कं, प्रवेशपत्रं च १८ दिसम्बर दिनाङ्के सायं अभ्यर्थिभ्यः निर्गतं भविष्यति।
-डॉ. विक्रममहाजन:, सचिव:, राज्यचयनायोग: हमीरपुरम्।
