सुनेत्रापवार-महोदया राष्ट्रवादी-कांग्रेस-दलस्य (NCP) राष्ट्रियाध्यक्षा निर्वाचिता
राष्ट्रवादी-कांग्रेस-दलेन (एनसीपी) महाराष्ट्रस्य उपमुख्यमन्त्री सुनेत्रापवार-महोदया सर्वसम्मत्या दलस्य राष्ट्रियाध्यक्षा रूपेण निर्वाचिता। ह्यः मुम्बई-नगरस्य ‘वरली’ क्षेत्रे आयोजितस्य राष्ट्रवादी-कांग्रेस-दलस्य राष्ट्रिय-अधिवेशनस्य अवसरे अयं निर्णयः स्वीकृतः। दलेन दिवङ्गतस्य अजितपवारस्य पुत्रः पार्थपवारः राज्यसभा-निर्वाचनार्थं दलस्य अभ्यर्थिरूपेण (Candidate) घोषितः।
नवनिर्वाचिता अध्यक्षा सुनेत्रापवार-महोदया सामाजिक-माध्यमेन (Social Media) दलस्य वरिष्ठनेतॄणां, पदाधिकारिणां कार्यकर्तृणां च प्रति कृतज्ञतां प्रकटितवती। सा अवदत् यत् कृषकाः तस्याः दलस्य विचारधारायाः केन्द्रबिन्दवः सन्ति। राष्ट्रवादी-कांग्रेस-दलम् कृषिं अधिकं लाभप्रदं कर्तुं आधुनिक-प्रौद्योगिक्याः तथा च कृत्रिम-बुद्धिमत्तायाः (Artificial Intelligence) उपयोगं वर्धयितुं ध्यानं केन्द्रितं करिष्यति।
सुनेत्रापवार-महोदया राष्ट्रवादी-कांग्रेस-दलस्य (NCP) राष्ट्रियाध्यक्षा निर्वाचिता
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
Leave a comment
