सोनिया गांधी, प्रियंका गान्धी चेत्यनयो: उपस्थितौ भविष्यति पूर्वमुख्यमन्त्रिण: स्वर्गीयवीरभद्रसिंहस्य प्रतिमाया: अनावरणम्

हिमसंस्कृतवार्ता: – शिमला।
हिमाचलप्रदेशस्य राजधानी शिमलानगरस्य रिजप्राङ्गणे स्थापितायाः आधुनिकहिमाचलप्रदेशस्य शिल्पकारस्य स्वर्गीयस्य पूर्वमुख्यमन्त्रिण: वीरभद्रसिंहस्य प्रतिमायाः अनावरणसमारोहे पूर्वकाङ्ग्रेसाध्यक्षा सोनियागान्धी, राष्ट्रियमहासचिवः प्रियङ्कागान्धी च भागं गृह्णन्ति। सोमवासरे अस्मिन् कार्यक्रमे राज्यस्य सहस्राणि वीरभद्रसमर्थकाः श्रद्धाञ्जलिम् अर्पयितुम् आगमिष्यन्ति। राज्यकाँग्रेसस्य प्रभारी रजनीपाटिल, पूर्वप्रदेशप्रभारी राजीवशुक्ल:, सचिनपायलट: चापि उपस्थिता: भविष्यन्ति। मुख्यमन्त्री सुखविन्दरसिंहसुक्खु:, उपमुख्यमन्त्री मुकेश: अग्निहोत्री, सम्पूर्णमन्त्रिमण्डलस्य सदस्या: विधायका: चापि उपस्थिता: भविष्यन्ति।
शनिवासरे सीआरपीएफ- सुरक्षाधिकारिणः वीरभद्रसिंहप्रतिष्ठानस्य अध्यक्षस्य विक्रमादित्यसिंहस्य उपस्थितौ रिजप्राङ्गणस्य सुरक्षायाः समीक्षां कृतवन्तः। सायंकाले मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः अपि सज्जतायाः समीक्षां कर्तुं रिजप्राङ्गणं प्राप्तवान्। अस्मिन् कार्यक्रमे राज्यस्य सर्वेभ्यः क्षेत्रेभ्य: जनाः आमन्त्रिताः सन्ति। आयोजनाय भव्यमञ्चस्य निर्माणं क्रियते। सोनिया गान्धी, प्रियंकागान्धी चेत्यनयो: उपस्थितेः कारणात् सुरक्षाव्यवस्था विस्तृता भविष्यति। सुरक्षार्थं मञ्चस्य पुरतः सीमानिर्धारणं भविष्यति। मञ्चेन सह वीआईपी- अतिथिभ्यः प्रतीक्षाक्षेत्रं निर्मातुं निर्देशाः दत्ताः सन्ति।
रिजप्राङ्गणे ७,००० आसन्दा: स्थापिताः भविष्यन्ति, १,००० च आरक्षिताः भविष्यन्ति। आयोजने उपस्थितानां जनानां सुरक्षापरीक्षायाः अनन्तरमेव प्रवेशः अनुमतः भविष्यति। आयोजने सांस्कृतिक- प्रदर्शनानां विषये अपि विचारः क्रियते। आयोजनस्य समये वीरभद्रसिंहस्य जीवनयात्रायाः प्रदर्शनी अपि रिज इत्यत्र भविष्यति। आयोजने आगत्य अतिथयः प्रदर्शनीम् आगमिष्यन्ति, तदनन्तरं प्रतिमायाः अनावरणं श्रद्धांजलिः च भविष्यति। ततः जनसभा भविष्यति। प्रियंका गांधी, मुख्यमंत्री सुखविंदरसिंहसुक्खु:, प्रदेशकांग्रेसाध्यक्षा प्रतिभासिंह, उपमुख्यमंत्री मुकेश अग्निहोत्री च जनसभां संबोधयिष्यन्ति।
सोनिया गान्धी रविवासरे शिमलानगरं प्राप्स्यति
काङ्ग्रेसस्य पूर्वराष्ट्राध्यक्षा सोनिया गान्धी रविवासरे शिमलानगरम् आगमिष्यति। चण्डीगढं प्रति उड्डयनानन्तरं सोनिया गान्धी मार्गेण शिमलानगरं गमिष्यति। शिमलातः सा प्रत्यक्षतया प्रियङ्का गान्धी इत्यस्याः छराबड़ाक्षेत्रस्य निवासस्थानं प्रति गमिष्यति। सोनियागान्धी इत्यस्याः शिमलानगरस्य भ्रमणार्थं सुदृढ़सुरक्षाव्यवस्था कृता अस्ति। मुख्यमन्त्री सुखविन्दरसिंहः सुक्खु: विक्रमादित्यसिंहः रविवासरे सोनियया सह मिलिष्यत

